तस्य
तद्वचनं
श्रुत्वा
सीता
रौद्रस्य
रक्षसः ।
आर्ता
दीनस्वरा
दीनं
प्रत्युवाच
शनैर्वचः ॥ १ ॥
चिन्तयन्ती
वरारोहा
पतिमेव
पतिव्रता ।
तृणमन्तरतः
कृत्वा
प्रत्युवाच
शुचिस्मिता ॥ २ ॥
निवर्तय
मनो
मत्तः
स्वजने
क्रियतां
मनः ।
न
मां
प्रार्थयितुं
युक्तं
सुसिद्धिमिव
पापकृत् ॥ ३ ॥
अकार्यं
न
मया
कार्यमेकपत्न्या
विगर्हितम् ।
कुलं
संप्राप्तया
पुण्यं
कुले
महति
जातया ॥ ४ ॥
एवमुक्त्वा
तु
वैदेही
रावणं
तं
यशस्विनी ।
राक्षसं
पृष्ठतः
कृत्वा
भूयो
वचनमब्रवीत् ॥ ५ ॥
नाहमौपयिकी
भार्या
परभार्या
सती
तव ।
साधुधर्मवेक्षस्व
साधु
साधुव्रतं
चर ॥ ६ ॥
यथा
तव
तथाऽन्येषां
दारा
रक्ष्या
निशाचर ।
आत्मानमुपमां
कृत्वा
स्वेषु
दारेषु
रम्यताम् ॥ ७ ॥
अतुष्टं
स्वेषु
दारेषु
चपलं
चलितेन्द्रितम् ।
नयन्ति
निकृतिप्रज्ञं
परदाराः
पराभवम् ॥ ८ ॥
इह
सन्तो
न
वा
सन्ति
सतो
वा
नानुवर्तसे ।
तथाहि
विपरीता
ते
बुद्धिराचारवर्जिता ॥ ९ ॥
वचो
मिथ्याप्रणीतात्मा
पथ्यमुक्तं
विचक्षणैः ।
राक्षसानामभावाय
त्वं
वा
न
प्रतिपद्यसे ॥ १० ॥
अकृतात्मानमासाद्य
राजानमनये
रतम् ।
समृद्धानि
विनश्यन्ति
राष्ट्राणि
नगराणि
च ॥ ११ ॥
तथेयं
त्वां
समासाद्य
लङ्का
रत्नौघसङ्कुला ।
अपराधात्तवैकस्य
नचिराद्विनशिष्यति ॥ १२ ॥
स्वकृतैर्हन्यमानस्य
रावणादीर्घदर्शिनः ।
अभिनन्दन्ति
भूतानि
विनाशे
पापकर्मणः ॥ १३ ॥
एवं
त्वां
पापकर्माणं
वक्ष्यन्ति
निकृता
जनाः ।
दिष्ट्यैतद्व्यसनं
प्राप्तो
रौद्र
इत्येव
हर्षिताः ॥ १४ ॥
शक्या
लोभयितुं
नाहमैश्वर्येण
धनेन
वा ।
अनन्या
राघवेणाहं
भास्करेण
प्रभा
यथा ॥ १५ ॥
उपधाय
भुजं
तस्य
लोकनाथस्य
सत्कृतम् ।
कथं
नामोपधास्यामि
भुजमन्यस्य
कस्यचित् ॥ १६ ॥
अहमौपयिकी
भार्या
तस्यैव
वसुधापतेः ।
व्रतस्नातस्य
धीरस्य
विद्येव
विदितात्मनः ॥ १७ ॥
साधु
रावण
रामेण
मां
समानय
दुःखिताम् ।
वने
वाशितया
सार्धं
करेण्वेव
गजाधिपम् ॥ १८ ॥
वधं
चानिच्छता
घोरं
त्वयाऽसौ
पुरुषर्षभः ।
विदितः
स
हि
धर्मज्ञः
शरणागतवत्सलः ॥ १९ ॥
तेन
मैत्री
भवतु
ते
यदि
जीवितुमिच्छसि ।
प्रसादयस्व
त्वं
चैनं
शरणागतवत्सलम् ॥ २० ॥
मां
चास्मै
प्रयतो
भूत्वा
निर्यातयितुमर्हसि ।
एवं
हि
ते
भवेत्
स्वस्ति
सम्प्रदाय
रघूत्तमे ॥ २१ ॥
अन्यथा
त्वं
हि
कुर्वाणो
वधं
प्राप्यसि
रावण ।
वर्जयेद्वज्रमुत्सृष्टं
वर्जयेदन्तकश्चिरम् ॥ २२ ॥
त्वद्विधं
तु
न
सङ्क्रुद्धौ
लोकनाथः
स
राघवः ।
रामस्य
धनुषः
शब्दं
श्रोष्यसि
त्वं
महास्वनम् ॥ २३ ॥
शतक्रतुविसृष्टस्य
निर्घोषमशनेरिव ।
इह
शीघ्रं
सुपर्वाणो
ज्वलितास्या
इवोरगाः ॥ २४ ॥
इषवो
निपतिष्यन्ति
रामलक्ष्मणलक्षणाः ।
रक्षांसि
परिनिघ्नन्तः
पुर्यामस्यां
समन्ततः ॥ २५ ॥
असम्पातं
करिष्यन्ति
पतन्तः
कङ्कवाससः ।
राक्षसेन्द्रमहासर्पान्
स
रामगरुडो
महान् ॥ २६ ॥
उद्धरिष्यति
वेगेन
वैनतेय
इवोरगान् ।
अपनेष्यति
मां
भर्ता
त्वत्तः
शीघ्रमरिन्दमः ॥ २७ ॥
असुरेभ्यः
श्रियं
दीप्तां
विष्णुस्त्रिभिरिव
क्रमैः ।
जनस्थाने
हतस्थाने
निहते
रक्षसां
बले ॥ २८ ॥
अश्क्तेन
त्वया
रक्षः
कृतमेतदसाधु
वै ।
आश्रमं
तु
तयोः
शून्यं
प्रविश्य
नरसिंहयोः ॥ २९ ॥
गोचरं
गतयोर्भ्रात्रोरपनीता
त्वयाऽधम ।
नहि
गन्धमुपाघ्राय
रामलक्ष्मणयोस्त्वया ॥ ३० ॥
शक्यं
सन्दर्शने
स्थातुं
शुना
शार्दूलयोरिव ।
तस्य
ते
विग्रहे
ताभ्यां
युगग्रहणमस्थिरम् ॥ ३१ ॥
वृत्रस्येवेन्द्रबाहुभ्यां
बाहोरेकस्य
निग्रहः ।
क्षिप्रं
तव
स
नाथो
मे
रामः
सौमित्रिणा
सह ॥ ३२ ॥
तोयमल्पमिवादित्यः
प्राणानादास्यते
शरैः ।
गिरिं
कुबेरस्य
गतोऽपधाय
वा
सभां
गतो
वा
वरुणस्य
राज्ञः ॥ ३३ ॥
असंशयं
दाशरथेर्न
मोक्ष्यसे
महाद्रुमः
कालहतोऽशनेरिव ॥ ३४ ॥