आख्याता
गृध्रराजेन
समुत्पत्य
प्लवङ्गमाः ।
सङ्गम्य
प्रीतिसंयुक्ताः
विनेदुः
सिंहविक्रमाः ॥ १ ॥
सम्पातेर्वचनं
श्रुत्वा
हरयो
रावणक्षयम् ।
हृष्टाः
सागरमाजग्मुः
सीतादर्शनकाङ्क्षिणः ॥ २ ॥
अभिक्रम्य
तु
तं
देशं
ददृशुर्भीमाविक्रमाः ।
कृत्स्नं
लोकस्य
महतः
प्रतिबिम्बमिव
स्थितम् ॥ ३ ॥
दक्षिणस्य
समुद्रस्य
समासाद्योत्तरां
दिशम् ।
सन्निवेशं
ततश्चक्रुर्हरिवीरा
महाबलाः ॥ ४ ॥
सत्त्वैर्महद्भिर्विकृतैः
क्रीडद्भिर्विविधैर्जले ।
व्यत्यस्तैः
सुमहाकायैरूर्मिभिश्च
समाकुलम् ॥ ५ ॥
प्रसुप्तमिव
चान्यत्र
क्रीडन्तमिव
चान्यतः ।
क्वचित्पर्वतमात्रैश्च
जलराशिभिरावृतम् ॥ ६ ॥
सङ्कुलं
दानवेन्द्रैश्च
पातालतलवासिभिः ।
रोमहर्षकरं
दृष्ट्वा
विषेदुः
कपिकुञ्जराः ॥ ७ ॥
आकाशमिव
दुष्पारं
सागरं
प्रेक्ष्य
वानराः ।
विषेदुः
सहसा
सर्वे
कथं
कार्यमिति
ब्रुवन् ॥ ८ ॥
विषण्णां
वाहिनीं
दृष्ट्वा
सागरस्य
निरीक्षणात् ।
आश्वासयामास
हरीन्
भयार्तान्
हरिसत्तमः ॥ ९ ॥
तान्
विषादेन
महता
विषण्णान्
वानरर्षभान् ।
उवाच
मतिमान्
काले
वालिसूनुर्महाबलः ॥ १० ॥
न
विषादे
मनः
कार्यं
विषादो
दोषवत्तमः ।
विषादो
हन्ति
पुरुषं
बालं
क्रुद्ध
इवरोगः ॥ ११ ॥
विषादो
यं
प्रसहते
विक्रमे
पर्युपस्थिते ।
तेजसा
तस्य
हीनस्य
पुरुषार्थे
न
सिध्यति ॥ १२ ॥
तस्यां
रात्र्यां
व्यतीतायामङ्गदो
वानरैः
सह ।
हरिवृद्धैः
समागम्य
पुनर्मन्त्रममन्त्रयत् ॥ १३ ॥
सा
वानराणां
ध्वजिनी
परिवार्याङ्गदं
बभौ ।
वासवं
परिवार्येव
मरुतां
वाहिनी
स्थिता ॥ १४ ॥
कोऽन्यस्तां
वानरीं
सेनां
शक्तः
स्तम्भयितुं
भवेत् ।
अन्यत्र
वालितनयादन्यत्र
च
हनूमतः ॥ १५ ॥
ततस्तान्
हरिवृद्धांश्च
तञ्च
सैन्यमरिन्दमः ।
अनुमान्याङ्गदः
श्रीमान्
वाक्यमर्थवदवब्रवीत् ॥ १६ ॥
क
इदानीं
महातेजा
लङ्घयिष्यति
सागरम् ।
कः
करिष्यति
सुग्रीवं
स्तयसन्धमरिन्दमम् ॥ १७ ॥
को
वीरो
योजनशतं
लङ्घयेच्च
प्लवङ्गमाः ।
इमांश्च
यूथपान्
सर्वान्
मोक्षयेत्को
महाभयात् ॥ १८ ॥
कस्य
प्रभावाद्दारांश्च
पुत्रांश्चैव
गृहाणि
च ।
इतो
निवृत्ताः
पश्येम
सिद्धार्थाः
सुखिनो
वयम् ॥ १९ ॥
कस्य
प्रसादाद्रामं
च
लक्ष्मणं
च
महाबलम् ।
अभिगच्छेम
संहृष्टाः
सुग्रीवं
च
महाबलम् ॥ २० ॥
यदि
कश्चित्समर्थो
वः
सागरप्लवने
हरिः ।
स
ददात्विह
नः
शीघ्रं
पुण्यामभयदक्षिणाम् ॥ २१ ॥
अङ्गदस्य
वचः
श्रुत्वा
न
कश्चित्
किञ्चिदब्रवीत् ।
स्तिमितेवाभवत्सर्वा
तत्र
सा
हरिवाहिनी ॥ २२ ॥
पुनरेवाङ्गदः
प्राह
तान्
हरीन्
हरिसत्तमः ।
सर्वे
बलवतां
श्रेष्ठा
भवन्तो
दृढविक्रमाः ॥ २३ ॥
नहि
वो
गमने
सङ्गः
कदाचित्कस्यत्क्वचित् ।
ब्रुवध्वं
यस्य
या
शक्तिः
प्लवने
प्लवगर्षभाः ॥ २४ ॥