तथा
तासां
वदन्तीनां
परुषं
दारुणं
बहु ।
राक्षसीनामसौम्यानां
रुरोद
जनकात्मजा ॥ १ ॥
एवमुक्ता
तु
वैदेही
राक्षसीभिर्मनस्विनी ।
उवाच
परमत्रस्ता
बाष्पगद्गदया
गिरा ॥ २ ॥
न
मानुषी
राक्षसस्य
भार्या
भवितुमर्हति ।
कामं
खादत
मां
सर्वा
न
करिष्यामि
वो
वचः ॥ ३ ॥
सा
राक्षसीमध्यगता
सीता
सुरसुतोपमा ।
न
शर्म
लेभे
दुःखार्ता
रावणेन
च
तर्जिता ॥ ४ ॥
वेपते
स्माधिकं
सीता
विशन्तीवाङ्गमात्मनः ।
वने
यूथपरिभ्रष्टा
मृगी
कोकैरिवार्दिता ॥ ५ ॥
सा
त्वशोकस्य
विपुलां
शाखामालम्ब्य
पुष्पिताम् ।
चिन्तयामास
शोकेन
भर्तारं
भग्नमानसा ॥ ६ ॥
सा
स्नापयन्ती
विपुलौ
स्तनौ
नेत्रजलस्रवैः ।
चिन्तयन्ती
न
शोकस्य
तदाऽन्तमधिगच्छति ॥ ७ ॥
सा
वेपमाना
पतिता
प्रवाते
कदली
यथा ।
राक्षसीनां
भयत्रस्ता
विवर्णवदनाऽभवत् ॥ ८ ॥
तस्याः
सा
दीर्घविपुला
वेपन्त्या
सीतया
तदा ।
ददृशे
कम्पिनी
वेणी
व्यालीव
परिसर्पती ॥ ९ ॥
सा
निःश्वसन्ती
दुःखार्ता
शोकोपहतचेतना ।
आर्ता
व्यसृजदश्रूणि
मैथिली
विललाप
ह ॥ १० ॥
रा
रामेति
च
दूःखार्ता
हा
पुनर्लक्ष्मणेति
च ।
हा
श्वश्रु
मम
कौसल्ये
हा
सुमित्रेति
भामिनी ॥ ११ ॥
लोकप्रवादः
सत्योऽयं
पण्डितैः
समुदाहृतः ।
अकाले
दुर्लभो
मृत्युः
स्त्रिया
वा
पुरुषस्य
वा ॥ १२ ॥
यत्राहमेवं
क्रूराभी
राक्षसीभिरिहार्दिता ।
जीवामि
हीना
रामेण
मुहूर्तमपि
दुःखिता ॥ १३ ॥
एषाऽल्पपुण्या
कृपणा
विनशिष्याम्यनाथवत् ।
समुद्रमध्ये
नौः
पूर्णा
वायुवेगैरिवाहता ॥ १४ ॥
भर्तारं
तमपश्यन्ती
राक्षसीवशमागता ।
सीदामि
खलु
शोकेन
कूलं
तोयहतं
यथा ॥ १५ ॥
तं
पद्मदलपत्रक्षं
सिंहविक्रान्तगामिनम् ।
धन्याः
पश्यन्ति
मे
नाथं
कृतज्ञं
प्रियवादिनम् ॥ १६ ॥
सर्वथा
तेन
हीनाया
रामेण
विदितात्मना ।
तीक्ष्णं
विषमिवास्वाद्य
दुर्लभं
मम
जीवितम् ॥ १७ ॥
कीदृशं
तु
मया
पापं
पुरा
जन्मान्तरे
कृतम् ।
येनेदं
प्राप्यते
दुःखं
मया
घोरं
सुदारुणम् ॥ १८ ॥
जीवितं
त्यक्तुमिच्छामि
शोकेन
महता
वृता ।
राक्षसीभिश्च
रक्ष्यन्त्या
रामो
नासाद्यते
मया ॥ १९ ॥
धिगस्तु
खलु
मानुष्यं
धिगस्तु
परवश्यताम् ।
न
शक्यं
यत्
परित्यक्तुमात्मच्छन्देन
जीवितम् ॥ २० ॥