अनेकशतसाहस्रीं
विषण्णां
हरिवाहिनीम् ।
जाम्बवान्
समुदीक्ष्यैवं
हनुमन्तमथाब्रवीत् ॥ १ ॥
वीर
वानरलोकस्य
सर्वशास्त्रविशारद ।
तूष्णीमेकान्तमाश्रित्य
हनुमान्
किं
न
जल्पसि ॥ २ ॥
हनुमन्
हरिराजस्य
सुग्रीवस्य
समो
ह्यसि ।
रामलक्ष्मणयोश्चापि
तेजसा
च
बलेन
च ॥ ३ ॥
अरिष्टनेमिनः
पुत्रो
वैनतेयो
महाबलः ।
गरुत्मानिति
विख्यात
उत्तमः
सर्वपक्षिणाम् ॥ ४ ॥
बहुशो
हि
मया
दृष्टः
सागरे
स
महाबलः ।
भुजगानुद्धरन्
पक्षी
महावेगो
महायशाः ॥ ५ ॥
पक्षयोर्यद्बलं
तस्य
तावद्भुजबलं
तव ।
विक्रमश्चापि
वेगश्च
न
ते
तेनावहीयते ॥ ६ ॥
बलं
बुद्धिश्च
तेजश्च
सत्त्वं
च
हरिपुङ्गव ।
विशिष्टं
सर्वभूतेषु
किमात्मानं
न
बुध्यसे ॥ ७ ॥
अप्सराप्सरसां
श्रेष्ठा
विख्याता
पुञ्जिकस्थला ।
अञ्जनेति
परिख्याता
पत्नी
केसरिणो
हरेः ॥ ८ ॥
विख्याता
त्रिषु
लोकेषु
रूपेणाप्रतिमा
भुवि ।
अभिशापादभूत्तात
वानरी
कामरूपिणी ॥ ९ ॥
दुहिता
वानरेन्द्रस्य
कुञ्जरस्य
महात्मनः ।
कपित्वे
चारुसर्वाङ्गी
कदाचित्
कामरूपिणी ॥ १० ॥
विचित्रमाल्याभरणा
महार्हक्षौमवासिनी ।
अचरत्
पर्वतस्याग्रे
प्रावृडम्बुदसन्निभे ॥ ११ ॥
तस्या
वस्त्रं
विशालाक्ष्याः
पीतं
रक्तदशं
शुभम् ।
स्थितायाः
पर्वतस्याग्रे
मारुतोऽपहरच्छनैः ॥ १२ ॥
स
ददर्श
ततस्तस्या
वृत्तावूरू
सुसंहतौ ।
स्तनौ
च
पीनौ
सहितौ
सुजातं
चारु
चाननम् ॥ १३ ॥
तां
विशालायतश्रोणीं
तनुमध्यां
यशस्विनीम् ।
दृष्ट्वैव
शुभसर्वाङ्गीं
पवनः
काममोहितः ॥ १४ ॥
स
तां
भुजाभ्यां
दीर्घाभ्यां
पर्यष्वजत
मारुतः ।
मन्मथाविष्टसर्वाङ्गो
गतात्मा
तामनिन्दिताम् ॥ १५ ॥
एकपत्नीव्रतमिदं
को
नाशयितुमिच्छति ।
अञ्जनाया
वचः
श्रुत्वा
मारुतः
प्रत्यभाषत ॥ १६ ॥
न
त्वां
हिंसामि
सुश्रोणि
माभूत्ते
सुभगे
भयम् ।
मनसाऽस्मि
गतो
यत्त्वां
परिष्वज्य
यशस्विनीम् ॥ १७ ॥
महासत्त्वो
महातेजा
महाबलपराक्रमः ।
लङ्घने
प्लवने
चैव
भविष्यति
मया
समः ॥ १८ ॥
एवमुक्ता
ततस्तुष्टा
जननी
ते
महाकपे ।
गुहायां
त्वं
महाबाहो
प्रजज्ञे
प्लवगर्षभम् ॥ १९ ॥
अभ्युत्थितं
ततः
सूर्यं
बालो
दृष्ट्वा
महावने ।
फलं
चेति
जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो
दिवम् ॥ २० ॥
शतनि
त्रीणि
गत्वाऽथ
योजनानां
महाकपे ।
तेजसा
तस्य
निर्धूतो
न
विषादं
गतस्ततः ॥ २१ ॥
तावदापततस्तूर्णमन्तरिक्षं
महाकपे ।
क्षिप्तमिन्द्रेण
ते
वज्रं
क्रोधाविष्टेन
धीमता ॥ २२ ॥
तदा
शैलाग्रशिखरे
वामो
हनुरभज्यत ।
ततो
हि
नामधेयं
ते
हनुमानिति
कीर्त्यते ॥ २३ ॥
ततस्त्वां
निहतं
दृष्ट्वा
वायुर्गन्धवहः
स्वयम् ।
त्रैलोक्ये
भृशसङ्क्रुद्धो
न
ववौ
वै
प्रभञ्जनः ॥ २४ ॥
सम्भ्रान्ताश्च
सुराः
सर्वे
त्रैलोक्ये
क्षोभिते
सति ।
प्रसादयन्ति
सङ्क्रुद्धं
मारुतं
भुवनेश्वराः ॥ २५ ॥
प्रसादिते
च
पवने
ब्रह्मा
तुभ्यं
वरं
ददौ ।
अशस्त्रवध्यतां
तात
समरे
सत्यविक्रम ॥ २६ ॥
वज्रस्य
च
निपातेन
विरुजं
त्वां
समीक्ष्य
च ।
सहस्रनेत्रः
प्रीतात्मा
ददौ
ते
वरमुत्तमम् ॥ २७ ॥
स्वच्छन्दतश्च
मरणं
ते
भूयादिति
वै
प्रभो ।
स
त्वं
केसरिणः
पुत्रः
क्षेत्रजो
भीमविक्रमः ॥ २८ ॥
भवान्
जीवातवेऽस्माकमञ्जनागर्भसम्भवः ।
वयमद्य
गतप्राणा
भवान्नस्त्रातु
साम्प्रतम् ॥ २९ ॥
दाक्ष्यविक्रमसम्पन्नः
पक्षिराज
इवापरः ।
त्रिविक्रमे
मया
तात
सशैलवनकानना ॥ ३० ॥
त्रिःसप्तकृत्वः
पृथिवी
परिक्रान्ता
प्रदक्षिणम् ।
तथा
चौषधयोऽस्माभिः
सञ्चिता
देवशासनात् ॥ ३१ ॥
निष्पन्नममृतं
याभिस्तदासीन्नो
महद्बलम् ।
स
इदानीमहं
वृद्धः
परिहीनपराक्रमः ॥ ३२ ॥
साम्प्रतं
कालमस्माकं
भवान्
सर्वगुणान्वितः ।
तद्विजृम्भस्व
विक्रान्तः
प्लवतामुत्तमो
ह्यसि ॥ ३३ ॥
त्वद्वीर्यं
द्रष्टुकामेयं
सर्ववानरवाहीनी ।
उत्तिष्ठ
हरिशार्दूल
लङ्घयस्व
महार्णवम् ॥ ३४ ॥
परा
हि
सर्वभूतानां
हनुमन्
या
गतिस्तव ।
विषण्णा
हरयः
सर्वे
हनूमन्
किमुपेक्षसे ॥ ३५ ॥
विक्रमस्व
महावेगो
विष्णुस्त्रीन्
विक्रमानिव ।
ततस्तु
वै
जाम्बवता
प्रचोदितः
प्रतीतवेगः
पवनात्मजः
कपिः ॥ ३६ ॥
प्रहर्षयंस्तां
हरिवीरवाहिनीं
चकार
रूपं
महदात्मनस्तदा ॥ ३७ ॥