स
वीक्षमाणस्तत्रस्थो
मार्गमाणश्च
मैथिलीम् ।
अवेक्षमाणश्च
महीं
सर्वां
तामन्ववैक्षत ॥ १ ॥
सन्तानकलताभिश्च
पादपैरुशोभिताम् ।
दिव्यगन्धरसोपेतां
सर्वतः
समलङ्कृताम् ॥ २ ॥
तां
स
नन्दनसङ्काशां
मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसंवाधां
कोकिलाकुलनिस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां
बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमैः
रम्यां
फलवद्भिश्च
पादपैः ।
पुष्पितानामशोकानां
श्रिया
सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव
तत्रस्थो
मारुतिः
समुदैक्षत ।
निष्पत्रशाखां
विहगैः
क्रियमाणामिवासकृत् ॥ ६ ॥
विनिष्पितद्भिः
शतशश्चित्रैः
पुष्पावतंसकैः ।
आमूलपुष्पनिचितैरशोकैः
शोकनाशनैः ॥ ७ ॥
पुष्पभारातिभारैश्च
स्पृशद्भिरिव
मेदिनीम् ।
कर्णिकारैः
कुसुमितैः
किंशुकैश्च
सुपुष्पितैः ॥ ८ ॥
स
देशः
प्रभया
तेषां
प्रदीप्त
इव
सर्वतः ।
पुन्नागाः
सप्तपर्णाश्च
चम्पकोद्दालकास्तथा ॥ ९ ॥
शातकुम्भनिभाः
केचित्
केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाः
केचित्तत्राशोकाः
सहस्रशः ॥ १० ॥
नन्दनं
विविधोद्यानं
चित्रं
चैत्ररथं
यथा ।
अतिवृत्तमिवाचिन्त्यं
दिव्यं
रम्यं
श्रियावृतम् ॥ ११ ॥
द्वितीयमिव
चाकाशं
पुष्पज्योतिर्गणायुतम् ।
पुष्परत्नशतैश्चित्रं
पञ्चमं
सागरं
यथा ॥ १२ ॥
सर्वर्तुपुष्पैर्निचितं
पादपैर्मधुगन्धिभिः ।
नानानिनादैरुद्यानं
रम्यं
मृगगणैर्द्विजैः ॥ १३ ॥
अनेकग्रन्धप्रवहं
पुण्यगन्धं
मनोरमम् ।
शैलेन्द्रमिव
गन्धाढ्यं
द्वितीयं
गन्धमादनम् ॥ १४ ॥
अशोकवनिकायां
तु
तस्यां
वानरपुङ्गवः ।
स
ददर्शाविदूरस्थं
चैत्यप्रासादमुच्छ्रितम् ॥ १५ ॥
मध्ये
स्तम्भसहस्रेण
स्थितं
कैलासपाण्डुरम् ।
प्रवालकृतसोपानं
तप्तकाञ्जनवेदिकम् ॥ १६ ॥
मुष्णन्तमिव
चक्षूंषि
द्योतमानमिव
श्रिया ।
विमलं
प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥
ततो
मलिनसंवीतां
राक्षसीभिः
समावृताम् ।
उपवासकृशां
दीनां
निःश्वसन्तीं
पुनः
पुनः ॥ १८ ॥
ददर्श
शुक्लपक्षादौ
चन्द्ररेखामिवामलाम् ।
मन्दं
प्रख्यायमानेन
रूपेण
रुचिरप्रभाम् ॥ १९ ॥
पिनद्धां
धूमजालेन
शिखामिव
विभावसोः ।
पीतेनैकेन
संवीतां
क्लिष्टेनोत्तमवाससा ॥ २० ॥
सपङ्कामनलङ्कारां
विपद्मामिव
पद्मिनीम् ।
व्रीडितां
दुःखसन्तप्तां
परिम्लानां
तपस्विनीम् ॥ २१ ॥
ग्रहेणाङ्गारकेणेव
पीडितामिव
रोहिणीम् ।
अश्रुपर्णमुखीं
दीनां
कृशामनशनेन
च ॥ २२ ॥
शोकध्यानपरां
दीनां
नित्यं
दुःखपरायणाम् ।
प्रियं
जनमपश्यन्तीं
पश्यन्तीं
राक्षसीगणम् ॥ २३ ॥
स्वगणेन
मृगीं
हीनां
श्वगणाभिवृतामिव ।
नीलनागाभया
वेण्या
जघनं
गतयैकया ॥ २४ ॥
नीलया
नीरदापाये
वनराज्या
महीमिव ।
सुखार्हां
दुःखसन्तप्तां
व्यसनानामकोविदाम् ॥ २५ ॥
तां
समीक्ष्य
विशालाक्षीमधिकं
मलिनां
कृशाम् ।
तर्कयामास
सीतेति
कारणैरुपपादिभिः ॥ २६ ॥
ह्रियमाणा
तदा
तेन
रक्षसा
कामरूपिणा ।
यथारूपा
हि
दृष्टा
वै
तथारूपेयमङ्गना ॥ २७ ॥
पूर्णचन्द्राननां
सुभ्रूं
चारुवृत्तपयोधराम् ।
कुर्वन्तीं
प्रभया
देवीं
सर्वावितिमिरा
दिशः ॥ २८ ॥
तां
नीलकेशीं
बिम्बोष्ठीं
सुमघ्यां
सुप्रतिष्ठिताम् ।
सीतां
पद्मपलाशाक्षीं
मन्मथस्य
रतिं
यथा ॥ २९ ॥
इष्टां
सर्वस्य
जगतः
पूर्णचन्द्रप्रभामिव ।
भूमौ
सुतनुमासीनां
नियतामिव
तापसीम् ॥ ३० ॥
निश्वासबहुलां
भीरुं
भुजगेन्द्रवधूमिव ।
शोकजालेन
महता
विततेन
न
राजतीम् ॥ ३१ ॥
संसक्तां
धूमजालेन
शिखामिव
विभावसोः ।
तां
स्मृतीमिव
सन्दिग्धामृद्धिं
निपतितामिव ॥ ३२ ॥
विहतामिव
च
श्रद्धामाशां
प्रतिहतामिव ।
सोपसर्गां
यथा
सिद्धिं
बुद्धिं
सकलुषामिव ॥ ३३ ॥
अभूतेनापवादेन
कीर्तिं
निपतितामिव ।
रामोपरोधव्यथितां
रक्षोहरणकर्शिताम् ॥ ३४ ॥
अबलां
मृगशावाक्षीं
वीक्षमाणां
ततस्ततः ।
बाष्पाम्बुपरिपूर्णेन
कृष्णवक्राक्षिपक्ष्मणा ॥ ३५ ॥
वदनेनाप्रसन्नेन
निःश्वसन्तीं
पुनःपुनः ।
मलपङ्कधरां
दीनां
मण्डनार्हाममण्डिताम् ॥ ३६ ॥
प्रभां
नक्षत्रराजस्य
कालमेघैरिवावृताम् ।
तस्य
सन्दिदिहे
बुद्धिर्मुहुः
सीतां
निरीक्ष्य
तु ॥ ३७ ॥
आम्नायानामयोगेन
विद्यां
प्रशिथिलामिव ।
दुःखेन
बुबुधे
सीतां
हनुमाननलङ्कृताम् ॥ ३८ ॥
संस्कारेण
यथा
हीनां
वाचमर्थान्तरं
गताम् ।
तां
समीक्ष्य
विशालाक्षीं
राजपुत्रीमनिन्दिताम् ॥ ३९ ॥
तर्कयामास
सीतेति
कारणैरुपपादिभिः ।
वैदेह्या
यानि
चाङ्गेषु
तदा
रामोऽन्वकीर्तयत् ॥ ४० ॥
तान्याभरणजालानि
शाखाशोभीन्यलक्षयत् ।
मणिविद्रुमचित्राणि
हस्तेष्वाभरणानि
च ॥ ४१ ॥
श्यामानि
चिरयुक्तत्वात्तथा
संस्थानवन्ति
च ।
तान्येवैतानि
मन्येऽहं
यानि
रामोऽन्वकीर्तयत् ॥ ४२ ॥
तत्र
यान्यवहीनानि
तान्यहं
नोपलक्षये ।
यान्यस्या
नावहीनानि
तानीमानि
न
संशयः ॥ ४३ ॥
पीतं
कनकपट्टाभं
स्रस्तं
तद्वसनं
शुभम् ।
उत्तरीयं
नगासक्तं
तदा
दृष्टं
प्लवङ्गमैः ॥ ४४ ॥
भूषणानि
च
मुख्यानि
दृष्टानि
धरणीतले ।
अनयैवापविद्धानि
स्वनवन्ति
महान्ति
च ॥ ४५ ॥
इदं
चिरगृहीतत्वाद्वसनं
क्लिष्टवत्तरम् ।
तथापि
नूनं
तद्वर्णं
तथा
श्राद्यथेतरत् ॥ ४६ ॥
इयं
कनकवर्णाङ्गी
रामस्य
महिषी
प्रिया ।
प्रनष्टापि
सती
याऽस्य
मनसो
न
प्रणश्यति ॥ ४७ ॥
इयं
सा
यत्कृते
रामश्चतुर्भिः
परितप्यते ।
कारुण्येनानृशंस्येन
शोकेन
मदनेन
च ॥ ४८ ॥
स्त्री
प्रनष्टेति
कारुण्यादाश्रितेत्यानृशंस्यतः ।
पत्नी
नष्टेति
शोकेन
प्रियेति
मदनेन
च ॥ ४९ ॥
अस्या
देव्या
यथा
रूपमङ्गप्रत्यङ्गसौष्ठवम् ।
रामस्य
च
यथारूपं
तस्येयमसितेक्षणा ॥ ५० ॥
अस्या
देव्या
मनस्तस्मिंस्तस्य
चास्यां
प्रतिष्ठितम् ।
तेनेयं
स
च
धर्मात्मा
मुहूर्तमपि
जीवति ॥ ५१ ॥
दुष्करं
कृतवान्
रामो
हीनो
यदनया
प्रभुः ।
धारयत्यात्मनो
देहं
न
शोकेनावसीदति ॥ ५२ ॥
दुष्करं
कुरुते
रामो
य
इमां
मत्तकाशिनीम् ।
सीतां
विना
महाबाहुर्मुहूर्तमपि
जीवति ॥ ५३ ॥
एवं
सीतां
तदा
दृष्ट्वा
हृष्टः
पवनसंभवः ।
जगाम
मनसा
रामं
प्रशशंस
च
तं
प्रभुम् ॥ ५४ ॥