ततः
कृतोदकं
स्नातं
तं
गृध्रं
हरियूथपाः ।
उपविष्टा
गिरौ
दुर्गे
परिवार्य
समन्ततः ॥ १ ॥
तमङ्गदमुपासीनं
तैः
सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो
हर्षात्सम्पातिः
पुनरब्रवीत् ॥ २ ॥
कृत्वा
निःशब्दमेकाग्राः
शृण्वन्तु
हरयो
मम ।
तत्त्वं
सङ्कीर्तयिष्यामि
यथा
जानामि
मैथिलीम् ॥ ३ ॥
अस्य
विन्ध्यस्य
शिखरे
पतितोऽस्मि
पुरा
वने ।
सूर्यातप
परीताङ्गो
निर्दग्धः
सूर्यरश्मिभिः ॥ ४ ॥
लब्धसञ्ज्ञस्तु
षड्रात्राद्विवशो
विह्वलन्निव ।
वीक्षमाणो
दिशः
सर्वा
नाभिजानामि
किञ्चन ॥ ५ ॥
ततस्तु
सागरान्
शैलान्
नदीः
सर्वाः
सरांसि
च ।
वनान्युदधिवेलां
च
समीक्ष्य
मतिरागमत् ॥ ६ ॥
हृष्टपक्षिगणाकीर्णः
कन्दरान्तरकूटवान् ।
दक्षिणस्योदधेस्तीरे
विन्ध्योऽयमिति
निश्चयः ॥ ७ ॥
आसीच्चात्राश्रमं
पुण्यं
सुरैरपि
सुपूजितम् ।
ऋषिर्निशाकरो
नाम
यस्मिन्नुग्रतपा
भवत् ॥ ८ ॥
अष्टौ
वर्षसहस्राणि
तेनास्मिन्नृषिणा
विना ।
वसतो
मम
धर्मज्ञाः
स्वर्गते
तु
निशाकरे ॥ ९ ॥
अवतीर्य
च
विन्ध्याग्रात्कृच्छ्रेण
विषमाच्छनैः ।
तीक्ष्णदर्भां
वसुमतीं
दुःखेन
पुनरागतः ॥ १० ॥
तमृषिं
द्रष्टुकामोऽस्मि
दुःखेनाभ्यागतो
भृशम् ।
जटायुषा
मया
चैव
बहुशोऽधिगतो
हि
सः ॥ ११ ॥
तस्याश्रमपदाभ्याशे
ववुर्वाताः
सुगन्धिनः ।
वृक्षो
वाऽपुष्पितः
कश्चिदफलो
वा
न
विद्यते ॥ १२ ॥
उपेत्य
चाश्रमं
पुण्यं
वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः
प्रतीक्षोऽहं
भगवन्तं
निशाकरम् ॥ १३ ॥
अथापश्यमदूरस्थमृषिं
ज्वलिततेजसम् ।
कृताभिषेकं
दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ १४ ॥
तमृक्षाः
सृमरा
व्याघ्राः
सिंहा
नागाः
सरीसृपाः ।
परिवार्योपगच्छन्ति
धातारं
प्राणिनो
यथा ॥ १५ ॥
ततः
प्राप्तमृषिं
ज्ञात्वा
तानि
सत्त्वानि
वै
ययुः ।
प्रविष्टे
राजनि
यथा
सर्वं
सामात्यकं
बलम् ॥ १६ ॥
ऋषिस्तु
दृष्ट्वा
मां
प्रीतः
प्रविष्टश्चाश्रमं
पुनः ।
मुहूर्तमात्रान्निष्क्रम्य
ततः
कार्यमपृच्छत ॥ १७ ॥
सौम्य
वैकल्यतां
दृष्ट्वा
रोम्णां
ते
नावगम्यते ।
अग्निदग्धाविमौ
पक्षौ
त्वक्
चैव
व्रणिता
तव ॥ १८ ॥
गृध्रौ
द्वौ
दृष्टपूर्वौ
मे
मातरिश्वसमौ
जवे ।
गृध्राणां
चैव
राजानौ
भ्रातरौ
कामरूपिणौ ॥ १९ ॥
ज्येष्ठो
हि
त्वं
तु
सम्पाते
जटायुरनुजस्तव ।
मानुषं
रूपमास्थाय
गृह्णीतां
चरणौ
मम ॥ २० ॥
किं
ते
व्याधिसमुत्थानं
पक्षयोः
पतनं
कथम् ।
दण्डो
वाऽयं
कृतः
केन
सर्वमाख्याहि
पृच्छतः ॥ २१ ॥