ततस्तद्दारुणं
कर्म
दुष्करं
साहसात्कृतम् ।
आचचक्षे
मुनेः
सर्वं
सूर्यानुगमनं
तदा ॥ १ ॥
भगवन्
व्रणयुक्तत्वाल्लज्जया
व्यकुलोन्द्रियः ।
परिश्रान्तो
न
शक्नोमि
वचनं
प्रतिभाषितुम् ॥ २ ॥
अहं
चैव
जटायुश्च
सङ्घर्षाद्दर्पमोहितौ ।
आकाशं
पतितौ
वीरौ
जिज्ञासन्तौ
पराक्रमम् ॥ ३ ॥
कैलासशिखरे
बध्वा
मुनीनामग्रतः
पणम् ।
रविः
स्यादनुयातव्यो
यावदस्तं
महागिरिम् ॥ ४ ॥
अथावां
युगपत्प्राप्तावपश्याव
महीतले ।
रथचक्रप्रमाणानि
नगराणि
पृथक्
पृथक् ॥ ५ ॥
क्वचिद्वादित्रघोषांश्च
ब्रह्मघोषांश्च
शुश्रुवः ।
गायन्तीश्चाङ्गना
बह्वीः
पश्यावो
रक्तवाससः ॥ ६ ॥
तूर्णमुत्पत्य
चाकाशमादित्यपथमाश्रितौ ।
आवामालोकयावस्तद्वनं
शाद्वलसन्निभम् ॥ ७ ॥
उपलैरिव
सञ्छन्ना
दृश्यते
भूः
शिलोञ्चयैः ।
आपगाभिश्च
संवीता
सूत्रैरिव
वसुन्धरा ॥ ८ ॥
हिमवांश्चैव
विन्ध्याश्च
मेरुश्च
सुमहान्नगः ।
भूतले
सम्प्रकाशन्ते
नागा
इव
जलाशये ॥ ९ ॥
तीव्रः
स्वेदश्च
खेदश्च
भयं
चासीत्तदाऽऽवयोः ।
समाविशति
मोहश्च
तमो
मूर्च्छा
च
दारुणा ॥ १० ॥
न
दिग्विज्ञायते
याम्या
नाग्नेयी
न
च
वारुणी ।
युगान्ते
नियतो
लोको
हतो
दग्ध
इवाग्निना ॥ ११ ॥
यत्नेन
महता
ह्यस्मिन्
पुनः
सन्धाय
चक्षुषि ।
यत्नेन
महता
भूयो
रविः
समवलोकितः ॥ १२ ॥
तुल्यः
पृथ्वीप्रमाणेन
भास्करः
प्रतिभाति
नौ ।
जटायुर्मामनापृच्छ्य
निपपात
महीं
ततः ॥ १३ ॥
तं
दृष्ट्वा
तूर्णमाकाशादात्मानं
मुक्तवानहम् ।
पक्षाभ्यां
च
मया
गुप्तो
जटायुर्न
प्रदह्यते ॥ १४ ॥
प्रमादात्तत्र
निर्दग्धः
पतन्
वायुपथादहम् ।
आशङ्के
तं
निपतितं
जनस्थाने
जटायुषम् ॥ १५ ॥
अहं
तु
पतितो
विन्ध्ये
दग्धपक्षो
जडीकृतः ।
राज्येन
हीनो
भ्रात्रा
च
पक्षाभ्यां
विक्रमेण
च ॥ १६ ॥
सर्वथा
मर्तुमेवेच्छन्
पतिष्ये
शिखराद्गिरेः ॥ १७ ॥