इत्युक्तः
करुणं
वाक्यं
वानरैस्त्यक्तजीवितैः ।
सबाष्पो
वानरान्
गृध्रः
प्रत्युवाच
महास्वनः ॥ १ ॥
यवीयान्
मम
स
भ्राता
जटायुर्नाम
वानराः ।
यमाख्यात
हतं
युद्धे
रावणेन
बलीयसा ॥ २ ॥
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि
मर्षये ।
नहि
मे
शक्तिरस्त्यद्य
भ्रातुर्वैरविमोक्षणे ॥ ३ ॥
पुरा
वृत्रवधे
वृत्ते
परस्परजयैषिणौ ।
आदित्यमुपयातौ
स्वो
ज्वलन्तं
रश्मिमालिनम् ॥ ४ ॥
आवृत्त्याकाशमार्गे
तु
जवेन
स्म
गतौ
भृशम् ।
मध्यं
प्राप्ते
दिनकरे
जटायुरवसीदति ॥ ५ ॥
तमहं
भ्रातरं
दृष्ट्वा
सूर्यरश्मिभिरार्दितम् ।
पक्षाभ्यां
छादयामास
स्नेहात्परमविह्विलः ॥ ६ ॥
निर्दग्धपक्षः
पतितो
विन्ध्येऽहं
वानरर्षभाः ।
अहमस्मिन्वसन्भ्रातुः
प्रवृत्तिं
नोपलक्षये ॥ ७ ॥
जटायुषस्त्वेवमुक्तो
भ्रात्रा
सम्पातिना
तदा ।
युवराजो
महाप्राज्ञः
प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥
जटायुषो
यदि
भ्राता
श्रुतं
ते
गदितं
मया ।
आख्याहि
यदि
जानासि
निलयं
तस्य
रक्षसः ॥ ९ ॥
अदीर्घदर्शनं
तं
वै
रावणं
राक्षसाधिपम् ।
अन्तिके
यदि
वा
दूरे
यदि
जानासि
शंस
नः ॥ १० ॥
ततोऽब्रवीन्महातेजा
ज्येष्ठो
भ्राता
जटायुषः ।
आत्मानुरूपं
वचनं
वानरान्
सम्प्रहर्षयन् ॥ ११ ॥
निर्दग्धपक्षो
गृध्रोऽहं
हीनवीर्यः
प्लवङ्गमाः ।
वाङ्मात्रेण
तु
रामस्य
करिष्ये
साह्यमुत्तमम् ॥ १२ ॥
जानामि
वारुणान्
लोकान्
विष्णोस्त्रैविक्रमानपि ।
महासुरविमर्दान्वाप्यमृतस्य
च
मन्थनम् ॥ १३ ॥
रामस्य
यदिदं
कार्यं
कर्तव्यं
प्रथमं
मया ।
जरया
च
हृतं
तेजः
प्राणाश्च
शिथिला
मम ॥ १४ ॥
तरुणी
रूपसम्पन्ना
सर्वाभरणभूषिता ।
ह्रियमाणा
मया
दृष्टा
रावणेन
दुरात्मना ॥ १५ ॥
क्रोशन्ती
राम
रामेति
लक्ष्मणेति
च
भामिनी ।
भूषणान्यपविध्यन्ती
ग्रात्राणि
च
विधून्वती ॥ १६ ॥
सूर्यप्रभेव
शैलाग्रे
तस्याः
कौशेयमुत्तमम् ।
असिते
राक्षसे
भाति
यथा
वा
तडिदम्बुदे ॥ १७ ॥
तां
तु
सीतामहं
मन्ये
रामस्य
परिकीर्तनात् ।
श्रूयतां
मे
कथयतो
निलयं
तस्य
रक्षसः ॥ १८ ॥
पुत्रो
विश्रवसः
साक्षाद्
भ्राता
वैश्रवणस्य
च ।
अध्यास्ते
नगरीं
लङ्कां
रावणो
नाम
राक्षसः ॥ १९ ॥
इतो
द्वीपः
समुद्रस्य
सम्पूर्णे
शतयोजने ।
तस्मिन्
लङ्का
पुरी
रम्या
निर्मिता
विश्वकर्मणा ॥ २० ॥
जाम्बूनदमयैर्द्वारैश्चित्रैः
काञ्चनवेदिकैः ।
प्राकारेणार्कवर्णेन
महता
सुसमावृता ॥ २१ ॥
तस्यां
वसति
वैदेही
दीना
कौशेयवासिनी ।
रावणान्तःपुरे
रुद्धा
राक्षसीभिः
सुरक्षिता ॥ २२ ॥
जनकस्यात्मजां
राज्ञस्तत्र
द्रक्ष्यथ
मैथिलीम् ।
लङ्कायामथ
गुप्तायां
सागरेण
समन्ततः ॥ २३ ॥
सम्प्राप्य
सागरस्यान्तं
सम्पूर्णं
शतयोजनम् ।
आसाद्य
दक्षिणं
तीरं
ततो
द्रक्ष्यथ
रावणम् ॥ २४ ॥
तत्रैव
त्वरिताः
क्षिप्रं
विक्रमध्वं
प्लवङ्गमाः ।
ज्ञानेन
खलु
पश्यामि
दृष्ट्वा
प्रत्यागमिष्यथ ॥ २५ ॥
आद्यः
पन्थाः
कुलिङ्गानां
ये
चान्ये
धान्यजीविनः ।
द्वीतीयो
बलिभोजानां
ये
च
वृक्षफलाशिनः ॥ २६ ॥
भासास्तृतीयं
गच्छन्ति
क्रौञ्चाश्च
कुररैः
सह ।
श्येनाश्चतुर्थं
गच्छन्ति
गृध्रा
गच्छन्ति
पञ्चमम् ॥ २७ ॥
षष्ठस्तु
पन्था
हंसानां
वैनतेयगतिः
परा ।
वैनतेयाच्च
नो
जन्म
सर्वेषां
वानरर्षभाः ॥ २८ ॥
इहस्थोऽहं
प्रपश्यामि
रावणं
जानकीं
तथा ।
अस्माकमपि
सौवर्णं
दिव्यं
चक्षुर्बलं
तथा ॥ २९ ॥
तस्मादाहारवीर्येण
निसर्गेण
च
वानराः ।
आयोजनशतत्साग्राद्वयं
पश्याम
नित्यशः ॥ ३० ॥
अस्माकं
विहिता
वृत्तिर्निसर्गेण
च
दूरतः ।
विहिता
पादमूले
तु
वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥
गर्हितं
तु
कृतं
कर्म
येन
स्म
पिशिताशिना ।
प्रतीकार्यं
च
मे
तस्य
वैरं
भ्रातुः
कृतं
भवेत् ॥ ३२ ॥
उपायो
दृश्यतां
कश्चिल्लङ्घने
लवाणाम्भसः ।
अभिगम्य
तु
वैदेहीं
समृद्धार्था
गमिष्यथ ॥ ३३ ॥
समुद्रं
नेतुमिच्छामि
भवद्भिर्वरुणालयम् ।
प्रदास्याम्युदकं
भ्रातुः
स्वर्गतस्य
महात्मनः ॥ ३४ ॥
ततो
नीत्वा
तु
तं
देशं
तीरं
नदनदीपतेः ।
निर्दग्धपक्षं
सम्पातिं
वानराः
सुमहौजसः ॥ ३५ ॥
पुनः
प्रत्यानयित्वा
च
तं
देशं
पतगेश्वरम् ।
बभूवुर्वानरा
हृष्टाः
प्रवृत्तिमुपलभ्य
ते ॥ ३६ ॥