इत्युक्त्वा
मैथिलीं
राजा
रावणः
शत्रुरावणः ।
सन्दिश्य
च
ततः
सर्वा
राक्षसीर्निर्जगाम
ह ॥ १ ॥
निष्क्रान्ते
राक्षसेन्द्रे
तु
पुनरन्तःपुरं
गते ।
राक्षस्यो
भीमरूपास्ताः
सीतां
समभिदुद्रुवुः ॥ २ ॥
ततः
सीतामुपागम्य
राक्षस्यः
क्रोधमूर्च्छिताः ।
परं
परुषया
वाचा
वैदेहीमिदमब्रुवन् ॥ ३ ॥
पौलस्त्यस्य
वरिष्ठस्य
रावणस्य
महात्मनः ।
दशग्रीवस्य
भार्यात्वं
सीते
न
बहु
मन्यसे ॥ ४ ॥
प्रजापतीनां
षण्णां
तु
चतुर्थो
यः
प्रजापतिः ।
मानसो
ब्रह्मणः
पुत्रः
पुलस्त्य
इति
विश्रुतः ॥ ५ ॥
पुलस्त्यस्य
तु
तेजस्वी
महर्षिर्मानसः
सुतः ।
नाम्ना
स
विश्रवा
नाम
प्रजापतिसमप्रभः ॥ ६ ॥
तस्य
पुत्रो
विशालाक्षि
रावणः
शत्रुरावणः ।
तस्य
त्वं
राक्षसेन्द्रस्य
भार्या
भवितुमर्हसि ॥ ७ ॥
ततो
हरिजटा
नाम
राक्षसी
वाक्यमब्रवीत् ।
विवर्त्य
नयने
कोपान्मार्जारसदृशेक्षणा ॥ ८ ॥
येन
देवास्त्रयस्त्रिंशद्देवराजश्च
निर्जिताः ।
भर्त्सयन्ती
तदा
घोरमिदं
वचनमब्रवीत् ॥ ९ ॥
वीर्योत्सिक्तस्य
शूरस्य
सङ्ग्रामेष्वनिवर्तिनः ।
बलिनो
वीर्ययुक्तस्य
भार्यात्वं
किं
न
लप्स्यसे ॥ १० ॥
प्रियां
बहुमतां
भर्यां
त्यक्त्वा
राजा
महाबलः ।
सर्वासां
च
महाभागां
त्वामुपैष्यति
रावणः ॥ ११ ॥
समृद्धं
स्त्रीसहस्रेण
नानारत्नोपशोभितम् ।
अन्तःपुरं
समुत्सृज्य
त्वामुपैष्यति
रावणः ॥ १२ ॥
अन्या
तु
विकटा
नाम
राक्षसी
वाक्यमब्रवीत् ।
असकृद्देवता
युद्धे
नागगन्धर्वदानवाः ॥ १३ ॥
निर्जिताः
समरे
येन
स
ते
पार्श्वमुपागतः ।
किमद्य
राक्षसेन्द्रस्य
भार्यात्वं
नेच्छसेऽधमे ॥ १४ ॥
ततस्तु
दुर्मुखी
नाम
राक्षसी
वाक्यमब्रवीत् ।
यस्य
सूर्यो
न
तपति
भीतो
यस्य
च
मारुतः ॥ १५ ॥
न
वाति
स्मायतापाङ्गे
किं
त्वं
तस्य
न
तिष्ठसि ।
पुष्पवृष्टिं
च
तरवो
मुमुचुर्यस्य
वै
भयात् ॥ १६ ॥
शैलाश्च
सुभ्रूः
पानीयं
जलदाश्च
यदेच्छति ।
तस्य
नैर्ऋतराजस्य
राजराजस्य
भामिनि ॥ १७ ॥
किं
त्वं
न
कुरुषे
बुद्धिं
भार्यार्थे
रावणस्य
हि ।
साधु
ते
तत्त्वतो
देवि
कथितं
साधु
भामिनि ॥ १८ ॥
गृहाण
सुस्मिते
वाक्यमन्यथा
न
भविष्यसि ॥ १९ ॥