उपविष्टास्तु
ते
सर्वे
यस्मिन्
प्रायं
गिरिस्थले ।
हरयो
गृध्रराजश्च
तं
देशमुपचक्रमे ॥ १ ॥
सम्पातिर्नाम
नाम्ना
तु
चिरञ्चीवी
विहङ्गमः ।
भ्राता
जटायुषः
श्रीमान्
प्रख्यातबलपौरुषः ॥ २ ॥
कन्दरादभिनिष्क्रम्य
स
विन्ध्यस्य
महागिरेः ।
उपविष्टान्
हरीन्
दृष्ट्वा
हृष्टात्मा
गिरमब्रवीत् ॥ ३ ॥
विधिः
किल
नरं
लोके
विधानेनानुवर्तते ।
याथाऽयं
विहितो
भक्ष्याश्चिरान्मह्यामुपागतः ॥ ४ ॥
परं
पराणां
भक्षिष्ये
वानराणां
मृतं
मृतम् ।
उवाचेदं
वचः
पक्षी
तान्निरीक्ष्य
प्लवङ्गमान् ॥ ५ ॥
तस्य
तद्वचनं
श्रुत्वा
भक्ष्यलुब्धस्य
पक्षिणः ।
अङ्गदः
परमायस्तो
हमुमन्तमथाब्रवीत् ॥ ६ ॥
पश्य
सीतापदेशेन
साक्षाद्वैवस्वतो
यमः ।
इमं
देशमनुप्राप्तो
वानराणां
विपत्तये ॥ ७ ॥
रामस्य
न
कृतं
कार्यं
राज्ञो
न
च
वचः
कृतम् ।
हरिणामियमज्ञाता
विपत्तिः
सहसागता ॥ ८ ॥
वैदेह्याः
प्रियकामेन
कृतं
कर्म
जटायुषा ।
गृध्रराजेन
यत्तत्र
श्रुतं
वस्तदशेषतः ॥ ९ ॥
प्रियं
कुर्वन्ति
रामस्य
त्यक्त्वा
प्राणान्
यथा
वयम् ।
अन्योन्यमुपकुर्वन्ति
स्नेहकारुण्ययन्त्रिताः ॥ १० ॥
तेन
तस्योपकारार्थं
त्यजतात्मानमात्मना ।
प्रियं
कृतं
हि
रामस्य
धर्मज्ञेन
जटायुषा ॥ ११ ॥
राघवार्थे
परिश्रान्ता
वयं
सन्त्यक्तजीविताः ।
कान्ताराणि
प्रपन्नाः
स्म
न
च
पश्याम
मैथिलीम् ॥ १२ ॥
स
सुखी
गृध्रराजस्तु
रावणेन
हतो
रणे ।
मुक्तश्च
सुग्रीवभयाद्गतश्च
परमां
गतिम् ॥ १३ ॥
जटायुषो
विनाशेन
राज्ञो
दशरथस्य
च ।
हरणेन
च
वैदेह्याः
संशयं
हरयो
गताः ॥ १४ ॥
रामलक्ष्मणयोर्वास
अरण्ये
सह
सीतया ।
राघवस्य
च
बाणेन
वालिनश्च
तथा
वधः ॥ १५ ॥
रामकोपादशेषाणां
राक्षसानां
तथा
वधः ।
कैकेय्या
वरदानेन
इदं
हि
विकृतं
कृतम् ॥ १६ ॥
तदसुखमनुकीर्तितं
वचो
भुवि
पतितांश्च
समीक्ष्य
वानरान् ।
भृशचिलतमतिर्महामतिः
कृपणमुदाहृतवान्
स
गृध्रराट् ॥ १७ ॥
तत्तु
श्रुत्वा
तदा
वाक्यमङ्गदस्य
मुखोद्गतम् ।
अब्रवीद्वचनं
गृध्रस्तीक्ष्णतुण्डो
महास्वनः ॥ १८ ॥
कोऽयं
गिरा
घोषयति
प्राणैः
प्रियतमस्य
मे ।
जटायुषो
वधं
भ्रातुः
कम्पयन्निव
मे
मनः ॥ १९ ॥
कथमासीज्जनस्थाने
युद्धं
राक्षसगृध्रयोः ।
नामधेयमिदं
भ्रातुश्चिरस्याद्य
मया
श्रुतम् ॥ २० ॥
इच्छेयं
गिरिदुर्गाच्च
भवद्भिरवतारितुम् ।
यवीयसो
गुणज्ञस्य
श्लाघनीयस्य
विक्रमैः ॥ २१ ॥
अतिदीर्घस्य
कालस्य
तुष्टोऽस्मि
परिकीर्तनात् ।
तदिच्छेयमहं
श्रोतुं
विनाशं
वानरर्षभाः ॥ २२ ॥
भ्रातुर्जटायुषस्तस्य
जनस्थाननिवासिनः ।
तस्यैव
च
मम
भ्रातुः
सखा
दशरथः
कथम् ॥ २३ ॥
यस्य
रामः
प्रियः
पुत्रो
ज्येष्ठो
गुरुजनप्रियः ।
सूर्यांशुदग्धपक्षत्वान्न
शक्नोम्युपसर्पितुम् ॥ २४ ॥
इच्छेयं
पर्वतादस्मादवतर्तुमरिन्दमाः ॥ २५ ॥