विमानात्तु
सुसङ्क्रम्य
प्राकारं
हरियूथपः ।
हनुमान्
वेगवानासीद्यथा
विद्युद्
घनान्तरे ॥ १ ॥
सम्परिक्रम्य
हनुमान्
रावणस्य
निवेशनात् ।
अदृष्ट्वा
जानकीं
सीतामब्रवीद्वचनं
कपिः ॥ २ ॥
भूयिष्ठं
लोलिता
लङ्का
रामस्य
चरता
प्रियम् ।
नहि
पश्यामि
वैदेहीं
सीतां
सर्वाङ्गशोभनम् ॥ ३ ॥
नद्योऽनूपवनान्ताश्च
दुर्गाश्च
धरणीधराः ।
लोलिता
वसुधा
सर्वा
न
तु
पश्यामि
जानकीम् ॥ ४ ॥
इह
सम्पतिना
सीता
रावणस्य
निवेशने ।
आख्याता
गृध्रराजेन
न
च
पश्यामि
तामहम् ॥ ५ ॥
किन्नु
सीताऽथ
वैदेही
मैथिली
जनकात्मजा ।
उपतिष्ठेत
विवशा
रावणं
दुष्टचारिणम् ॥ ६ ॥
क्षिप्रमुत्पततो
मन्ये
सातामादाय
रक्षसः ।
बिभ्यतो
रामबाणानामन्तरा
पतिता
भवेत् ॥ ७ ॥
अथवा
ह्रियमाणायाः
पथि
सिद्धनिषेविति ।
मन्ये
पतितमार्याया
हृदयं
प्रेक्ष्य
सागरम् ॥ ८ ॥
रावणस्योरुवेगेन
भुजाभ्यां
पीडितेन
च ।
तया
मन्ये
विशालाक्ष्या
त्यक्तं
जीवितमार्यया ॥ ९ ॥
उपर्युपरि
वा
नूनं
सागरं
क्रमतस्तथा ।
विवेष्टमाना
पतिता
समुद्रे
जनकात्मजा ॥ १० ॥
अहो
क्षुद्रेण
वाऽनेन
रक्षन्ती
शीलमात्मनः ।
अबन्धुर्भक्षिता
सीता
रावणेन
तपस्विनी ॥ ११ ॥
अथवा
राक्षसेन्द्रस्य
पत्नीभिरसितेक्षणा ।
अदुष्टा
दुष्टभावाभिर्भक्षिता
सा
भविष्यति ॥ १२ ॥
सम्पूर्णचन्द्रप्रतिमं
पद्मपत्रनिभेक्षणम् ।
रामस्य
ध्यायती
वक्त्रं
पञ्चत्वं
कृपणा
गता ॥ १३ ॥
हा
राम
लक्ष्मणेत्येवं
हाऽयोध्ये
चेति
मैथिली ।
विलप्य
बहु
वैदेही
न्यस्तदेहा
भविष्यति ॥ १४ ॥
अथवा
निहिता
मन्ये
रावणस्य
निवेशने ।
नूनं
लालप्यते
सीता
पञ्जरस्थेव
शारिका ॥ १५ ॥
जनकस्य
सुता
सीता
रामपत्नी
सुमध्यमा ।
कथमुत्पलपत्राक्षी
रावणस्य
वशं
व्रजेत् ॥ १६ ॥
विनष्टा
वा
प्रनष्टा
वा
मृता
वा
जनकात्मजा ।
रामस्य
प्रियभार्यस्य
न
निवेदयितुं
क्षमम् ॥ १७ ॥
निवेद्यमाने
दोषः
स्याद्दोषः
स्यादनिवेदने ।
कथन्नु
खलु
कर्तव्यं
विषमं
प्रतिभाति
मे ॥ १८ ॥
अस्मिन्नेवं
गते
कार्ये
प्राप्तकालं
क्षमं
च
किम् ।
भवेदिति
मतं
भूयो
हनुमान्
प्रविचारयत् ॥ १९ ॥
यदि
सीतामदृष्ट्वाऽहं
वानरेन्द्रपुरीमितः ।
गमिष्यामि
ततः
को
मे
पुरुषार्थो
भविष्यति ॥ २० ॥
ममेदं
लङ्घनं
व्यर्थं
सागरस्य
भविष्यति ।
प्रवेशश्चैव
लङ्काया
राक्षसानां
च
दर्शनम् ॥ २१ ॥
किं
मां
वक्ष्यति
सुग्रीवो
हरयो
वा
समागताः ।
किष्किन्धां
समनुप्राप्तं
तौ
वा
दशरथात्मजौ ॥ २२ ॥
गत्वा
तु
यदि
काकुत्स्थं
वक्ष्यामि
परमप्रियम् ।
न
दृष्टेति
मया
सीता
ततस्त्यक्ष्यति
जीवितम् ॥ २३ ॥
परुषं
दारुणं
क्रूरं
तीक्ष्णमिन्द्रियतापनम् ।
सीतानिमित्तं
दुर्वाक्यं
श्रुत्वा
स
न
भविष्यति ॥ २४ ॥
तं
तु
कृच्छ्रगतं
दृष्ट्वा
पञ्चत्वगतमानसम् ।
भृशानुरक्तो
मेधावी
न
भविष्यति
लक्ष्मणः ॥ २५ ॥
विनष्टौ
भ्रातरौ
श्रुत्वा
भरतोऽपि
मरिष्यति ।
भरतं
च
मृतं
दृष्ट्वा
शत्रुघ्नो
न
भविष्यति ॥ २६ ॥
पुत्रान्
मृतान्
समीक्ष्याथ
न
भविष्यन्ति
मातरः ।
कौसल्या
च
सुमित्रा
च
कैकेयी
च
न
संशयः ॥ २७ ॥
कृतज्ञः
सत्यसन्धश्च
सुग्रीवः
प्लवगाधिपः ।
रामं
तथागतं
दृष्ट्वा
ततस्त्यक्ष्यति
जीवितम् ॥ २८ ॥
दुर्मना
व्यथिता
दीना
निरानन्दा
तपस्विनी ।
पीडिता
भर्तृशोकेन
रुमा
त्यक्ष्यति
जीवितम् ॥ २९ ॥
वालिजेन
तु
दुःखेन
पीडिता
शोककर्शिता ।
पञ्जत्वं
च
गते
राज्ञि
तारापि
न
भविष्यति ॥ ३० ॥
मातापित्रोर्विनाशेन
सुग्रीवव्यसनेन
च ।
कुमारोऽप्यङ्गदः
कस्माद्धारयिष्यति
जावितम् ॥ ३१ ॥
भर्तृजेन
तु
दुःखेन
ह्यभिभूता
वनौकसः ।
शिरांस्यभिहनिष्यन्ति
तलैर्मुष्टिभिरेव
च ॥ ३२ ॥
सान्त्वेनानुप्रदानेन
मानेन
च
यशस्विना ।
लालिताः
कपिराजेन
प्राणांस्त्यक्ष्यन्ति
वानराः ॥ ३३ ॥
न
वनेषु
न
शैलेषु
न
निरोधेषु
वा
पुनः ।
क्रीडामनुभविष्यन्ति
समेत्य
कपिकुञ्जराः ॥ ३४ ॥
सपुत्रदाराः
सामात्या
भर्तृव्यसनपीडिताः ।
शैलाग्रेभ्यः
पतिष्यन्ति
समेत्य
विषमेषु
च ॥ ३५ ॥
विषमुद्बन्धनं
वापि
प्रवेशं
ज्वलनस्य
वा ।
उपवासमथो
शास्त्रं
प्रचरिष्यन्ति
वानराः ॥ ३६ ॥
घोरमारोदनं
मन्ये
गते
मयि
भविष्यति ।
इक्ष्वाकुकुलनाशश्च
नाशश्चैव
वनौकसाम् ॥ ३७ ॥
सोऽहं
नैव
गमिष्यामि
किष्किन्धां
नगरीमितः ।
न
च
शक्ष्याम्यहं
द्रष्टुं
सुग्रीवं
मैथिलीं
विना ॥ ३८ ॥
मय्यगच्छति
चेहस्थे
धर्मात्मानौ
महारथौ ।
आशया
तौ
धरिष्येते
वानराश्च
मनस्विनः ॥ ३९ ॥
हस्तादानो
मुखादानो
नियतो
वृक्षमूलिकः ।
वानप्रस्थो
भविष्यामि
ह्यदृष्ट्वा
जनकात्मजाम् ॥ ४० ॥
सागरानूपजे
देशे
बहुमूलफलोदके ।
चितां
कृत्वा
प्रवेक्ष्यामि
समिद्धमरणीसुतम् ॥ ४१ ॥
उपविष्टस्य
वा
सम्यग्
लिङ्गिनीं
साधयिष्यतः ।
शरीरं
भक्षयिष्यन्ति
वायसाः
श्वापदानि
च ॥ ४२ ॥
इदं
महर्षिभिर्दृष्टं
निर्याणमिति
मे
मतिः ।
सम्यगापः
प्रवेक्ष्यामि
न
चेत्पश्यामि
जानकीम् ॥ ४३ ॥
सुजातमूला
सुभगा
कीर्तिमाला
यशस्विनी ।
प्रभग्ना
चिररात्रीयं
मम
सीतामपश्यतः ॥ ४४ ॥
तापसो
वा
भविष्यामि
नियतो
वृक्षमूलिकः ।
नेतः
प्रतिगमिष्यामि
तामदृष्ट्वाऽसितेक्षणाम् ॥ ४५ ॥
यदीतः
प्रतिगच्छामि
सीतामनधिगम्य
ताम् ।
अङ्गदः
सह
तैः
सर्वैर्वानरैर्न
भविष्यति ॥ ४६ ॥
विनाशे
बहवो
दोषा
जीवन्
भद्राणि
पश्यति ।
तस्मात्प्राणान्
धरिष्यामि
ध्रुवो
जीवितसङ्गमः ॥ ४७ ॥
एवं
बहुविधं
दुःखं
मनसा
धारयन्
मुहुः ।
नाध्यगच्छत्तदा
पारं
शोकस्य
कपिकुञ्जरः ॥ ४८ ॥
रावणं
वा
वधिष्यामि
दशग्रीवं
महाबलम् ।
काममस्तु
हृता
सीता
प्रत्याचीर्णं
भविष्यति ॥ ४९ ॥
अथवैनं
समुत्क्षिप्य
उपर्युपरि
सागरम् ।
रामायोपहरिष्यामि
पशुं
पशुपतेरिव ॥ ५० ॥
इति
चिन्तां
समापन्नः
सीतामनधिगम्य
ताम् ।
ध्यानशोकपरीतात्मा
चिन्तयामास
वानरः ॥ ५१ ॥
यावत्सीतां
हि
पश्यामि
रामपत्नीं
यशस्विनीम् ।
तावदेतां
पुरीं
लङ्कां
विचिनोमि
पुनः
पुनः ॥ ५२ ॥
संपातिवचनाच्चापि
रामं
यद्यानयाम्यहम् ।
अपश्यन्
राघवो
भार्यां
निर्दहेत्
सर्ववानरान् ॥ ५३ ॥
इहैव
नियताहारो
वत्स्यामि
नियतेन्द्रियाः ।
न
मत्कृते
विनश्येयुः
सर्वे
ते
नरवानराः ॥ ५४ ॥
अशोकवनिका
चेयं
दृश्यते
या
महाद्रुमा ।
इमामधिगमिष्यामि
न
हीयं
विचिता
मया ॥ ५५ ॥
वसून्
रुद्रांस्तथाऽऽदित्यानश्विनौ
मरुतोऽपि
च ।
नमस्कृत्वा
गमिष्यामि
रक्षसां
शोकवर्धनः ॥ ५६ ॥
जित्वा
तु
राक्षसान्
सर्वानिक्ष्वाकुकुलनन्दिनीम् ।
संप्रदास्यामि
रामाय
यथा
सिद्धिं
तपस्विने ॥ ५७ ॥
स
मुहूर्तमिव
ध्यात्वा
चिन्तावग्रथितेन्द्रियः ।
उदतिष्ठन्महातेजा
हनूमान्
मारुतात्मजः ॥ ५८ ॥
नमोऽस्तु
रामाय
सलक्ष्मणाय
देव्यै
च
तस्यै
जनकात्मजायै ।
नमोऽस्तु
रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु
चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥
स
तेभ्यस्तु
नमस्कृत्य
सुग्रीवस्य
च
मारुतिः ।
दिशः
सर्वाः
समालोक्य
ह्यशोकवनिकां
प्रति ॥ ६० ॥
स
गत्वा
मनसा
पूर्वमशोकवनिकां
शूभाम् ।
उत्तरं
चिन्तयामास
वानरो
मारुतात्मजः ॥ ६१ ॥
ध्रुवं
तु
हक्षोबहुला
भविष्यति
वनाकुला ।
अशोकवनिका
चिन्त्या
सर्वसंस्कारसंस्कृता ॥ ६२ ॥
रक्षिणश्चात्र
विहिता
नूनं
रक्षन्ति
पादपान् ।
भगवानपि
सर्वात्मा
नातिक्षोभं
प्रवाति
वै ॥ ६३ ॥
सङ्क्षिप्तोऽयं
मयाऽऽत्मा
च
रामार्थे
रावणस्य
च ।
सिद्धिं
मे
संविधास्यन्ति
देवाः
सर्षिगणास्त्विह ॥ ६४ ॥
ब्रह्मा
स्वयम्भूर्भगवान्
देवाश्चैव
दिशन्तु
मे ।
सिद्धिमग्निश्च
वायुश्च
पुरुहूतश्च
वज्रभृत् ॥ ६५ ॥
वरुणः
पाशहस्तश्च
सोमादित्यौ
तथैव
च ।
अश्विनौ
च
महात्मानौ
मरुतः
शर्व
एव
च ॥ ६६ ॥
सिद्धिं
सर्वाणि
भूतानि
भूतानां
चैव
यः
प्रभुः ।
दास्यन्ति
मम
ये
चान्ये
ह्यदृष्टाः
पथिगोचराः ॥ ६७ ॥
तदुन्नसं
पाण्डुरदन्तमव्रणं
शुचिस्मितं
पद्मपलाशलोचनम् ।
द्रक्ष्ये
तदार्यावदनं
कदान्वहं
प्रसन्नताराधिपतुल्यदर्शनम् ॥ ६८ ॥
क्षुद्रेण
पापेन
नृशंसकर्मणा
सुदारुणालङ्कृतवेषधारिणा ।
बलाभिभूता
ह्यबला
तपस्विनी
कथं
नु
मे
दृष्टिपथेऽद्य
सा
भवेत् ॥ ६९ ॥