स
तां
पतिव्रतां
दीनान्निरानन्दां
तपस्विनीम् ।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत
रावणः ॥ १ ॥
मां
दृष्ट्वा
नागनासोरु
गूहमाना
स्तनोदरम् ।
अदर्शनमिवात्मानं
भयान्नेतुं
त्वमिच्छसि ॥ २ ॥
कामये
त्वां
विशालाक्षि
बहु
मन्यस्व
मां
प्रिये ।
सर्वाङ्गगुणसम्पन्ने
सर्वलोकमनोहरे ॥ ३ ॥
नेह
केचिन्मनुष्या
वा
राक्षसाः
कामरुपिणः ।
व्यपसर्पतु
ते
सीते
भयं
मत्तः
समुत्थितम् ॥ ४ ॥
स्वधर्मो
रक्षसां
भीरु
सर्वथैव
न
संशयः ।
गमनं
वा
परस्त्रीणां
हरणं
संप्रमथ्य
वा ॥ ५ ॥
एवं
चैतदकामां
तु
न
त्वां
स्प्रक्ष्यामि
मैथिलि ।
काम
कामः
शरीरे
मे
यथाकामं
प्रवर्तताम् ॥ ६ ॥
देवि
नेह
भयं
कार्यं
मयि
विश्वसिहि
प्रिये ।
प्रणयस्व
च
तत्त्वेन
मैवं
भूः
शोकलालसा ॥ ७ ॥
एकवेणी
धराशय्या
ध्यानं
मलिनमम्बरम् ।
अस्थानेऽप्युपवासश्च
नैतान्यौपयिकानि
ते ॥ ८ ॥
विचित्राणि
च
माल्यानि
चन्दनान्यगुरूणि
च ।
विविधानि
च
वासांसि
दिव्यान्याभरणानि
च ॥ ९ ॥
महार्हाणि
च
पानानि
शयनान्यासनानि
च ।
गीतं
नृत्त
च
वाद्यं
च
लभ
मां
प्राप्य
मैथिलि ॥ १० ॥
स्त्रीरत्नमसि
मैवं
भूः
कुरु
गात्रेषु
भूषणम् ।
मां
प्राप्य
हि
कथं
नु
स्यास्त्वमनर्हा
सुविग्रहे ॥ ११ ॥
इदं
ते
चारु
सञ्जातं
यौवनं
व्यतिवर्तते ।
यदतीतं
पुनर्नैति
स्रोतः
शीघ्रमपामिव ॥ १२ ॥
त्वां
कृत्वोपरतो
मन्ये
रूपकर्ता
स
विश्वसृक् ।
न
हि
रूपोपमा
त्वन्या
तवास्ति
शुभदर्शने ॥ १३ ॥
त्वां
समासाद्य
वैदेहि
रूपयौवनशालिनीम् ।
कः
पुमानतिवर्तेत
साक्षादपि
पितामहः ॥ १४ ॥
यद्यत्
पश्यामि
ते
गात्रं
शीतांशुसदृशानने ।
तस्मिंस्तस्मिन्
पृथुश्रोणि
चक्षुर्मम
निबद्ध्यते ॥ १५ ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव
भद्रं
ते
ममाग्रमहिषी
भव ॥ १६ ॥
लोकेभ्यो
यानि
रत्नानि
सम्प्रमथ्याहृतानि
वै ।
तानि
मे
भीरु
सर्वाणि
राज्यं
चैतदहं
च
ते ॥ १७ ॥
विजित्य
पृथिवीं
सर्वां
नानानगरमालिनीम् ।
जनकाय
प्रदास्यामि
तव
हेतोर्विलासिनि ॥ १८ ॥
नेह
पश्यामि
लोकेऽन्यं
यो
मे
प्रतिबलो
भवेत् ।
पश्य
मे
सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥
असकृत्
संयुगे
भग्ना
मया
विमृदितध्वजाः ।
अशक्ताः
प्रत्यनीकेषु
स्थातुं
मम
सुरासुराः ॥ २० ॥
इच्छया
क्रियतामद्य
प्रतिकर्म
तवोत्तमम् ।
सप्रभाण्यवसज्यन्तां
तवाङ्गे
भूषणानि
च ॥ २१ ॥
साधु
पश्यामि
रूपं
संयुक्तं
प्रतिकर्मणा ।
प्रतिकर्माभिसंयुक्ता
दाक्षिण्येन
वरानने ॥ २२ ॥
भुङ्क्ष्व
भोगान्
यथाकामं
पिब
भीरु
रमस्व
च ।
ललस्व
मयि
विस्रब्धा
धृष्टमाज्ञापयस्व
च ॥ २३ ॥
मत्प्रसादाल्ललन्त्याश्च
ललन्तां
बान्धवास्तव ।
ऋद्धिं
ममानुपश्य
त्वं
श्रियं
भद्रे
यशश्च
मे ॥ २४ ॥
निक्षिप्त
विजयो
रामो
गत
श्रीर्वनगोचरः ।
व्रती
स्थण्डिलशायी
च
शङ्के
जीवति
वा
न
वा ॥ २५ ॥
नहि
वैदेहि
रामस्त्वां
द्रष्टुं
वाप्युपलप्स्यते ।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ २६ ॥
न
चापि
मम
हस्तात्त्वां
प्राप्तुमर्हति
राघवः ।
हिरण्यकशिपुः
कीर्तिमिन्द्रहस्तगतामिव ॥ २७ ॥
चारुस्मिते
चारुदति
चारुनेत्रे
विलासिनि ।
मनो
हरसि
मे
भीरु
सुपर्णः
पन्नगं
यथा ॥ २८ ॥
क्लिष्टकौशोयवसनां
तन्वीमप्यनलङ्कृताम् ।
त्वां
दृष्ट्वा
स्वेषु
दारेषु
रतिं
नोपलभाम्यहम् ॥ २९ ॥
अन्तः
पुरनिवासिन्यः
स्त्रियः
सर्वगुणान्विताः ।
यावन्त्यो
मम
सर्वासामैश्वर्यं
कुरु
जानकि ॥ ३० ॥
मम
ह्यसितकेशान्ते
त्रैलोक्यप्रवराः
स्त्रियः ।
तास्त्वां
परिचरिष्यन्ति
श्रियमप्सरसो
यथा ॥ ३१ ॥
यानि
वैश्रवणे
सुभ्रु
रत्नानि
च
धनानि
च ।
तानि
लोकांश्च
सुश्रोणि
मां
च
भुङ्क्ष्व
यथासुखम् ॥ ३२ ॥
न
रामस्तपसा
देवि
न
बलेन
न
विक्रमैः ।
न
धनेन
मया
तुल्यस्तेजसा
यशसापि
वा ॥ ३३ ॥
पिब
विहर
रमस्व
भुङ्क्ष्व
भोगान्
धननिचयं
प्रदिशामि
मेदिनीं
च ।
मयि
लल
ललने
यथासुखं
त्वं
त्वयि
च
समेत्य
ललन्तु
बान्धवास्ते ॥ ३४ ॥
कुसुमिततरुजालसन्ततानि
भ्रमरयुतानि
समुद्रतीरजानि ।
कनकविमलहारभूषिताङ्गी
विहर
मया
सह
भीरु
काननानि ॥ ३५ ॥