तस्मिन्नेव
ततः
काले
राजपुत्री
त्वनिन्दिता ।
रूपयौवनसम्पन्नं
भूषणोत्तमभूषितम् ॥ १ ॥
ततो
दृष्ट्वैव
वैदेही
रावणं
राक्षसाधिपम् ।
प्रावेपत
वरारोहा
प्रवाते
कदली
यथा ॥ २ ॥
आच्छाद्योदरमूरुभ्यां
बाहुभ्यां
च
पयोधरौ ।
उपविष्टा
विशालाक्षी
रुदन्ती
वरवर्णिनी ॥ ३ ॥
दशग्रीवस्तु
वैदेहीं
रक्षितां
राक्षसीगणैः ।
ददर्श
सीतां
दुःखार्तां
नावं
सन्नामिवार्णवे ॥ ४ ॥
असंवृतायामासीनां
धरण्यां
संशितव्रताम् ।
छिन्नां
प्रपतितां
भूमौ
शाखामिव
वनस्पतेः ॥ ५ ॥
मलमण्डनचित्राङ्गीं
मण्डनार्हाममण्डिताम् ।
मृणाली
पङ्कदिग्धेव
विभाति
न
विभाति
च ॥ ६ ॥
समीपं
राजसिंहस्य
रामस्य
विदितात्मनः ।
सङ्कल्पहयसंयुक्तैर्यान्तीमिव
मनोरथैः ॥ ७ ॥
शुष्यन्तीं
रुदतीमेकां
ध्यानशोकपरायणाम् ।
दुःखस्यान्तमपश्यन्तीं
रामां
राममनुव्रताम् ॥ ८ ॥
वेष्टमानां
तथाऽऽविष्टां
पन्नगेन्द्रवधूमिव ।
धूप्यमानां
ग्रहेणेव
रोहिणीं
धूमकेतुना ॥ ९ ॥
वृत्तशीलकुले
जातामाचारवति
धार्मिके ।
पुनः
संस्कारमापन्नां
जातामिव
च
दुष्कुले ॥ १० ॥
अभूतेनापवादेन
कीर्तिं
निपतितामिव ।
आम्नायानामयोगेन
विद्यां
प्रशिथिलामिव ॥ ११ ॥
सन्नामिव
महाकीर्तिं
श्रद्धामिव
विमानिताम् ।
पूजामिव
परिक्षीणामाशां
प्रतिहतामिव ॥ १२ ॥
आयतीमिव
विध्वस्तामाज्ञां
प्रतिहतामिव ।
दीप्तामिव
दिशं
काले
पूजामपहृतामिव ॥ १३ ॥
पद्मिनीमिव
विध्वस्तां
हतशूरां
चमूमिव ।
प्रभामिव
तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४ ॥
वेदीमिव
परामृष्टां
शान्तामग्निशिखामिव ।
पौर्णमासीमिव
निशां
राहुग्रस्तेन्दुमण्डलाम् ॥ १५ ॥
उत्कृष्टापर्णकमलां
वित्रासितविहङ्गमाम् ।
हस्तिहस्तपरामृष्टामाकुलां
पद्मिनीमिव ॥ १६ ॥
पतिशौकातुरां
शुष्कां
नदीं
विस्रावितामिव ।
परया
मृजया
हीनां
कृष्णपक्षनिशामिव ॥ १७ ॥
सुकुमारीं
सुजाताङ्गी
रत्नगर्भगृहोचिताम् ।
तप्यभानामिवोष्णेन
मृणालीमचिरोद्धृताम् ॥ १८ ॥
गृहीतामालितां
स्तम्भे
यूथपेन
विनाकृताम् ।
निःश्वसन्तीं
सुदुःखार्तां
गजराजवधूमिव ॥ १९ ॥
एकया
दीर्घया
वेण्या
सोभमानामयत्नतः ।
नीलया
नीरदापाये
वनराज्या
महीमिव ॥ २० ॥
उपवासेन
शोकेन
ध्यनेन
च
भयेन
च ।
परिक्षीणां
कृशां
दीनामल्पाहारां
तपोधनाम् ॥ २१ ॥
आयाचमानां
दःखार्तां
प्राञ्जलिं
देवतामिव ।
भावेन
रघुमुख्यस्य
दशग्रीवपराभवम् ॥ २२ ॥
समीक्षमाणां
रुदतीमनिन्दितां
सुपक्ष्मताम्रायलोचनाम् ।
अनुव्रतां
राममतीव
मैथिलीं
प्रलोभयामास
वधाय
रावणः ॥ २३ ॥