एवमुक्त्वा
मुनिश्रेष्ठमरुदं
दुःखितो
भृशम् ।
अथ
ध्यात्वा
मुहूर्तं
तु
भगवानिदमब्रवीत् ॥ १ ॥
पक्षौ
च
ते
प्रपक्षौ
च
पुनरन्यौ
भविष्यतः ।
प्राणाश्च
चक्षुषी
चैव
विक्रमश्च
बलं
च
ते ॥ २ ॥
पुराणे
सुमहत्कार्यं
भविष्यति
मया
श्रुतम् ।
दृष्टं
मे
तपसा
चैव
श्रुत्वा
च
विदितं
मम ॥ ३ ॥
राजा
दशरथो
नाम
कश्चिदिक्ष्वाकुनन्दनः ।
तस्य
पुत्रो
महातेजा
रामो
नाम
भविष्यति ॥ ४ ॥
अरण्यं
च
सह
भ्रात्रा
लक्ष्मणेन
गमिष्यति ।
अस्मिन्नर्थे
नियुक्तः
सन्
पित्रा
सत्यपराक्रमः ॥ ५ ॥
नैर्र्ऋतो
रावणो
नाम
तस्य
भार्यां
हरिष्यति ।
राक्षसेन्द्रो
जनस्थानादवध्यः
सुरदानवैः ॥ ६ ॥
सा
च
कामैः
प्रलोभ्यन्ती
भक्ष्यैर्भोज्यैश्च
मैथिली ।
न
भोक्ष्यति
महाभागा
दुःखे
मग्ना
यशस्विनी ॥ ७ ॥
परमान्नं
तु
वैदेह्या
ज्ञात्वा
दास्यति
वासवः ।
यदन्नममृतप्रख्यं
सुराणामपि
दुर्लभम् ॥ ८ ॥
तदन्नं
मैथिली
प्राप्य
विज्ञायेन्द्रादिदं
त्विति ।
अग्रमुद्धृत्य
रामाय
भूतले
निर्वपिष्यति ॥ ९ ॥
यदि
जीवति
मे
भर्ता
लक्ष्मणेन
सह
प्रभुः ।
देवत्वं
गच्छतोर्वापि
तयोरन्नमिदं
त्विति ॥ १० ॥
एष्यन्त्यन्वेषकास्तस्या
रामदूताः
प्लवङ्गमाः ।
आख्येया
राममहिषी
त्वया
तेभ्यो
विहङ्गमाः ॥ ११ ॥
सर्वथा
हि
न
गन्तव्यमीदृशः
क्क
गमिष्यसि ।
देशकालौ
प्रतीक्षस्व
पक्षौ
त्वं
प्रतिपत्स्यसे ॥ १२ ॥
नोत्सहेयमहं
कर्तुमद्यैव
त्वां
सपक्षकम् ।
इहस्थस्त्वं
तु
लोकानां
हितं
कार्यं
करिष्यसि ॥ १३ ॥
त्वयापि
खलु
तत्कार्यं
तयोश्च
नृपपुत्रयोः ।
ब्राह्मणानां
सुराणां
च
मुनीनां
वासवस्य
च ॥ १४ ॥
नेच्छे
चिरं
धारयितुं
प्राणांस्त्यक्ष्ये
कलेवरम् ।
महर्षिस्त्वब्रवीदेवं
दृष्टतत्त्वार्थदर्शनः ॥ १५ ॥