स
सागरमनाधृष्यमतिक्रम्य
महाबलः ।
त्रिकूटशिखरे
लङ्कां
स्थितां
स्वस्थो
ददर्श
ह ॥ १ ॥
ततः
पादपमुक्तेन
पुष्पवर्षेण
वीर्यवान् ।
अभिवृष्टः
स्थितस्तत्र
बभौ
पुष्पमयो
यथा ॥ २ ॥
योजनानां
शतं
श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।
अनिश्वसन्
कपिस्तत्र
न
ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं
योजनानां
क्रमेयं
सुबहून्यपि ।
किं
पुनः
सागरस्यान्तं
सङ्ख्यातं
शतयोजनम् ॥ ४ ॥
स
तु
वीर्यवतां
श्रेष्ठः
प्लवतामपि
चोत्तमः ।
जगाम
वेगवान्
लङ्कां
लङ्घयित्वा
महोदधिम् ॥ ५ ॥
शाद्वलानि
च
नीलानि
गन्धवन्ति
वनानि
च ।
गण़्डवन्ति
च
मध्येन
जगाम
नगवन्ति
च ॥ ६ ॥
शैलांश्च
तरुसञ्छन्नान्
वनराजीश्च
पुष्पिताः ।
अभिचक्राम
तेजस्वी
हनुमान्
प्लवगर्षभः ॥ ७ ॥
स
तस्मिन्नचले
तिष्ठन्
वनान्युपवनानि
च ।
स
नगाग्रे
च
तां
लङ्कां
ददर्श
पवनात्मजः ॥ ८ ॥
सरलान्
कर्णिकारांश्च
खर्जूरांश्च
सुपुष्पितान् ।
प्रियालान्मुचुलिन्दांश्च
कुटजान्
केतकानपि ॥ ९ ॥
प्रियङ्गून्
गन्धपूर्णांश्च
नीपान्
सप्तच्छदांस्तथा ।
असनान्
कोविदारांश्च
करवीरांश्च
पुष्पितान् ॥ १० ॥
पुष्पभारनिबद्धांश्च
तथा
मुकुलितानपि ।
पादपान्
विहगाकीर्णान्
पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा
वापीः
पद्मोत्पलायुताः ।
आक्रीडान्
विविधान्
रम्यान्
विविधांश्च
जलाशयान् ॥ १२ ॥
सन्ततान्
विविधैर्वृक्षैः
सर्वर्तुफलपुष्पितैः ।
उद्यानानि
च
रम्याणि
ददर्श
कपिकुञ्जरः ॥ १३ ॥
समासाद्य
च
लक्ष्मीवान्
लङ्कां
रावणपालिताम् ।
परिघाभिः
सपद्माभिः
सोत्पलाभिरलङ्कृताम् ॥ १४ ॥
सीतापहरणार्थेन
रावणेन
सुरक्षिताम् ।
समन्ताद्विचरद्भिश्च
राक्षसैरुग्रधन्विभिः ॥ १५ ॥
काञ्चनेनावृतां
रम्यां
प्राकारेण
महापूरीम् ।
गृहैश्च
ग्रहसङ्काशैः
शारदाम्बुदसन्निभैः ॥ १६ ॥
पाण्डराभिः
प्रतेलीभिरुच्चाभिरभिसंवृताम् ।
अट्टालकशताकीर्णां
पताकाध्वजमालिनीम् ॥ १७ ॥
तोरणैः
काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।
ददर्श
हनुमान्
लङ्कां
दिवि
देवपुरीमिव ॥ १८ ॥
गिरिमूर्ध्नि
स्थितां
लङ्कां
पाण्डुरैर्भवनैः
शुभैः ।
ददर्श
स
कपिश्रेष्ठः
पुरमाकाशगं
यथा ॥ १९ ॥
पालितां
राक्षसेन्द्रेण
निर्मितां
विश्वकर्मणा ।
प्लवमानामिवाकाशे
ददर्श
हनुमान्
पुरीम् ॥ २० ॥
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ।
मनसेव
कृतां
लङ्कां
निर्मितां
विश्वकर्मणा ॥ २१ ॥
द्वारमुत्तरमासाद्य
चिन्तयामास
वानरः ।
केलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ॥ २२ ॥
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ।
संपूर्णा
राक्षसैर्घोरैर्नागैर्भोगवततीमिव ॥ २३ ॥
अचिन्त्यां
सुकृतां
स्पष्टां
कुबेराध्युषितां
पुरा ।
दंष्ट्रिभिर्बहुभिः
शूरैः
शूलपट्टिशपाणिभिः ॥ २४ ॥
रक्षितां
राक्षसैर्घोरैर्गुहामाशीविषैरिव ।
तस्याश्च
महतीं
गुप्तिं
सागरं
च
निरीक्ष्य
सः ॥ २५ ॥
रावणं
च
रिपुं
घोरं
चिन्तयामास
वानरः ।
आगत्यापीह
हरयो
भविष्यन्ति
निरर्थकाः ॥ २६ ॥
नहि
युद्धेन
वै
लङ्का
शक्या
जेतुं
सुरैरपि ।
इमां
तु
विषमां
दुर्गां
लङ्कां
रावणपालिताम् ॥ २७ ॥
प्राप्यापि
स
महाबाहुः
हिं
करिष्यति
राघवः ।
अवकाशे
न
सान्त्वस्य
राक्षसेष्वभिगम्यते ॥ २८ ॥
न
दानस्य
न
भेदस्य
नैव
युद्धस्य
दृश्यते ।
चतुर्णामेव
हि
गतिर्वानराणां
महात्मनाम् ॥ २९ ॥
वालिपुत्रस्य
नीलस्य
मम
राज्ञश्च
धीमतः ।
यावज्जानामि
वैदेहीं
यदि
जीवति
वा
न
वा ॥ ३० ॥
तत्रैव
चिन्तयिष्यामि
दृष्ट्वा
तां
जनकात्मजाम् ।
ततः
स
चिन्तयामास
मुहूर्तं
कपिकुञ्जरः ॥ ३१ ॥
गिरिशृङ्गे
स्थितस्तस्मिन्
रामस्याभ्युदये
रतः ।
अनेन
रूपेण
मया
न
शक्या
पुरी ॥ ३२ ॥
प्रवेष्टुं
राक्षसैर्गुप्ता
क्रूरैर्बलसमन्वितैः ।
उग्रौजसो
महावीर्या
बलवन्तश्च
राक्षसाः ॥ ३३ ॥
वञ्चनीया
मया
सर्वे
जानकीं
परिमार्गता ।
लक्ष्यालक्ष्येण
रूपेण
रात्रौ
लङ्कापुरी
मया ॥ ३४ ॥
प्रवेष्टुं
प्राप्तकालं
मे
कृत्यं
साधयितुं
महत् ।
तां
पुरीं
तादृशीं
दृष्ट्वा
दुराधर्षां
सुरासुरैः ॥ ३५ ॥
हनुमांश्चिन्तयामास
विनिःश्वस्य
मुहुर्मुहुः ।
केनोपायेन
पश्येयं
मैथिलीं
जनकात्मजाम् ॥ ३६ ॥
अदृष्टो
राक्षसेन्द्रेण
रावणेन
दुरात्मना ।
न
विनश्येत्
कथं
कार्यं
रामस्य
विदितात्मनः ॥ ३७ ॥
एकामेकश्च
पश्येयं
रहिते
जनकात्मजाम् ।
भूताश्चार्था
विपद्यन्ते
देशकालविरोधिताः ॥ ३८ ॥
विक्लवं
दूतमासाद्य
तमः
सूर्योदये
यथा ।
अर्थानर्थान्तरे
बुद्धिर्निश्चितापि
न
शोभते ॥ ३९ ॥
घातयन्ति
हि
कार्याणि
दूताः
पण्डितमानिनः ।
न
विनश्येत्कथं
कार्यं
वैक्लव्यं
न
कथं
भवेत् ॥ ४० ॥
लङ्घनं
च
समुद्रस्य
कथं
नु
न
वृथा
भवेत् ।
मयि
दृष्टे
तु
रक्षोभी
रामस्य
विदितात्मनः ॥ ४१ ॥
भवेद्व्यर्थंमिदं
कार्यं
रावणानर्थमिच्छतः ।
नहि
शक्य
क्वचित्
स्थातुमविज्ञातेन
राक्षसैः ॥ ४२ ॥
अपि
राक्षसरूपेण
किमुतान्येन
केनचित् ।
वायुरप्यत्र
न
ज्ञातश्चरेदिति
मतिर्मम ॥ ४३ ॥
नह्यस्त्यविदितं
किञ्चिद्राक्षसानां
बलीयसाम् ।
इहाहं
यदि
तिष्ठामि
स्वेन
रूपेण
संवृतः ॥ ४४ ॥
विनाशमुपायास्यामि
भर्तुरर्थश्च
हीयते ।
तदहं
स्वेन
रूपेण
रजन्यां
ह्रस्वतां
गतः ॥ ४५ ॥
लङ्कामधिपतिष्यामि
राघवस्यार्थसिद्धये ।
रावणस्य
पुरीं
रात्रौ
प्रविश्य
सुदुरासदाम् ॥ ४६ ॥
विचिन्वन्
भवनं
सर्वं
द्रक्ष्यामि
जनकात्मजाम् ।
इति
सञ्चिन्त्य
हनुमान्
सूर्यस्यास्तमयं
कपिः ॥ ४७ ॥
आचकाङ्क्षे
तदा
वीरो
वैदेह्या
दर्शनोत्सुकः ।
सूर्ये
चास्तं
गते
रात्रौ
देहं
सङ्क्षिप्य
मारुतिः ॥ ४८ ॥
वृषदंशकमात्रः
सन्
बभूवाद्भुतदर्शनः ।
प्रदोषकाले
हनुमांस्तूर्णमुत्प्लुत्य
वीर्यवान् ॥ ४९ ॥
प्रविवेश
पुरीं
रम्यां
सुविभक्तमहापथाम् ।
प्रासादमालाविततां
स्तम्भैः
काञ्चनराजतैः ॥ ५० ॥
शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ।
सप्तभूमाष्टभूमैश्च
स
ददर्श
महापुरीम् ॥ ५१ ॥
तलैः
स्फटिकसङ्कीर्णैः
कार्तस्वरविभूषितैः ।
वैडूर्यमणिचित्रैश्च
मुक्ताजालविभूषितैः ॥ ५२ ॥
तलैः
शुशुभिरे
तानि
भवनान्यत्र
रक्षसाम् ।
काञ्चनानि
विचित्राणि
तोरणानि
च
रक्षसाम् ॥ ५३ ॥
लङ्कामुद्द्योतयामासुः
सर्वतः
समलङ्कृताम् ।
अचिन्त्यामाद्भुताकारां
दृष्ट्वा
लङ्कां
महाकपिः ॥ ५४ ॥
आसीद्विषण्णो
हृष्टश्च
वैदेह्या
दर्शनोत्सुकः ।
स
पाण्डुरो
द्विद्धविमानामालिनीं
महार्हजाम्बूनदजालतोरणाम् ॥ ५५ ॥
यशस्विनीं
रावणबाहुपालितां
क्षपाचरैर्भीमबलैः
समावृताम् ।
चन्द्रोऽपि
साचिव्यमिवास्य
कुर्वंस्तारागणैर्मध्यगतो
विराजन् ॥ ५६ ॥
ज्योत्स्नावितानेन
वितत्य
लेकमुत्तिष्ठते
नैतसहस्ररश्मिः ।
शङ्खप्रभं
क्षीरमृणालवर्णमुद्गच्छमानं
व्यवभासमानम् ॥ ५७ ॥
ददर्श
चन्द्रं
स
हरिप्रवीरः
पोप्लूयमानं
सरसीव
हंसम् ॥ ५८ ॥