स
तस्य
मध्ये
भवनस्य
मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् ।
जगाम
सीतां
प्रति
दर्शनोत्सुको
न
चैव
तां
पश्यति
चारुदर्शनाम् ॥ १ ॥
स
चिन्तयामास
ततो
महाकपिः
प्रियामपश्यन्
रघुनन्दनस्य
ताम् ।
ध्रुवं
हि
सीता
म्रियते
यथा
न
मे
विचिन्वतो
दर्शनमेति
मैथिला ॥ २ ॥
सा
राक्षसानां
प्रवरेण
जानकी
स्वशीलसंरक्षणतत्परा
सती ।
अनेन
नूनं
प्रतिदुष्टकर्मणा
हता
भवेदार्यपथे
परे
स्थिता ॥ ३ ॥
विरूपरूपा
विकृता
विवर्चसो
महानना
दीर्घविरूपदर्शनाः ।
समीक्ष्य
सा
राक्षसराजयोषितो
भयाद्विनष्टा
जनकेश्वरात्मजा ॥ ४ ॥
सीतामदृष्ट्वा
ह्यनवाप्य
पौरुषं
विहृत्य
कालं
सह
वानरैश्चिरम् ।
न
मेऽस्ति
सुग्रीवसमीपगा
गतिः
सुतीक्ष्णदण्डो
बलवांश्च
वानरः ॥ ५ ॥
दृष्टमन्तःपुरं
सर्वं
दृष्टा
रावणयोषितः ।
न
सीता
दृश्यते
साध्वी
वृथा
जातो
मम
श्रमः ॥ ६ ॥
गत्वा
तत्र
त्वया
वीर
किं
कृतं
तद्वदस्व
नः ।
अदृष्ट्वा
किं
प्रवक्ष्यामि
तामहं
जनकात्मजाम् ॥ ७ ॥
ध्रुवं
प्रायमुपैष्यन्ति
कालस्य
व्यतिवर्तने ।
किं
वा
वक्ष्यति
वृद्धश्च
जाम्बवानङ्गदश्च
सः ॥ ८ ॥
गतं
पारं
समुद्रस्य
वानराश्च
समागताः ।
अनिर्वेदः
श्रियो
मूलमनिर्वेदः
परं
सुखम् ॥ ९ ॥
अनिर्वेदो
हि
सततं
सर्वार्थेषु
प्रवर्तकः ।
करोति
सफलं
जन्तोः
कर्म
यत्तत्करोति
सः ॥ १० ॥
तस्मादनिर्वेदकृतं
यत्नं
चेष्टेऽहमुत्तमम् ।
भूयस्तावद्विचेष्यामि
देशान्
रावणपालितान् ॥ ११ ॥
आपानशाला
विचितास्तथा
पुष्पगृहाणि
च ।
चित्रशालाश्च
विचिता
भूयः
क्रीडागृहाणि
च ॥ १२ ॥
निष्कुटान्तररथ्याश्च
विमानानि
च
सर्वशः ।
इति
सञ्चिन्त्य
भुयोऽपि
विचेतुमुपचक्रमे ॥ १३ ॥
भूमीगूहांश्चैत्यगृहान्
गृहातिगृहकानपि ।
उत्पतन्निपतंश्चापि
तिष्ठन्
गच्छन्
पुनः
पुनः ॥ १४ ॥
अपावृण्वंश्च
द्वाराणि
कपाटान्यवघाटयन् ।
प्रविशन्निष्पतंश्चापि
प्रपतन्नुत्पतन्नपि ॥ १५ ॥
सर्वमप्यवकासं
स
विचचार
महाकपिः ।
चतुरङ्गुलमात्रोऽपि
नावकाशः
स
विद्यते ॥ १६ ॥
रावणान्तःपुरे
तस्मिन्
यं
कपिर्न
जगाम
सः ।
प्राकारान्तररथ्याश्च
वेदिकाश्चैत्यसंश्रयाः ॥ १७ ॥
दीर्घिकाः
पुष्करिण्यश्च
सर्वं
तेनावलोकितम् ।
राक्षस्यो
विविधाकारा
विरूपा
विकृतास्तथा ॥ १८ ॥
दृष्टा
हनुमता
तत्र
न
तु
सा
जनकात्मजा ।
रूपेणाप्रतिमा
लोके
वरा
विद्याधरस्त्रियः ॥ १९ ॥
दृष्टा
हनुमता
तत्र
न
तु
राघवनन्दिनी ।
नागकन्या
वरारोहाः
पूर्णचन्द्रनिभाननाः ॥ २० ॥
दृष्टा
हनुमता
तत्र
न
तु
सीता
सुमध्यमा ।
प्रमथ्य
राक्षसेन्द्रेण
नागकन्या
बलाद्धृताः ॥ २१ ॥
दृष्टा
हनुमता
तत्र
न
सा
जनकनन्दिनी ।
सोऽपश्यंस्तां
महाबाहुः
पश्यंश्चान्या
वरस्त्रियः ॥ २२ ॥
विषसाद
मुहुर्धीमान्
हनुमान्
मारुतात्मजः ।
उद्योगं
वानरेन्द्राणां
प्लवनं
सागरस्य
च ॥ २३ ॥
व्यर्थं
वीक्ष्यानिलसुतश्चिन्तां
पुनरुपागमत् ।
अवतीर्य
विमानाच्च
हनुमान्
मारुतात्मजः ॥ २४ ॥
चिन्तामुपजगामाथ
शोकोपहतचेतनः ॥ २५ ॥