स
तस्य
मध्ये
भवनस्य
संस्थितं
महद्विमानं
मणिवज्रचित्रितम् ।
प्रतप्तजाम्बूनदजालकृत्रिमं
ददर्श
वीरः
पवनात्मजः
कपिः ॥ १ ॥
तदप्रमेयाऽप्रतिकारकृत्रिमं
कृतं
स्वयं
साध्विति
विश्वकर्मणा ।
दिवं
गतं
वायुपथप्रतिष्ठितं
व्यराजतादित्यपथस्य
लक्ष्मवत् ॥ २ ॥
न
तत्र
किञ्चिन्नकृतं
प्रयत्नतो
न
तत्र
किञ्चिन्नमहार्हरत्नवत् ।
न
ते
विशेषा
नियताः
सुरेष्वपि
न
तत्र
किञ्चिन्न
महाविशेषवत् ॥ ३ ॥
तपः
समाधानपराक्रमार्जितं
मनःसमाधानविचारचारिणम् ।
अनेकसंश्तानाविशेषनिर्मितं
ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥
मनस्समाधाय
तु
शीघ्रगामिनं
दुरावरं
मारुततुल्यगामिनम् ।
महात्मनां
पुण्यकृतां
महर्द्धिनां
यशस्विनामग्र्य
मुदामिवालयम् ॥ ५ ॥
विशेषमालम्ब्य
विशेषसंस्थितं
विचित्रकूटं
बहुकूटमण्डितम् ।
मनोभिरामं
शरदिन्दुनिर्मलं
विचित्रकूटं
शिखरं
गिरेर्यथा ॥ ६ ॥
वहन्ति
यं
कुण्डलशोभितानना
महाशना
व्योमचरा
निशाचराः ।
विवृत्तविध्वस्तविशाललोचना
महाजवा
भूतगणाः
सहस्रशः ॥ ७ ॥
वसन्तपुष्पोत्करचारुदर्शनं
वसन्तमासादपि
कान्तदर्शनम् ।
स
पुष्पकं
तत्र
विमानमुत्तमं
ददर्श
तद्वानरवीरसत्तमः ॥ ८ ॥