स
मूहर्तमिव
ध्यात्वा
मनसा
चाधिगम्य
ताम् ।
अवप्लुतो
महातेजाः
प्राकारं
तस्य
वेश्मनः ॥ १ ॥
स
तु
संहृष्टसर्वाङ्गः
प्राकारस्थो
महाकपिः ।
पुष्पिताग्रान्
वसन्तादौ
ददर्श
विविधान्
द्रुमान् ॥ २ ॥
सालानशोकान्
भव्यांश्च
चम्पकांश्च
सुपुष्पितान् ।
उद्दालकान्नागवृक्षांश्चूतान्
कपिमुखानपि ॥ ३ ॥
अथाम्रवणसञ्छन्ना
लताशतसमावृताम् ।
ज्यामुक्त
इव
नाराचः
पुप्लुवे
वृक्षवाटिकाम् ॥ ४ ॥
स
प्रविश्य
विचित्रां
तां
विहगैरभिनादिताम् ।
राजतैः
काञ्चनैश्चैव
पादपैः
सर्वतो
वृताम् ॥ ५ ॥
विहगैर्मृगसङ्घैश्च
विचित्रां
चित्रकाननाम् ।
उदितादित्यसङ्काशां
ददर्श
हनुमान्
कपिः ॥ ६ ॥
वृतां
नानाविधैर्वृक्षैः
पुष्पोपगफलोपगैः ।
कौकिलैर्भृङ्गराजैश्च
मत्तैर्नित्यनिषेविताम् ॥ ७ ॥
प्रहृष्टमनुजे
काले
मृगपक्षिसमाकुले ।
मत्तबर्हिणसङ्घुष्टां
नानाद्विजगणायुताम् ॥ ८ ॥
मार्गमाणो
वरारोहां
राजपुत्रीमनिन्दिताम् ।
सुखप्रसुप्तान्
विहगान्
बोधयामास
वानरः ॥ ९ ॥
उत्पतद्भिर्द्विजगणैः
पक्षैः
सालाः
समाहताः ।
अनेकवर्णा
विविधा
मुमुचुः
पुष्पवृष्टयः ॥ १० ॥
पुष्पावकीर्णः
शुशुभे
हनुमान्
मारुतात्मजः ।
अशोकवनिकामध्ये
यथा
पुष्पमयो
गिरिः ॥ ११ ॥
दिशः
सर्वाः
प्रधावन्तं
वृक्षषण्डगतं
कपिम् ।
दृष्ट्वा
सर्वाणि
भूतानि
वसन्त
इति
मेनिरे ॥ १२ ॥
वृक्षेभ्यः
पतितैः
पुष्पैरवकीर्णा
पृथग्विधैः ।
रराज
वसुधा
तत्र
प्रमदेव
विभूषिता ॥ १३ ॥
तरस्विना
ते
तरवस्तरसाऽभिप्रकम्पिताः ।
कुसुमानि
विचित्राणि
ससृजुः
कपिना
तदा ॥ १४ ॥
निर्धूतपत्रशिखराः
शीर्णपुष्पफलद्रुमाः ।
निक्षिप्तवस्त्राभरणा
धूर्ता
इव
पराजिताः ॥ १५ ॥
हनूमता
वेगवता
कम्पितास्ते
नगोत्तमाः ।
पुष्पपर्णफलान्याशु
मुमुचुः
पुष्पशालिनः ॥ १६ ॥
विहङ्गसङ्घैर्हीनास्ते
स्कन्धमात्राश्रया
द्रुमाः ।
बभूवुरगमाः
सर्वे
मारुतेनेव
निर्धुताः ॥ १७ ॥
निर्धूतकेशी
युवतिर्यथा
मृदितवर्णका ।
निष्पीतशुभदन्तोष्ठी
नखैर्दन्तैश्च
विक्षिता ॥ १८ ॥
तथा
लाङ्गूलहस्तैश्च
चरणाभ्यां
च
मर्दिता ।
बभूवाशोकवनिका
प्रभग्नवरपादपा ॥ १९ ॥
महालतानां
दामानि
व्यधमत्तरसाकपिः ।
यथा
प्रावृषि
विन्ध्यस्य
मेघजालानि
मारुतः ॥ २० ॥
स
तत्र
मणिभूमीश्च
राजतीश्च
मनोरमाः ।
तथा
काञ्चनभूमीश्च
ददर्श
विचरन्
कपिः ॥ २१ ॥
वापीश्च
विविधाकाराः
पूर्णाः
परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥
मुक्ताप्रवालसिकताः
स्फाटिकान्तरकुट्टिमाः ।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसङ्घुष्टा
हंससारसनादिताः ॥ २४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः
सरिद्भिश्च
समन्ततः ।
अमुतोपमतोयाभिः
शिवाभिरुपसंस्कृताः ॥ २५ ॥
लताशतैरवतताः
सन्तानकसमावृताः ।
नानागुल्मावृतघनाः
करवीरकृतान्तराः ॥ २६ ॥
ततोऽम्बुधरसङ्काशं
प्रवृद्धशिखरं
गिरिम् ।
विचित्रकूटं
कूटैश्च
सर्वतः
परिवारितम् ॥ २७ ॥
शिलागृहैरवततं
नानावृक्षैः
समावृतम् ।
ददर्श
हरिशार्दूलो
रम्यं
जगति
पर्वतम् ॥ २८ ॥
ददर्श
च
नगात्तस्मान्नदीं
निपतितां
कपिः ।
अङ्कादिव
समुत्पत्य
प्रियस्य
पतितां
प्रियाम् ॥ २९ ॥
जले
निपतिताग्रैश्च
पादपैरुपशोभिताम् ।
वार्यमाणामिव
क्रुद्धां
प्रमदां
प्रियबन्धुभिः ॥ ३० ॥
पुनरावृत्ततोयां
च
ददर्श
स
महाकपिः ।
प्रसन्नामिव
कान्तस्य
कान्तां
पुनरुपस्थिताम् ॥ ३१ ॥
तस्यादूरात्स
पद्मिन्यो
नानाद्विजगणायुताः ।
ददर्श
हरिशार्दूलो
हनुमान्
मारुतात्मजः ॥ ३२ ॥
कृत्रिमां
दीर्घिकां
चापि
पूर्णां
शीतेन
वारिणा ।
मणिप्रवरसोपानां
मुक्तासिकतशोभिताम् ॥ ३३ ॥
विविधैर्मृगसङ्घैश्च
विचित्रां
चित्रकाननाम् ।
प्रासादैः
सुमहद्भिश्च
निर्मितैर्विश्वकर्मणा ॥ ३४ ॥
काननैः
कृत्रिमैश्चापि
सर्वतः
समलङ्कृताम् ।
ये
केचित्
पादपास्तत्र
पुष्पोपगफलोपगाः ॥ ३५ ॥
सच्छत्राः
सवितर्दीकाः
सर्वे
सौवर्णवेदिकाः ।
काञ्चनीं
शिंशुपामेकां
ददर्श
हनुमान्
कपिः ॥ ३६ ॥
वृतां
हेममयीभिस्तु
वेदिकाभिः
समन्ततः ।
सोऽपश्यद्भूमिभागांश्च
गर्तप्रस्रवणानि
च ॥ ३७ ॥
सुवर्णवृक्षानपरान्
ददर्श
शिखिसन्निभान् ।
तेषां
द्रुमाणां
प्रभया
मेरोरिव
दिवाकरः ॥ ३८ ॥
अमन्यत
तदा
वीरः
काञ्चनोऽस्मीति
वानरः ।
तां
काञ्चनैस्तरुगणैर्मारुतेन
च
वीजिताम् ॥ ३९ ॥
किङ्किणीशतनिर्घोषां
दृष्ट्वा
विस्मयमागमत् ।
स
पुष्पिताग्रां
रुचिरां
तरुणाङ्कुरपल्लवाम् ॥ ४० ॥
तामारुह्य
महाबाहुः
शिंशुपां
पर्णसंवृताम् ।
इतो
द्रक्ष्यामि
वैदेहीं
रामदर्शनलालसाम् ॥ ४१ ॥
इतश्चेतश्च
दुःखार्तां
सम्पतन्तीं
यदृच्छया ।
अशोकवनिका
चेयं
दृढं
रम्या
दुरात्मनः ॥ ४२ ॥
चम्पकैश्चन्दनैश्चापि
वकुलैश्च
विभूषिता ।
इयं
च
नलिनी
रम्या
द्विजसङ्घनिषेविता ॥ ४३ ॥
इमां
सा
राममहिषी
नूनमेष्यति
जानकी ।
सा
रामा
राममहिषी
राघवस्य
प्रिया
सती ॥ ४४ ॥
वनस़ञ्चारकुशला
नूनमेष्यति
जानकी ।
अथवा
मृगशावाक्षी
वनस्यास्य
विचक्षणा ॥ ४५ ॥
वनमेष्यति
साऽऽर्येह
रामचिन्तानुकर्शिता ।
रामशोकाभिसन्तप्ता
सा
देवी
वामलोचना ॥ ४६ ॥
वनवासे
रता
नित्यमेष्येत
वनचारिणी ।
वनेचराणां
सततं
नूनं
स्पृहयते
पुरा ॥ ४७ ॥
रामस्य
दयिता
भार्या
जनकस्य
सुता
सती ।
सन्ध्याकालमनाः
श्यामा
ध्रुवमेष्यति
जानकी ॥ ४८ ॥
नदीं
चेमां
शिवजलां
सन्ध्यार्थे
वरवर्णिनी ।
तस्याश्चाप्यनुरूपेयमशोकवनिका
शुभा ॥ ४९ ॥
शुभा
या
पार्थिवेन्द्रस्य
पत्नी
रामस्य
सम्मता ।
यदि
जीवति
सा
देवी
ताराधिपनिभानना ॥ ५० ॥
आगमिष्यति
साऽवश्यमिमां
शिवजलां
नदीम् ।
एवं
तु
मत्वा
हनुमान्
महात्मा
प्रतीक्षमाणो
मनुजेन्द्रपत्नीम् ॥ ५१ ॥
अवेक्षमाणश्च
ददर्श
सर्वं
सुपुष्पिते
पर्णघने
निलीनः ॥ ५२ ॥