सीताया
वचनं
श्रुत्वा
परुषं
राक्षसाधिपः ।
प्रत्युवाच
ततः
सीतां
विप्रियं
प्रियदर्शनाम् ॥ १ ॥
यथा
यथा
सान्त्वयिता
वश्यः
स्त्रीणां
तथा
तथा ।
यथा
यथा
प्रियं
वक्ता
परिभूतस्तथा
तथा ॥ २ ॥
सन्नियच्छति
मे
क्रोधं
त्वयि
कामः
समुत्थितः ।
द्रवतोऽमार्गमासाद्य
हयानिव
सुसारथिः ॥ ३ ॥
वामः
कामो
मनुष्याणां
यस्मिन्
किल
निबद्ध्यते ।
जने
तस्मिंस्त्वनुक्रोशः
स्नेहश्च
किल
जायते ॥ ४ ॥
एतस्मात्कारणान्न
त्वां
घातयामि
वरानने ।
वधार्हामवमानार्हां
मिथ्या
प्रव्रजिते
रताम् ॥ ५ ॥
परुषाणीह
वाक्यानि
यानि
यानि
ब्रवीषि
माम् ।
तेषु
तेषु
वधो
युक्तस्तव
मैथिलिदारुणः ॥ ६ ॥
एवमुक्त्वा
तु
वैदेहीं
रावणो
राक्षसाधिपः ।
क्रोधसंरम्भसंयुक्तः
सीतामुत्तरमब्रवीत् ॥ ७ ॥
द्वौ
मासौ
रक्षितव्यौ
मे
योऽवधिस्ते
मया
कृतः ।
ततः
शयनमारोह
त्वं
वरवर्णिनि ॥ ८ ॥
ऊर्ध्वं
द्वाभ्यां
तु
मासाभ्यां
भर्तारं
मामनिच्छतीम् ।
मम
त्वां
प्रातराशार्थमारभन्ते
महानसे ॥ ९ ॥
तां
तर्ज्यमानां
संप्रेक्ष्य
राक्षसेन्द्रेण
जानकीम् ।
देवगन्धर्वकन्यास्ता
विषेदुर्विकृतेक्षणाः ॥ १० ॥
ओष्ठप्रकारैरपरा
वक्त्रनेत्रैस्तथाऽपराः ।
सीतामाश्वासयामासुस्तर्जितां
तेन
रक्षसा ॥ ११ ॥
ताभिराश्वासिता
सीता
रावणं
राक्षसाधिपम् ।
उवाचात्महितं
वाक्यं
वृत्तशौष्डीर्यगर्वितम् ॥ १२ ॥
नूनं
न
ते
जनः
कश्चिदस्ति
निःश्रेयसे
स्थितः ।
निवारयति
यो
न
त्वां
कर्मणोऽस्याद्विगर्हितात् ॥ १३ ॥
मां
हि
धर्मात्मनः
पत्नीं
शचीमिव
शचीपतेः ।
त्वदन्यस्त्रिषु
लोकेषु
प्रार्थयेन्मनसाऽपि
कः ॥ १४ ॥
राक्षसाधमरामस्य
भार्याममिततेजसः ।
उक्तवानसि
यच्छापं
क्व
गतस्तस्य
मोक्ष्यसे ॥ १५ ॥
यथा
दृप्तश्च
मातङ्गः
शशश्च
सहितो
वने ।
तथा
द्विरदवद्रामस्त्वं
नीच
शशवत्
स्मृतः ॥ १६ ॥
स
त्वमिक्ष्वाकुनाथं
वै
क्षिपन्निह
न
लज्जसे ।
चक्षुषोर्विषयं
तस्य
न
तावदुपगच्छसि ॥ १७ ॥
इमे
ते
नयने
क्रूरे
विरूपे
कृष्णपिङ्गले ।
क्षितौ
न
पतिते
कस्मान्मामनार्य
निरीक्षितः ॥ १८ ॥
तस्य
धर्मात्मनः
पत्नीं
स्नुषां
दशरथस्य
च ।
कथं
व्याहरतो
मां
तेन
न
जिह्वा
व्यवशीर्यते ॥ १९ ॥
असन्देशात्तु
रामस्य
तपसश्चानुपालनात् ।
न
त्वां
कुर्मि
दशग्रीव
भस्म
भस्मार्ह
तेजसा ॥ २० ॥
नापहर्तुमहं
शक्या
तस्य
रामस्य
धीमतः ।
विधिस्तव
वधार्थाय
विहितो
नात्र
संशयः ॥ २१ ॥
शूरेण
धनदभ्रात्रा
बलैः
समुदितेन
च ।
अपोह्य
रामं
कस्माद्धि
दारचौर्यं
त्वया
कृतम् ॥ २२ ॥
सीताया
वचनं
श्रुत्वा
रावणो
राक्षसाधिपः ।
विवृत्य
नयने
क्रूरे
जानकीमन्ववैक्षत ॥ २३ ॥
नीलजीमूतसङ्काशो
महाभुजशिरोधरः ।
सिंहसत्त्वगतिः
श्रीमान्
दीप्तजिह्वाग्रलोचनः ॥ २४ ॥
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः ।
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५ ॥
श्रोणीसूत्रेण
महता
मेचकेन
सुसंवृतः ।
अमृतोत्पादनद्धेन
भुजगेनेव
मन्दरः ॥ २६ ॥
ताभ्यां
स
परिपूर्णाभ्यां
भुजाभ्यां
राक्षसेश्वरः ।
शुशुभेऽचलसङ्काशः
श्रृङ्गाभ्यामिव
मन्दरः ॥ २७ ॥
तरुणादित्यवर्णाभ्यां
कुण्डलाभ्यां
विभूषितः ।
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥
स
कल्पवृक्षप्रतिमो
वसन्त
इव
मूर्तिमान् ।
श्मशानचैत्यप्रितिमो
भूषितोऽपि
भयङ्करः ॥ २९ ॥
अवेक्षमाणो
वैदेहीं
कोपसंरक्तलोचनः ।
उवाच
रावणः
सीतां
भुजङ्ग
इव
निःश्वसन् ॥ ३० ॥
अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।
नाशयाम्यहमद्य
त्वां
सूर्यः
सन्ध्यामिवौजसा ॥ ३१ ॥
इत्युक्त्वा
मैथिलीं
राजा
रावणः
शत्रुरावणः ।
सन्दिदेश
ततः
सर्वां
राक्षसीर्घोरदर्शनाः ॥ ३२ ॥
एकाक्षीमेककर्णां
च
कर्णप्रावराणां
तथा ।
गोकर्णीं
हस्तिकर्णीं
च
लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥
हस्तिपाद्यश्वपाद्यौ
च
गोपादीं
पादचूलिकाम् ।
एकाक्षीमेकपादीं
च
पृथुपादीमपादिकाम् ॥ ३४ ॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।
अतिमात्रास्यनेत्रं
च
दीर्घजिह्वामजिह्विकाम् ॥ ३५ ॥
अनासिकां
सिंहमुखीं
गोमुखीं
सूकरीमुखीम् ।
यथा
मद्वशगा
सीता
क्षिप्रं
भवति
जानकी ॥ ३६ ॥
प्रतिलोमानुलोमैश्च
सामदानादिभेदनैः ।
आवर्जयत
वैदेहीं
दण्डस्योद्यमनेन
च ॥ ३७ ॥
इति
प्रतिसमादिश्य
राक्षसेन्द्रः
पुनः
पुनः ।
काममन्युपरीतात्मा
जारकीं
पर्यतर्जयत् ॥ ३८ ॥
उपगम्य
ततः
क्षिप्रं
राक्षसी
धान्यमालिनी ।
परिष्वज्य
दशग्रीवमिदं
वचनमब्रवीत् ॥ ३९ ॥
मया
क्रीड
महाराज
सीतया
किं
तवानया ।
विवर्णया
कृपणया
मानुष्या
राक्षसेश्वर ॥ ४० ॥
नूनमस्या
महाराज
न
दिव्यान्
भोगसत्तमान् ।
विदधात्यमरश्रेष्ठस्तव
बाहुबलार्जितान् ॥ ४१ ॥
अकामां
कामयानस्य
शरीरमुपतप्यते ।
इच्छन्तीं
कामयानस्य
प्रीतिर्भवति
शोभना ॥ ४२ ॥
एवमुक्तस्तु
राक्षस्या
समुत्क्षिप्तस्ततो
बली ।
प्रहसन्
मेघसङ्काशो
राक्षसः
स
न्यवर्तत ॥ ४३ ॥
प्रस्थितः
स
दशग्रीवः
कम्पयन्निव
मेदिनीम् ।
ज्वलद्भास्करवर्णाभं
प्रविवेश
निवेशनम् ॥ ४४ ॥
देवगन्धर्वकन्याश्च
नागकन्याश्च
सर्वतः ।
परिवार्य
दशग्रीवं
विविशुस्तद्गृहोत्तमम् ॥ ४५ ॥
स
मैथिलीं
धर्मपरामवस्थितां
प्रवेपमानां
परिभर्त्स्य
रावणः ।
विहाय
सीतां
मदनेन
मोहितः
स्वमेव
वेश्म
प्रविवेश
भास्वरम् ॥ ४६ ॥