एतैरन्यैश्च
बहुभिर्वाक्यैर्वाक्यविदां
वरः ।
मां
प्रशस्याभ्यनुज्ञाप्य
प्रविष्टाः
स
स्वमाश्रमम् ॥ १ ॥
कन्दरात्तु
विसर्पित्वा
पर्वतस्य
शनैःशनैः ।
अहं
विन्ध्यं
समारुह्य
भवतः
प्रतिपालये ॥ २ ॥
अद्य
त्वेतस्य
कालस्य
साग्रं
वर्षशतं
गतम् ।
देशकालप्रतीक्षोऽस्मि
हृदि
कृत्वा
मुनेर्वचः ॥ ३ ॥
महाप्रस्थानमासाद्य
स्वर्गते
तु
निशाकरे ।
मां
निर्दहति
सन्तापो
वितर्कैर्बहुभिर्वृतम् ॥ ४ ॥
बुद्धिर्या
तेन
मे
दत्ता
प्राणानां
रक्षणाय
तु ।
सा
मेऽपनयते
दुःखं
दीप्तेवाग्निशिखा
तमः ॥ ५ ॥
बुध्यता
च
मया
वीर्यं
रावणस्य
दुरात्मनः ।
पुत्रः
सन्तर्जितो
वाग्भिर्न
त्राता
मैथिली
कथम् ॥ ६ ॥
तस्या
विलपितं
श्रुत्वा
तौ
च
सीताविनाकृतौ ।
न
मे
दशरथस्नेहात्
पुत्रेणोत्पादितं
प्रियम् ॥ ७ ॥
तस्य
त्वेवं
ब्रुवाणस्य
सम्पातेर्वानरैः
सह ।
उत्पेततुस्तदा
पक्षौ
समक्षं
वनचारिणाम् ॥ ८ ॥
स
दृष्ट्वा
स्वां
तनुं
पक्षैरुद्गतैररुणच्छदैः ।
प्रहर्षमतुलं
लेभे
वानरांश्चेदमब्रवीत् ॥ ९ ॥
ऋषेर्निशाकरस्यैव
प्रभावादमितात्मनः ।
आदित्यरश्मिनिर्दग्धौ
पक्षौ
मे
पुनरुत्थितौ ॥ १० ॥
यौवने
वर्तमानस्य
ममासीद्यः
पराक्रमः ।
तमेवाद्यानुगच्छामि
बलं
पौरुषमेव
च ॥ ११ ॥
सर्वथा
क्रियतां
यत्नः
सीतामधिगमिष्यथ ।
पक्षलाभो
ममायं
वः
सिद्धिप्रत्ययकारकः ॥ १२ ॥
इत्युक्त्वा
स
हरीन्
सर्वान्
सम्पातिः
पतगोत्तमः ।
उत्पपात
गिरेः
शृङ्गाज्जिज्ञासुः
खगमो
गतिम् ॥ १३ ॥
तस्य
तद्वचनं
श्रुत्वा
प्रीतिसंहृष्टमानसाः ।
बभूवुर्हरिशार्दूला
विक्रमाभ्युदयोन्मुखाः ॥ १४ ॥
अथ
पवनसमानविक्रमाः
प्लवगवराः
प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखा
दिशं
ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५ ॥