प्रशस्य
तु
प्रशस्तव्यां
सीतां
तां
हरिपुङ्गवः ।
गुणाभिरामं
रामं
च
पुनश्चिन्तापरोऽभवत् ॥ १ ॥
स
मुहूर्तमिव
ध्यात्वा
बाष्पपर्याकुलेक्षणः ।
सीतामाश्रित्य
तेजस्वी
हनुमान्
विललाप
ह ॥ २ ॥
मान्या
गुरुविनीतस्य
लक्ष्मणस्य
गुरुप्रिया ।
यदि
सीतापि
दुःखार्ता
कालो
हि
दुरतिक्रमः ॥ ३ ॥
रामस्य
व्यवसायज्ञा
लक्ष्मणस्य
च
धीमतः ।
नात्यर्थं
क्षुभ्यते
देवी
गङ्गेव
जलदागमे ॥ ४ ॥
तुल्यशीलवयोवृत्तां
तुल्याभिजनलक्षणाम् ।
राघवोऽर्हति
वैदेहीं
तं
चेयमसितेक्षणा ॥ ५ ॥
तां
दृष्ट्वा
नवहेमाभां
लोककान्तामिव
श्रियम् ।
जगाम
मनसा
रामं
वचनं
चेदमब्रवीत् ॥ ६ ॥
अस्या
हेतोर्विशालाक्ष्या
हतो
वाली
महाबलः ।
रावणप्रतिमो
वीर्ये
कबन्धश्च
निपातितः ॥ ७ ॥
विराधश्च
हतः
सङ्ख्ये
राक्षसो
भीमविक्रमः ।
वने
रामेण
विक्रम्य
महेन्द्रेणेव
शम्बरः ॥ ८ ॥
चतुर्दश
सहस्रीणि
रक्षसां
भीमकर्मणाम् ।
निहतानि
जनस्थाने
शरैरग्निशिखोपमैः ॥ ९ ॥
खरश्च
निहतः
सङ्ख्ये
त्रिशिराश्च
निपातितः ।
दूषणश्च
महातेजा
रामेण
विदितात्मना ॥ १० ॥
ऐश्वर्यं
वानराणां
च
दुर्लभं
वालिपालितम् ।
अस्या
निमित्ते
सुग्रीवः
प्राप्तवान्
लोकसत्कृतम् ॥ ११ ॥
सागरश्च
मया
क्रान्तः
श्रीमान्नदनदीपतिः ।
अस्या
होतोर्विशालाक्ष्याः
पुरी
चेयं
निरीक्षिता ॥ १२ ॥
यदि
रामः
समुद्रान्तां
मेदिनीं
परिवर्तयेत्त् ।
अस्याः
कृते
जगच्चापि
युक्तमित्येव
मे
मतिः ॥ १३ ॥
राज्यं
वा
त्रिषु
लोकेषु
सीता
वा
जनकात्मजा ।
त्रैलोक्यराज्यं
सकलं
सीताया
नाप्नुयात्
कलाम् ॥ १४ ॥
इयं
सा
धर्मशीलस्य
मैथिलस्य
महात्मनः ।
सुता
जनकराजस्य
सीता
भर्तृदृढव्रता ॥ १५ ॥
उत्थिता
मेदिनीं
भित्त्वा
क्षेत्रे
हलमुखक्षते ।
पद्मरेणुनिभैः
कीर्णा
शुभैः
केदारपांसुभिः ॥ १६ ॥
विक्रान्तस्यार्यशीलस्य
संयुगेष्वनिवर्तिनः ।
स्नुषा
दशरथस्यैषा
ज्येष्ठा
राज्ञो
यशस्विनी ॥ १७ ॥
धर्मज्ञस्य
कृतज्ञस्य
रामस्य
विदितात्मनः ।
इयं
सा
दयिता
भार्या
राक्षसीवशमागता ॥ १८ ॥
सर्वान्
भोगान्
परित्यज्य
भर्तृस्नेहबलात्कृता ।
अचिन्तयित्वा
दुःखानि
प्रविष्टा
निर्जनं
वनम् ॥ १९ ॥
सन्तुष्टा
फलमूलेन
भर्तृशुश्रूषणे
रता ।
या
परां
भजते
प्रीतिं
वनेऽपि
भवने
यथा ॥ २० ॥
सेयं
कनकवर्णाङ्गी
नित्यं
सुस्मितभाषिणी ।
सहते
यातनामेतामनर्थानामभागिनी ॥ २१ ॥
इमां
तु
शीलसम्पन्नां
द्रष्टुमर्हति
राघवः ।
रावणेन
प्रमथितां
प्रपामिव
पिपासितः ॥ २२ ॥
अस्या
नूनं
पुनर्लाभाद्राघवः
प्रीतिमेष्यति ।
राजा
राज्यपरिभ्रष्टः
पुनः
प्राप्येव
नेदिनीम् ॥ २३ ॥
कामभोगैः
परित्यक्ता
हीना
बन्धुजनेन
च ।
धारयत्यात्मनो
देहं
तत्समागमकाङ्क्षिणी ॥ २४ ॥
नैषा
पश्यति
राक्षस्यो
नेमान्
पुष्पफलद्रुमान् ।
एकस्थहृदया
नूनं
राममेवानुपश्यति ॥ २५ ॥
भर्ता
नाम
परं
नार्या
भूषणं
भूषणादपि ।
एषा
तु
रहिता
तेन
भूषणार्हा
न
शोभते ॥ २६ ॥
दुष्करं
कुरुते
रामो
हीनो
यदनया
प्रभुः ।
धारयत्यात्मनो
देहं
न
दुःखेनावसीदति ॥ २७ ॥
इमामसितकेशान्तां
शतपत्रनिभेक्षणाम् ।
सुखार्हां
दुःखितां
दृष्ट्वा
ममापि
व्यथितं
मनः ॥ २८ ॥
क्षितिक्षमापुष्करसन्निभाक्षी
या
रक्षिता
राघवलक्ष्मणाभ्याम् ।
सा
राक्षसीभिर्विकृतेक्षणाभिः
संरक्ष्यते
संप्रति
वृक्षमूले ॥ २९ ॥
हिमहतनलिनीव
नष्टशोभा
व्यसनपरम्परयाऽतिपीड्यामाना ।
सहचररहितेव
चक्रवाकी
जनकसुता
कृपणां
दशां
प्रपन्ना ॥ ३० ॥
अस्या
हि
पुष्पवनताग्रशाखाः
शोकं
दृढं
वै
जनयन्त्यशोकाः ।
हिमव्यपायेन
च
मन्दरश्मिरभ्युत्थितो
नैकसहस्ररश्मिः ॥ ३१ ॥
इत्येवमर्थं
कपिरन्ववेक्ष्य
सीतेयमित्येव
निविष्टबुद्धिः ।
संश्रित्य
तस्मिन्निषसाद
वृक्षे
बली
हरीणामृषभस्तरवस्वी ॥ ३२ ॥