स
लम्बसिखरे
लम्बे
लम्बतोयदसन्निभे ।
सत्त्वमास्ताय
मेधावी
हनुमान्मारुतात्मजः ॥ १ ॥
निशि
लङ्कां
महासत्त्वो
विवेश
कपिकुञ्जरः ।
रम्यकाननतोयाढ्यां
पुरीं
रावणपालिताम् ॥ २ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां
सागरानिलसेविताम् ॥ ३ ॥
सुपुष्टबलसङ्घुष्टां
यथैव
विटपावतीम् ।
चारुतोरणनिर्यूहां
पाण्डुरद्वारतोरणाम् ॥ ४ ॥
भुजगाचरितां
गुप्तां
शुभां
भोगवतीमिव ।
तां
सविद्युद्घनाकीर्णां
ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
मन्दमारुतसञ्चारां
यथेन्द्रस्यामरावतीम् ।
शातकुम्भेन
महता
प्राकारेणाभिसंवृताम् ॥ ६ ॥
किङ्किणीजालघोषाभिः
पताकाभिरलङ्कृताम् ।
आसाद्य
सहसा
हृष्टः
प्राकारमभिपेदिवान् ॥ ७ ॥
विस्मयाविष्टहृदयः
पुरीमालोक्य
सर्वतः ।
वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ॥ ८ ॥
तप्तहाटकनिर्यूहै
राजतामलपाण्डुरैः ।
वैडूर्यकृतसोपानैः
स्फाटिकान्तरपांसुभिः ॥ ९ ॥
चारुसञ्जवनोपेतैः
खमिवोत्पतितैः
शुभैः ।
क्रौञ्चबर्हिणसङ्घुष्टैराजहंसनिषेवितैः ॥ १० ॥
तूर्याभरणनिर्घोषैः
सर्वतः
प्रतिनादिताम् ।
वस्वोकसाराप्रतिमां
तां
वीक्ष्य
नगरीं
ततः ॥ ११ ॥
खमिवोत्पतितुं
कामां
जहर्ष
हनुमान्
कपिः ।
तां
समीक्ष्य
पुरीं
रम्यां
राक्षसाधिपतेः
शुभाम् ॥ १२ ॥
अनुत्तमामृद्धियुतां
चिन्तयामास
वीर्यवान् ।
नेयमन्येन
नगरी
शक्या
धर्षयितुं
बलात् ॥ १३ ॥
रक्षिता
रावणबलैरुद्यतायुधधारिभिः ।
कुमुदाङ्गदयोर्वापि
सुषेणस्य
महाकपेः ॥ १४ ॥
प्रसिद्धेयं
भवेद्भूमिर्मैन्दद्विविदयोरपि ।
विवस्वतस्तनूजस्य
हरेश्च
कुशपर्वणः ॥ १५ ॥
ऋक्षस्य
केतुमालस्य
मम
चैव
गतिर्भवेत् ।
समीक्ष्य
तु
महाबाहू
राघवस्य
पराक्रमम् ॥ १६ ॥
लक्ष्मणस्य
च
विक्रान्तमभवत्प्रीतिमान्
कपिः ।
तां
रत्नवसनोपेतां
गोष्ठागारावतंसकाम् ॥ १७ ॥
यन्त्रागारस्तनीमृद्धां
प्रमदामिव
भूषिताम् ।
तां
नष्टतिमिरां
दीप्तैर्भास्वरैश्च
महागृहैः ॥ १८ ॥
नगरीं
राक्षसेन्द्रस्य
ददर्श
स
महाकपिः ।
अथ
सा
हरिशार्दूलं
प्रविशन्तं
महाबलम् ॥ १९ ॥
नगरी
स्वेन
रूपेण
ददर्श
पवनात्मजम् ।
सा
तं
हरिवरं
दृष्ट्वा
लङ्का
रावणपालिता ॥ २० ॥
स्वयमेवोत्थिता
तत्र
विकृताननदर्शना ।
पुरस्तात्कपिवर्यस्य
वायुसूनोरतिष्ठत ॥ २१ ॥
मुञ्चमाना
महानादमब्रवीत्पवनात्मजम् ।
कस्त्वं
केन
च
कार्येण
इह़
प्राप्तो
वनालय ॥ २२ ॥
कथयस्वेह
यत्तत्त्वं
यावत्प्राणा
धरन्ति
ते ।
न
शक्यं
खल्वियं
लङ्का
प्रवेष्टुं
वानर
त्वया ॥ २३ ॥
रक्षिता
रावणबलैरभिगुप्ता
समन्ततः ।
अथ
तामब्रवीद्वीरो
हनूमानग्रतः
स्थिताम् ॥ २४ ॥
कथयिष्यामि
ते
तत्त्वं
यन्मां
त्वं
परिपृच्छसि ।
का
त्वं
विरूपनयना
पुरद्वारेऽवतिष्ठसि ॥ २५ ॥
किमर्थं
चापि
मां
रुद्ध्वा
निर्भिर्त्सयसि
दारुणा ।
हनुमद्वचनं
श्रुत्वा
लङ्का
सा
कामरूपिणी ॥ २६ ॥
उवाच
वचनं
क्रुद्धा
परुषं
पवनात्मजम् ।
अहं
हाक्षसराजस्य
रावणस्य
महात्मनः ॥ २७ ॥
आज्ञा
प्रतीक्षा
दुर्धर्षा
रक्षामि
नगरीमिमाम् ।
न
शक्या
मामवज्ञाय
प्रवेष्टुं
नगरी
त्वया ॥ २८ ॥
अद्य
प्राणैः
परित्यक्तः
स्वप्स्यसे
निहतो
मया ।
अहं
हि
नगरी
लङ्का
स्वयमेव
प्लवङ्गम ॥ २९ ॥
सर्वतः
परिरक्षामि
ह्येतत्ते
कथितं
मया ।
लङ्काया
वचनं
श्रुत्वा
हनुमान्
मारुतात्मजः ॥ ३० ॥
यत्नवान्
स
हरिश्श्रेष्ठः
स्थितः
शैल
इवापरः ।
स
तां
स्त्रीरूपविकृतां
दृष्ट्वा
वानरपुङ्गवः ॥ ३१ ॥
आबभाषेऽथ
मेधावी
सत्त्ववान्
प्लवगर्षभः ।
द्रक्ष्यामि
नगरीं
लङ्कां
साट्टप्राकारतोरणाम् ॥ ३२ ॥
इत्यर्थमिह
संप्राप्तः
परं
कौतूहलं
हि
मे ।
वनान्युपवनानीह
लङ्कायाः
काननानि
च ॥ ३३ ॥
सर्वतो
गृहमुख्यानि
द्रष्टुमागमनं
हि
मे ।
तस्य
तद्वचनं
श्रुत्वा
लङ्ङ्का
सा
कामरूपिणी ॥ ३४ ॥
भूय
एव
पुर्नवाक्यं
बभाषे
परुषाक्षरम् ।
मामनिर्जित्य
दुर्बुद्धे
राक्षसेश्वरपालिताम् ॥ ३५ ॥
न
शक्यमद्य
ते
द्रष्टुं
पुरीयं
वानराधम ।
ततः
स
कपिशार्दूलस्तामुवाच
निशाचराम् ॥ ३६ ॥
दृष्ट्वा
पुरीमिमां
भद्रे
पुनर्यास्ये
यथागतम् ।
ततः
कृत्वा
महानादं
सा
वै
लङ्का
भयावहम् ॥ ३७ ॥
तलेन
वानरश्रेष्ठं
ताडयामास
वेगिता ।
ततः
स
कपिशार्दूलो
लङ्कया
ताडितो
भृशम् ॥ ३८ ॥
ननाद
सुमहानादं
वीर्यवान्
पवनात्मजः ।
ततः
संवर्तयामास
वामहस्तस्य
सोऽङ्गुलीः ॥ ३९ ॥
मुष्टिनाऽभिजघानैनां
हनूमान्
क्रोधमूर्च्छितः ।
स्त्री
चेति
मन्यमानेन
नातिक्रोधस्स्वयं
कृतः ॥ ४० ॥
सा
तु
तेन
प्रहारेण
विह्वलाङ्गी
निशाचरी ।
पपात
सहसा
भूमौ
विकृताननदर्शना ॥ ४१ ॥
ततस्तु
हनुमान्
प्राज्ञस्तां
दृष्ट्वा
विनिपातिताम् ।
कृपां
चकार
तेजस्वी
मन्यमानः
स्त्रियं
तु
ताम् ॥ ४२ ॥
ततो
वै
भृशसंविग्ना
लङ्का
सा
गद्गदाक्षरम् ।
उवाचागर्वितं
वाक्यं
हनुमान्तं
प्लवङ्गमम् ॥ ४३ ॥
प्रसीद
सुमहाबाहो
त्रायस्व
हरिसत्तम ।
समये
सौम्य
तिष्ठन्ति
सत्त्ववन्तो
महाबलाः ॥ ४४ ॥
अहं
तु
नगरी
लङ्का
स्वयमेव
प्लवङ्गम ।
निर्जिताऽहं
त्वया
वीर
विक्रमेण
महाबल ॥ ४५ ॥
इदं
तु
तथ्यं
वै
ब्रुवन्त्या
मे
हरीश्वर ।
स्वयंभुवा
पुरा
दत्तं
वरदानं
यथा
मम ॥ ४६ ॥
यदा
त्वां
वानरः
कश्चिद्विक्रमाद्वशमानयेत् ।
तदा
त्वया
हि
विज्ञेयं
रक्षसां
भयमगतम् ॥ ४७ ॥
स
हि
मे
समयस्सौम्य
प्राप्तोऽद्य
तव
दर्शनात् ।
स्वयम्भूविहितस्सत्यो
न
तस्यास्ति
व्यतिक्रमः ॥ ४८ ॥
सीतानिमित्तं
राज्ञस्तु
रावणस्य
दुरात्मनः ।
राक्षसां
चैव
सर्वेषां
विनाशः
समुपागतः ॥ ४९ ॥
तत्प्रविश्य
हरिश्रेष्ठ
पुरीं
रावणपालिताम् ।
विधत्स्व
सर्वकार्याणि
यानि
यानीह
वाञ्छसि ॥ ५० ॥
प्रविश्य
शापोपहतां
हरीश्वरः
शुभां
पुरीं
राक्षसमुख्यपालिताम् ।
यदृच्छया
त्वं
जनकात्मजां
सतीं
विमार्ग
सर्वत्र
गतो
यथासुखम् ॥ ५१ ॥