शोकाद्
भ्रष्टस्वरमपि
श्रुत्वा
ते
हरियूथपाः ।
श्रद्दधुर्नैव
तद्वाक्यं
कर्मणा
तस्य
शङ्किताः ॥ १ ॥
ते
प्रायमुपविष्टास्तु
दृष्ट्वा
गृध्रं
प्लवङ्गमाः ।
चक्रुर्बुद्धिं
तदा
रौद्रां
सर्वान्
नो
भक्षयिष्यति ॥ २ ॥
सर्वथा
प्रायमासीनान्
यदि
नो
भक्षयिष्यति ।
कृतकृत्या
भविष्यामः
क्षिप्रं
सिद्धिमितो
गताः ॥ ३ ॥
एतां
बुद्धिं
ततश्चक्रुः
सर्वे
ते
वानरर्षभाः ।
अवतार्य
गिरेः
शृङ्गाद्
गृध्रमाहाङ्गदस्तदा ॥ ४ ॥
बभूवर्क्षरजा
नाम
वानरेन्द्रः
प्रतापवान् ।
ममार्यः
पार्थिवः
पक्षिन्
धार्मिकस्तस्य
चात्मजौ ॥ ५ ॥
सुग्रीवश्चैव
वाली
च
पुत्रावोघबलावुभौ ।
लोके
विश्रुतकर्माऽभूद्राजा
वाली
पिता
मम ॥ ६ ॥
राजा
कृत्स्नस्य
जगत
इक्ष्वाकूणां
महारथः ।
रामो
दाशरथिः
श्रीमान्
प्रविष्टो
दण्डकावनम् ॥ ७ ॥
पितुर्निदेशनिरतो
धर्म्यं
पन्थानमाश्रितः ।
तस्य
भार्या
जनस्थानाद्रावणेन
हृता
बलात् ॥ ८ ॥
रामस्य
तु
पितुर्मित्रं
जटायुर्नाम
गृध्रराट् ।
ददर्श
सीतां
वैदेहीं
ह्रियमाणां
विहायसा ॥ ९ ॥
रावणं
विरथं
कृत्वा
स्थापयित्वा
च
मैथिलीम् ।
परिश्रान्तश्च
वृद्धश्च
रावणेन
हतो
रणे ॥ १० ॥
एवं
गृध्रो
हतस्तेन
रावणेन
बलीयसा ।
संस्कृतश्चापि
रामेण
गतश्च
गतिमुत्तमाम् ॥ ११ ॥
ततो
मम
पितृव्येण
सुग्रीवेण
महात्मना ।
चकार
राघवः
सख्यं
सोऽवधीत्पितरं
मम ॥ १२ ॥
मम
पित्रा
विरुद्धो
हि
सुग्रीवः
सचिवैः
सह ।
निहत्य
वालिनं
रामस्ततस्तमभिषेचयत् ॥ १३ ॥
स
राज्ये
स्थापितस्तेन
सुग्रीवो
वानराधिपः ।
राजा
वानरमुख्यानां
येन
प्रस्थापिता
वयम् ॥ १४ ॥
एवं
रामप्रयुक्तस्तु
मार्गमाणास्ततस्ततः ।
वैदेहीं
नाधिगच्छामो
रात्रौ
सूर्यप्रभामिव ॥ १५ ॥
ते
वयं
दण्डकारण्यं
विचित्य
सुसमाहिताः ।
मयस्य
मायाविहितं
तद्बिलं
च
विचिन्वताम् ॥ १६ ॥
व्यीततस्तत्र
नो
मासो
यो
राज्ञा
समयः
कृतः ।
ते
वयं
कपिराजस्य
सर्वे
वचनकारिणः ॥ १७ ॥
कृतां
संस्थामतिक्रान्ता
भयात्प्रायमुपास्महे ।
क्रुद्धे
तस्मिंस्तु
काकुत्स्थे
सुग्रीवे
च
सलक्ष्मणे ॥ १८ ॥
गतानामपि
सर्वेषां
तत्र
नो
नास्ति
जीवितम् ॥ १९ ॥