स
निकामं
विमानेषु
विषण्णः
कामरूपधृक् ।
विचचार
पुनर्लङ्कां
लाघवेन
समन्वितः ॥ १ ॥
आससादाथ
लक्ष्मीवान्
राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन
भास्वरेणाभिसंवृतम् ॥ २ ॥
रक्षितं
राक्षसैर्घोरैः
सिंहैरिव
महद्वनम् ।
समीक्षमाणो
भवनं
चकाशे
कपिकुञ्जरः ॥ ३ ॥
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।
विचित्राभिश्च
कक्ष्याभिर्द्वारैश्च
रुचिरैर्वृतम् ॥ ४ ॥
गजास्थितैर्महामात्रैः
शूरैश्च
विगतश्रमैः ।
उपस्थितमसंहार्यैर्हयैः
स्यन्दनयायिभिः ॥ ५ ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च
सदा
विचरितं
रथैः ॥ ६ ॥
बहुरत्नसमाकीर्णं
परार्घ्यासनभाजनम् ।
महारथसमावासं
महारथमहास्वनम् ॥ ७ ॥
दृश्यैश्च
परमोदारैस्तैस्तैश्च
मृगपक्षिभिः ।
विविधैर्बहुसाहस्रैः
परिपूर्णं
समन्ततः ॥ ८ ॥
विनीतैरन्तपालैश्च
रक्षोभिश्च
सुरक्षितम् ।
मुख्याभिश्च
वरस्त्रीभिः
परिपूर्णं
समन्ततः ॥ ९ ॥
मुदितप्रमदारत्नं
राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः
समुद्रस्वननिस्वनम् ॥ १० ॥
तद्राजगुणसंपन्नं
मुख्यैश्चागुरुचन्दनैः ।
महाजनैः
समाकीर्णं
सिंहैरिव
महद्वनम् ॥ ११ ॥
भेरीमृदङ्गाभिरुतं
शङ्खघोषनिनादितम् ।
नित्यार्चितं
पर्वहुतं
पूजितं
राक्षसैः
सदा ॥ १२ ॥
महात्मनो
महद्वेश्म
महारत्नपरिच्छदम् ।
महारत्नसमाकीर्णं
ददर्श
स
महाकपिः ॥ १३ ॥
विराजमानं
वपुषा
गजाश्वरथसङ्कुलम् ।
लङ्काभरणमित्येव
सोऽमन्यत
महाकपिः ॥ १४ ॥
चचार
हनुमांस्तत्र
रावणस्य
समीपतः ।
गृहाद्
गृहं
राक्षसानामुद्यानानि
च
वानरः ॥ १५ ॥
वीक्षमाणो
ह्यसन्त्रस्तः
प्रासादांश्च
चचार
सः ।
अवप्लुत्य
महावेगः
प्रहस्तस्य
निवेशनम् ॥ १६ ॥
ततोऽन्यत्
पुप्लुवे
वेश्म
महापार्श्वस्य
वीर्यवान् ।
अथ
मेघप्रतीकाशं
कुम्भकर्णनिवेशनम् ॥ १७ ॥
विभीषणस्य
च
तदा
पुप्लुवे
स
महाकपिः ।
शुकस्य
च
महातेषाः
सारणस्य
च
धीमतः ॥ १८ ॥
तथा
चेन्द्रजितो
वेश्म
जगाम
हरियूथपः ।
जम्बुमालेः
सुमालेश्च
जगाम
हरिसत्तमः ॥ १९ ॥
रश्मिकेतोश्च
भवनं
सूर्यशत्रोस्तथैव
च ।
वज्रकायस्य
च
तथा
पुप्लुवे
स
महाकपिः ॥ २० ॥
धूम्राक्षस्य
च
संपातेर्भवनं
मारुतात्मजः ।
विद्युद्रूपस्य
भीमस्य
घनस्य
विघनस्य
च ॥ २१ ॥
शुकनासस्य
वक्रस्य
शठस्य
विकटस्य
च ।
ब्रह्मकर्णस्य
दंष्ट्रस्य
रोमशस्य
च
रक्षसः ॥ २२ ॥
युद्धोन्मत्तस्य
मत्तस्य
ध्वजग्रीवस्य
नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां
तथा
हस्तिमुखस्य
च ॥ २३ ॥
करालस्य
पिशाचस्य
शोणिताक्षस्य
चैव
हि ।
क्रममाणः
क्रमेणैव
हनुमान्
मारुतात्मजः ॥ २४ ॥
तेषु
तेषु
महार्हेषु
भवनेषु
महायशाः ।
तेषामृद्धिमतामृद्धिं
ददर्श
स
महाकपिः ॥ २५ ॥
सर्वेषां
समतिक्रम्य
भवनानि
समन्ततः ।
आससादाथ
लक्ष्मीवान्
राक्षसेन्द्रनिवेशनम् ॥ २६ ॥
विचरन्
हरिशार्दूलो
राक्षसीर्विकृतेक्षणाः ।
शूलमुद्गरहस्ताश्च
शक्तितोमरधारिणीः ॥ २७ ॥
ददर्श
विविधान्
गुल्मांस्तस्य
रक्षःपतेर्गृहे ।
राक्षसांश्च
महाकायान्नानाप्रहरणोद्यतान् ॥ २८ ॥
रक्तान्
श्वेतान्
सितांश्चैव
हरींश्चापि
महाजवान् ।
कुलीनान्
रूपसम्पन्नान्
गजान्
परगजारुजान् ॥ २९ ॥
निष्ठितान्
गजशिक्षायामैरावतसमान्
युधि ।
निहन्तॄन्
परसैन्यानां
गहे
तस्मिन्
ददर्श
सः ॥ ३० ॥
क्षरतश्च
यथा
मेघान्
स्रवतश्च
यथा
गिरीन् ।
मेघस्तनितनिर्घोषान्
दुर्धर्षान्
समरे
परैः ॥ ३१ ॥
सहस्रं
वाहिनीस्तत्र
जाम्बूनदपरिष्कृताः ।
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ॥ ३२ ॥
ददर्श
राक्षसेन्द्रस्य
रावणस्य
निवेशने ।
शिबिका
विविधाकाराः
स
कपिर्मारुतात्मजः ॥ ३३ ॥
लतागृहाणि
चित्राणि
चित्रशाला
गृहाणि
च ।
कामस्य
गृहकं
रम्यं
दिवागृहकमेव
च ॥ ३४ ॥
ददर्श
राक्षसेन्द्रस्य
रावणस्य
निवेशने ।
स
मन्दरगिरिप्रख्यं
मयूरस्थानसङ्कुलम् ॥ ३५ ॥
ध्वजयष्टिभिराकीर्णं
ददर्श
भवनोत्तमम् ।
अनेकरत्नसङ्कीर्णं
निधिजालं
समन्तत ॥ ३६ ॥
धीरनिष्ठितकर्मान्तं
गृहं
भूतपतेरिव ।
अर्चिर्भिश्चापि
रत्नानां
तेजसा
रावणस्य
च ॥ ३७ ॥
विरराजाथ
तद्वेश्म
रश्मिमानिव
रश्मिभिः ।
जाम्बूनदमयान्येव
शयनान्यासनानि
च ॥ ३८ ॥
भाजनानि
च
मुख्यानि
ददर्श
हरियूथपः ।
मनोरममसम्बाधं
कुबेरभवनं
यथा ॥ ३९ ॥
नूपुराणां
च
घोषेण
काञ्चीनां
निनदेन
च ।
मृदङ्गतलघोषैश्छ
घोषवद्भिर्विनादितम् ॥ ४० ॥
प्रासादसङ्घातयुतं
स्त्रीरत्नशतसङ्कुलम् ।
सुव्यूढकक्ष्यं
हनुमान्
प्रविवेश
महागृहम् ॥ ४१ ॥