ततः
स
मध्यं
गतमंशुमन्तं
ज्योत्स्नावितानं
महदुद्वमन्तम् ।
ददर्श
धीमान्
दिवि
भानुमन्तं
गोष्ठे
वृषं
मत्तमिव
भ्रमन्तम् ॥ १ ॥
लोकस्य
पापानि
विनाशयन्तं
महोदधिं
चापि
समेधयन्तम् ।
भूतानि
सर्वाणि
विराजयन्तं
ददर्श
शीतांशुमथाभियान्तम् ॥ २ ॥
या
भाति
लक्ष्मीर्भुवि
मन्दरस्था
तथा
प्रदोषेषु
च
सागरस्था ।
तथैव
तोयेषु
च
पुष्करस्था
रराज
सा
चारुनिशाकरस्था ॥ ३ ॥
हंसो
यता
राजतपञ्जरस्थः
सिंहो
यथा
मन्दरकन्दरस्थः ।
वीरो
यथा
गर्वितकृञ्जरस्थश्चन्द्रो
विबभ्राज
तथाऽम्बरस्थः ॥ ४ ॥
स्थितः
ककुद्मानिव
तीक्ष्णशृङ्गो
महाचलः
श्वेत
इवोच्चशृङ्गः ।
हस्तीव
जाम्बूनदबद्धशृङ्गो
रराज
चन्द्रः
परिपूर्णशृङ्गः ॥ ५ ॥
विनष्टशीताम्बुतुषारपङ्को
महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को
रराज
चन्द्रो
भगवान्
शशाङ्कः ॥ ६ ॥
शिलातलं
प्राप्य
यता
मृगेन्द्रो
महारणं
प्राप्य
यथा
गजेन्द्रः ।
राज्य
समासाद्य
यथा
नरेन्द्रस्तथा
प्रकाशो
विरराज
चन्द्रः ॥ ७ ॥
प्रकाशचन्द्रोदयनष्टदोषः
प्रवृद्धरक्षः
पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः
स्वर्गप्रकाशो
भगवान्
प्रदोषः ॥ ८ ॥
तन्त्रीस्वनाः
कर्णसुखाः
प्रवृत्ताः
स्वपन्ति
नार्यः
पतिभिस्सुवृत्ताः ।
नक्तञ्चराश्चापि
तथा
प्रवृत्ता
विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥
मत्तप्रमत्तानि
समाकुलानि
रथाश्वभद्रासनसङ्कुलानि ।
वीरश्रिया
चापि
समाकुलानि
ददर्श
धीमान्
स
कपिः
कुलानि ॥ १० ॥
परस्परं
चाधिकमाक्षिपन्ति
भुजांश्च
पीनानधिनिक्षिपन्ति ।
मत्तप्रलापानधिकं
त्रिपन्ति
मत्तानि
चान्योन्यमधिक्षिपन्ति ॥ ११ ॥
रक्षंसि
वक्षांसि
च
विक्षिपन्ति
गात्राणि
कान्तासु
च
विक्षपन्ति ।
रूपाणि
चित्राणि
च
विक्षिपन्ति
दृढानि
चापानि
च
विक्षिपन्ति ॥ १२ ॥
ददर्श
कान्ताश्च
समालभन्त्यस्तथाऽपरास्तत्र
पुनः
स्वपन्त्यः ।
सुरूपवक्त्राश्च
तता
हसन्त्यः
क्रुद्धाः
पराश्चापि
विनिःश्वसन्त्यः ॥ १३ ॥
महागजैश्चापि
तथा
नदद्भिः
सुपूजितैश्चापि
तथा
सुसद्भिः ।
रराज
वीरैश्च
विनःश्वसद्भिर्ह्रदो
भुजङ्गैरिव
निःश्वसद्भिः ॥ १४ ॥
बुद्धिप्रधानान्
रुचिराभिधानान्
संश्रद्धधानान्
जगतः
प्रधानान् ।
नानाविधानान्
रुचिराभिधानन्
ददर्श
तस्यां
पुरि
यातुधानान् ॥ १५ ॥
ननन्द
दृष्ट्वा
स
च
तान्
सुरूपान्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान्
स
तदाऽनुरूपान्
ददर्श
कांश्चिच्च
पुनर्विरूपान् ॥ १६ ॥
ततो
वरार्हाः
सुविशुद्धभावास्तेषां
स्त्रियस्तत्र
महानुभावाः ।
प्रियेषु
पानेषु
च
सक्तभावा
ददर्श
तारा
इव
सुप्रभावाः ॥ १७ ॥
श्रिया
ज्वलन्तीस्त्रयोपगूढा
निशीथकाले
रमणोपगूढाः ।
ददर्शकाश्चित्प्रमदोपकूढा
यथा
विहङ्गाः
कुसुमोपगूढाः ॥ १८ ॥
अन्याः
पुनर्हर्म्यतलोपविष्टास्तत्र
प्रियाङ्केषु
सुखोपविष्टाः ।
भर्तुः
प्रिया
धर्मपरा
निविष्टा
ददर्श
धीमान्
मदनाभिविष्टाः ॥ १९ ॥
अप्रावृत्ताः
काञ्चनराजिवर्णाः
काश्चित्परार्घ्यास्तपनीयवर्णाः ।
पुनश्च
काश्चिच्छशलक्ष्मवर्णाः
कान्तप्रहीणा
रुचिराङ्गवर्णाः ॥ २० ॥
ततः
प्रियान्
प्राप्य
मनोभिरामान्
सुप्रीतियुक्ताः
प्रसमीक्ष्य
रामाः ।
गृहेषु
हृष्टाः
परमाभिरामा
हरिप्रवीरः
स
ददर्श
रामाः ॥ २१ ॥
चन्द्रप्रकाशाश्च
हि
वक्त्रमाला
वक्राक्षिपक्ष्माश्च
सुनेत्रमालाः ।
विभूषणानां
च
ददर्श
मालाः
शतह्रदानामिव
चारुमालाः ॥ २२ ॥
न
त्वेव
सीतां
परमाभिजातां
पथि
स्थिते
राजकुले
प्रजाताम् ।
लतां
प्रफुल्लामिव
साधुजातां
ददर्श
तन्वीं
मनसाऽभिजाताम् ॥ २३ ॥
सनातने
वर्त्मनि
सन्निविष्टां
रामेक्षणान्तां
मदनाभिविष्टाम् ।
भर्तुर्मनः
श्रीमदनुप्रविष्टां
स्त्रीभ्यो
वराभ्यश्च
सदा
विशिष्टाम् ॥ २४ ॥
उष्णार्दितां
सानुसृतास्रकण्ठीं
पुरा
वरार्होत्तमनिष्ककण्ठीम् ।
सुजातपक्ष्मामभिरक्तकण्ठीं
वने
प्रनृत्तामिव
नीलकण्ठीम् ॥ २५ ॥
अव्यक्तरेखामिव
चन्द्ररेखां
पांसुप्रदिग्धामिव
हेमरेखाम् ।
क्षतप्रूढामिव
बाणरेखां
वायुप्रभिन्नामिव
मेघरेखाम् ॥ २६ ॥
सीतामपश्यन्
मनुजेश्वरस्य
रामस्य
पत्नीं
वदतां
वरस्य ।
बभूव
दुःखाभिहतश्चिरस्य
प्लवङ्गमो
मन्द
इवाचिरस्य ॥ २७ ॥