तथा
विप्रेक्षमाणस्य
वनं
पुष्पितपादपम् ।
विचिन्वतश्च
वैदेहीं
किञ्चिच्छेषा
निशाऽभवत् ॥ १ ॥
षडङ्गवेदविदुषां
क्रतुप्रवरयाजिनाम् ।
शुश्राव
ब्रह्मघोषांश्च
विरात्रे
ब्रह्मरक्षसाम् ॥ २ ॥
अथ
मङ्गलवादित्रैः
शब्दैः
श्रोत्रमनोहरैः ।
प्राबुध्यत
महाबाहुर्दशग्रीवो
महाबलः ॥ ३ ॥
विबुध्य
तु
यथाकाले
राक्षसेन्द्रः
प्रतापवान् ।
स्रस्तमाल्याम्बरधरो
वैदेहीमन्वचिन्तयत् ॥ ४ ॥
भृशं
नियुक्तस्तस्यां
च
मदनेन
मदोत्कटः ।
न
स
तं
राक्षसः
कामं
शशाकात्मनि
गूहितुम् ॥ ५ ॥
स
सर्वाभरणैर्युक्तो
बिभ्रच्छ्रियमनुत्तमाम् ।
तां
नगैर्बहुभिर्जुष्टां
सर्वपुष्पफलोपगैः ॥ ६ ॥
वृतां
पुष्करिणीभिश्च
नानापुष्पोपशोभिताम् ।
सदामदैश्च
विहगैर्विचित्रां
परमाद्भुताम् ॥ ७ ॥
ईहामृगैश्च
विविधैर्जुष्टां
दृष्टिमनोहरैः ।
वीथीः
संप्रेक्षमाणश्च
मणिकाञ्चनतोरणाः ॥ ८ ॥
नानामृगगणाकीर्णां
फलैः
प्रपतितैर्वृताम् ।
अशोकवनिकामेव
प्राविशत्
सन्ततद्रुमाम् ॥ ९ ॥
अङ्गनाशतमात्रं
तु
तं
व्रजन्तामनुव्रजत् ।
महेन्द्रमिव
पौलस्त्यं
देवगन्धर्वयोषितः ॥ १० ॥
दीपिकाः
काञ्चनीः
काश्चिज्जगृहृस्तत्र
योषितः ।
वालव्यजनहस्ताश्च
तालवृन्तानि
चापराः ॥ ११ ॥
काञ्चनैरपि
भृङ्गारैर्जहुः
सलिलमग्रतः ।
मण्डलाग्रान्
बृसीं
चैव
गृह्यान्याः
पृष्ठतो
ययुः ॥ १२ ॥
काचिद्रत्नमयीं
स्थालीं
पूर्णां
पानस्य
भामिना ।
दक्षिणा
दक्षिणेनैव
तदा
जग्राह
पाणिना ॥ १३ ॥
राजहंसप्रतीकाशं
छत्रं
पूर्णशशिप्रभम् ।
सौवर्णदण्डमपरा
गृहीत्वा
पृष्ठतो
ययौ ॥ १४ ॥
निद्रामदपरीताक्ष्यो
रावणस्योत्तमाः
स्त्रियः ।
अनुजग्मुः
पतिं
वीरं
धनं
विद्युल्लता
इव ॥ १५ ॥
व्याविद्धहारकेयूराः
समामृदितवर्णकाः ।
समागलितकेशान्ताः
सस्वेदवदनास्तथा ॥ १६ ॥
घूर्णन्त्यो
मदशेषेण
निद्र्या
च
शुभाननाः ।
स्वेदक्लिष्टाङ्गकुसुमाः
सुमाल्याकुलमूर्धजाः ॥ १७ ॥
प्रयान्तं
नैर्ऋतपतिं
नार्यो
मदिरलोचनाः ।
बहुमानाच्च
कामाच्च
प्रिया
भार्यास्तमन्वयुः ॥ १८ ॥
स
च
कामपराधीनाः
पतिस्तासां
महाबलः ।
सीतासक्तमना
मन्दो
मदाञ्चितगतिर्बभौ ॥ १९ ॥
ततः
काञ्चीनिनादं
च
नूपुराणां
च
निःस्वनम् ।
शुश्राव
परमस्त्रीणां
स
कपिर्मारुतात्मजः ॥ २० ॥
तं
चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं
ददर्श
हनुमान्
कपिः ॥ २१ ॥
दीपिकाभिरनेकाभिः
समन्तादवभासितम् ।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ २२ ॥
कामदर्पमदैर्युक्तं
जिह्मताम्रायतेक्षणम् ।
समक्षमिव
कन्दर्पमपविद्धशरासनम् ॥ २३ ॥
मथितामृतफेनाभमरजो
वस्त्रमुत्तमम् ।
सलीलमनुकर्षन्तं
विमुक्तं
सक्तमङ्गदे ॥ २४ ॥
तं
पत्रविटपे
लीनः
पत्रपुष्पघनावृतः ।
समीपमिव
सङ्क्रान्तं
निध्यातुमुपचक्रमे ॥ २५ ॥
अवेक्षमाणस्तु
ततो
ददर्श
कपिकुञ्जरः ।
रूपयौवनसम्पन्ना
रावणस्य
वरस्त्रियः ॥ २६ ॥
ताभिः
परिवृतो
राजा
सुरूपाभिर्महायशाः ।
तन्मृगद्विजसंवुष्टं
प्रविष्टः
प्रमदावनम् ॥ २७ ॥
क्षीबो
विचित्राभरणः
शङ्कुकर्णो
महाबलः ।
तेन
विश्रवसः
पुत्रः
स
दृष्टो
राक्षसाधिपः ॥ २८ ॥
वृतः
परमनारीभिस्ताराभिरिव
चन्द्रमाः ।
तं
ददर्श
महातेजास्तेजोवन्तं
महाकपिः ॥ २९ ॥
रावणोऽयं
महाबाहुरिति
सञ्चिन्त्य
वानरः ।
अवप्लुतो
महातेजा
हनुमान्
मारुतात्मजः ॥ ३० ॥
स
तथा
प्युग्रतेजाः
सन्
निर्धूतस्तस्य
तेजसा ।
पत्रगुह्यान्तरे
सक्तो
हनुमान्
संवृतोऽभवत् ॥ ३१ ॥
स
तामसितकेशान्तां
सुश्रोणीं
संहतस्तनीम् ।
दुदृक्षुरसितापाङ्गामुपावर्तत
रावणः ॥ ३२ ॥