ततः
कुमुदषण्डाभो
निर्मलो
निर्मलं
स्वयम् ।
प्रजगाम
नभश्चन्द्रो
हंसो
नीलमिवोदकम् ॥ १ ॥
साचिव्यमिव
कुर्वन्
स
प्रभया
निर्मलप्रभः ।
चन्द्रमा
रश्मिभिः
शीतैः
सिषेवे
पवनात्मजम् ॥ २ ॥
स
ददर्श
ततः
सीतां
पूर्णचन्द्रनिभाननाम् ।
शोकभारैरिव
न्यस्तां
भारैर्नावमिवाम्भसि ॥ ३ ॥
दिदृक्षमाणो
वैदेहीं
हनुमान्
मारुतात्मजः ।
स
ददर्शाविदूरस्था
राक्षसीर्घोरदर्शनाः ॥ ४ ॥
एकाक्षीमेककर्णां
च
कर्णप्रावराणां
तथा ।
अकर्णां
शङ्कुकर्णां
च
मस्तकीच्छ्वासनासिकाम् ॥ ५ ॥
अतिकायोत्तमाङ्गीं
च
तनुदार्घशिरोधराम् ।
ध्वस्तकेशीं
तथाऽकेशीं
केशकम्बलधारिणीम् ॥ ६ ॥
लम्बकर्णललाटां
च
लम्बोदरपयोधराम् ।
लम्बोष्ठीं
चुबुकोष्ठीं
च
लम्बास्यां
लम्बजानुकाम् ॥ ७ ॥
ह्रस्वदीर्घां
तथा
कुब्जां
विकटां
वामनां
तथा ।
करालां
भुग्नवक्त्रां
च
पिङ्गाक्षीं
विकृताननाम् ॥ ८ ॥
विकृताः
पिङ्गलाः
कालीः
क्रोधनाः
कलहप्रियाः ।
कालायसमहाशूलकृटमुद्गरधारिणीः ॥ ९ ॥
वराहमृगशार्दूलमहिषाजशिवामुखीः ।
गजोष्ट्रहयपादीश्च
निखातशिरसोऽपराः ॥ १० ॥
एकहस्तैकपादाश्च
खरकर्ण्यः
श्वकर्णिकाः ।
गोकर्णीर्हस्तिकर्णीश्च
हरिकर्णीस्तथाऽपराः ॥ ११ ॥
अनासा
अतिनासाश्च
तिर्यङ्नासा
विनासिकाः ।
गजसन्निभनासाश्च
ललाटोच्छ्वासनासिकाः ॥ १२ ॥
हस्तिपादा
महापादा
गोपादाः
पादचूडिकाः ।
अतिमात्रशिरोग्रीवा
अतिमात्रकुचोदरीः ॥ १३ ॥
अतिमात्रास्यनेत्रश्च
दीर्घजिह्वानखास्तथा ।
अजामुखीर्हस्तिमुखीर्गोमुखीः
सूकरीमुखीः ॥ १४ ॥
हयोष्ट्रखरवक्त्राश्च
राक्षसीर्घोरदर्शनाः ।
शूलमुद्गरहस्ताश्च
क्रोधनाः
कलहप्रियाः ॥ १५ ॥
कराला
धूम्रकेशीश्च
राक्षसीर्विकृताननाः ।
पिबन्तीः
सततं
पानं
सदा
मांससुराप्रियाः ॥ १६ ॥
ता
ददर्श
कपिश्रेष्ठो
सोमहर्षणदर्शनाः ।
स्कन्धवन्तमुपासीनाः
परिवार्य
वनस्पतिम् ॥ १७ ॥
तस्याधस्ताच्च
तां
देवीं
राजपुत्रीमनिन्दिताम् ।
लक्षयामास
लक्ष्मीवान्
हनुमान्
जनकात्मजाम् ॥ १८ ॥
निष्प्रभां
शोकसन्तप्तां
मलसङ्कुलमूर्धजाम् ।
क्षीणपुण्यां
च्युतां
भूमौ
तारां
निपतितामिव ॥ १९ ॥
चारित्रव्यपदेशाढ्यां
भर्तृदर्शनदुर्गताम् ।
भूषणैरुत्तमैर्हीनां
भर्तृवात्सल्यभूषणाम् ॥ २० ॥
राक्षसाधिपसंरुद्धां
बन्धुभिश्च
विनाकृताम् ।
चन्द्ररेखां
पयोदान्ते
शारदाभ्रैरिवावृताम् ॥ २१ ॥
क्लुष्टरूपामसंस्पर्शादयुक्तामिव
वल्लकीम् ।
सीतां
भर्तृवशे
युक्तामयुक्तां
राक्षसीवशे ॥ २२ ॥
अशोकवनिकामध्ये
शोकसागरमाप्लुताम् ।
ताभिः
परिवृतां
तत्र
सग्रहामिव
रोहिणीम् ॥ २३ ॥
सा
मलेन
च
दिग्धाङ्गी
वपुषा
चाप्यलङ्कृता ।
मृणाली
पङ्कदिग्धेव
विभाति
न
विभाति
च ॥ २४ ॥
मलिनेन
तु
वस्त्रेण
परिक्लिष्टेन
भामिनीम् ।
तां
देवीं
दीनवदनामदीनां
भर्तृतेजसा ॥ २५ ॥
रक्षितां
स्वेन
शीलेन
सीतामसितलोचनाम् ।
तां
दृष्ट्वा
हनुमान्
सीतां
मृगशावनिभेक्षणाम् ॥ २६ ॥
मृगकन्यामिव
त्रस्तां
वीक्षमाणां
समन्ततः ।
दहन्तीमिव
निःश्वासैर्वृक्षान्
पल्लवधारिणः ॥ २७ ॥
ता
क्षमां
सुविभक्ताङ्गीं
विनाभरणशोभिनीम् ।
प्रहर्षमतुलं
लेभे
मारुतिः
प्रेक्ष्य
मैथिलीम् ॥ २८ ॥
मुमोच
हनुमांस्तत्र
नमश्चक्रे
च
राघवम् ।
कारकविभक्तेर्बलीयस्त्वान्नमस्करोति
देवानित्यादाविव
द्वितीया ॥ २९ ॥
नमस्कृत्वा
स
रामाय
लक्ष्मणाय
च
वीर्यवान् ।
सीतादर्शनसंहृष्टो
हनुमान्
संवृतोऽभवत् ॥ ३० ॥