इत्युक्ताः
सीतया
घोरा
राक्षस्यः
क्रोधमूर्च्छिताः ।
काश्चिज्जग्मुस्तदाख्यातुं
रावणस्य
तरस्विनः ॥ १ ॥
ततः
सीतामुपागम्य
राक्षस्यो
घोरदर्शनाः ।
पुनः
परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २ ॥
अद्येदानीं
तवानार्ये
सीते
पापविनिश्चये ।
राक्षस्यो
भक्षयिष्यन्ति
मांसमतेद्यतासुखम् ॥ ३ ॥
सीतां
ताभिरनार्याभिर्दृष्ट्वा
सन्तर्जितां
तदा ।
राक्षसी
त्रिजटा
वृद्धा
शयाना
वाक्यमब्रवीत् ॥ ४ ॥
आत्मानं
खादतानार्या
न
सीतां
भक्षयिष्यथ ।
जनकस्य
सुतामिष्टां
स्नुषां
दशरथस्य
च ॥ ५ ॥
स्वप्नो
ह्यद्य
मया
दृष्टो
दारुणो
रोमहर्षणः ।
राक्षसानामभावाय
भर्तुरस्या
भवाय
च ॥ ६ ॥
सर्वा
एवाब्रुवन्
भीतास्त्रिजटां
तामिदं
वचः ।
कथयस्व
त्वया
दृष्टः
स्वप्नोऽयं
कीदृशो
निशि ॥ ७ ॥
तासां
श्रुत्वा
तु
वचनं
राक्षसीनां
मुखाच्च्युतम् ।
उवाच
वचनं
काले
त्रिजटा
स्वप्नसंश्रितम् ॥ ८ ॥
गजदन्तमयीं
दिव्यां
शिबिकामन्तरिक्षगाम् ।
युक्तां
हंससहस्रेण
स्वयमास्थाय
राघवः ॥ ९ ॥
शुक्लमाल्याम्बरधरो
लक्ष्मणेन
सहा
गतः ।
सागरेण
परिक्षिप्तं
श्वेतं
पर्वतमास्थिता ॥ १० ॥
रामेण
सङ्गता
सीता
भास्करेण
प्रभा
यथा ।
राघवश्च
मया
दृष्टाश्चतुर्दन्तं
महागजम् ॥ ११ ॥
आरूढः
शैलसङ्काशं
चचार
सह
लक्ष्मणः ।
ततस्तौ
नहशार्दूलौ
दीप्यमानौ
स्वतेजसा ॥ १२ ॥
शुक्लमाल्याम्बरधरौ
जानकीं
पर्युपस्थितौ ।
ततस्तस्य
नगस्याग्रे
ह्याकाशस्थस्य
दन्तिनः ॥ १३ ॥
भर्त्रा
परिगृहीतस्य
जानकी
स्कन्धमाश्रिता ।
भर्तुरङ्कात्
समुत्पत्य
ततः
कमललोचना ॥ १४ ॥
चन्द्रसूर्यो
मया
दृष्टा
पाणिना
परिमार्जती ।
ततस्ताभ्यां
कुमाराभ्यामास्थितः
स
गजोत्तमः ॥ १५ ॥
सीतया
च
विशालाक्ष्या
लङ्काया
उपरि
स्थितः ।
पाण्डुरर्षभयुक्तेन
रथेनाष्टयुजा
स्वयम् ॥ १६ ॥
इहोपयातः
काकुत्स्थः
सीतया
सह
भार्यया ।
लक्ष्मणेन
सह
भ्रात्रा
सीतया
सह
वीर्यवान् ॥ १७ ॥
आरुह्य
पुष्पकं
दिव्यं
विमानं
सूर्यसन्निभम् ।
उत्तरां
दिशमालोक्य
जगाम
पुरुषोत्तमः ॥ १८ ॥
एवं
स्वप्ने
मया
दृष्टो
रामो
विष्णुपराक्रमः ।
लक्ष्मणेन
सह
भ्रात्रा
सीतया
सह
भार्यया
* ॥ १९ ॥
न
हि
रामो
महातेजाः
शक्यो
जेतुं
सुरासुरैः ।
राक्षसैर्वापि
चान्यैर्वा
स्वर्गः
पापजनैरिव ॥ २० ॥
रावणश्च
मया
दृष्टः
क्षितौ
तैलसमुक्षितः ।
रक्तवासाः
पिबन्
मत्तः
करवीरकृतस्रजः ॥ २१ ॥
विमानात्
पुष्पकादद्य
रावणः
पतितो
भुवि ।
कृष्यमाणः
स्त्रिया
दृष्टो
मुण्डः
कृष्णाम्बरः
पुनः ॥ २२ ॥
पिबंस्तैलं
हसन्
नृत्यन्
भ्रान्तचित्ताकुलेन्द्रियः ।
गर्दभेन
ययौ
शीघ्रं
दक्षिणां
दिशमास्थितः ॥ २३ ॥
पुनरेव
मया
दृष्टो
रावणो
राक्षसेश्वरः ।
पतितोऽवाविछरा
भूमौ
गर्दभाद्भयमोहितः ॥ २४ ॥
सहसोत्थाय
सम्भ्रान्तो
भयार्तो
मदविह्वलः ।
उन्मत्त
इव
दिग्वासा
दुर्वाक्यं
प्रलपन्
बहु ॥ २५ ॥
दुर्गन्धं
दुस्सहं
घोरं
तिमिरं
नरकोपमम् ।
मलपङ्कं
प्रविश्याशु
मग्नस्तत्र
स
रावणः ॥ २६ ॥
कण्ठे
बद्ध्वा
दशग्रीवं
प्रमदा
रक्तवासिना ।
काली
कर्दमलिप्ताङ्गी
दिशं
याम्यां
प्रकर्षति ॥ २७ ॥
एवं
तत्र
मया
दृष्टः
कुम्भकर्णौ
निशाचरः ।
रावणस्य
सुताः
सर्वे
तृष्टास्तैलसमुक्षिताः ॥ २८ ॥
वराहेण
दशग्रीवः
शिंशुमारेण
चेन्द्रजित् ।
उष्ट्रेण
कुम्भकर्णश्च
प्रयातो
दक्षिणां
दिशम् ॥ २९ ॥
एकस्तत्र
मया
दृष्टः
श्वेतच्छत्रो
विभीषणः ।
शुक्लमाल्याम्बरधरः
शुक्लगन्धानुलेपनः ॥ ३० ॥
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ।
चतुर्दन्तं
गजं
दिव्यमास्ते
तत्र
विभीषणः ॥ ३१ ॥
चतुर्भिः
सचिवैः
सार्धं
वैहायसमुपस्थितः ।
समाजश्च
मया
दृष्टो
गीतवादित्रनिःस्वनः ॥ ३२ ॥
पिबतां
रक्तमाल्यानां
रक्षसां
रक्तवाससाम् ।
लङ्कां
चेयं
पुरी
रम्या
सवाजिरथकुञ्जरा ॥ ३३ ॥
सागरे
पतिता
दृष्टा
भग्नगोपुरतोरणा ।
लङ्का
दृष्टा
मया
स्वप्ने
रावणेनाभिरक्षिता ॥ ३४ ॥
दग्धा
रामस्य
दूतेन
वानरेण
तरस्विना ।
पीत्वा
तैलं
प्रनृत्ताश्च
प्रहसन्त्यो
महास्वनाः ॥ ३५ ॥
लङ्कायां
भस्मरूक्षायां
प्रविष्टा
राक्षसस्त्रियः ।
कुम्भकर्णादयश्चेमे
सर्वे
राक्षसपुङ्गवाः ॥ ३६ ॥
रक्तं
निवसनं
गृह्य
प्रविष्टा
गोमयह्रदे ।
अपगच्छत
नश्यध्वं
सीतामाप
स
राघवः ॥ ३७ ॥
घातयेत्
परमामर्षी
सर्वैः
सार्धं
हि
राक्षसैः ।
प्रियां
बहुमतां
भार्यां
वनवासमनुव्रताम् ॥ ३८ ॥
भर्त्सितां
तर्जितां
वापि
नानुमंस्यति
राघवः ।
तदलं
क्रूरवाक्यैर्वः
सान्त्वमेवाभिधीयताम् ॥ ३९ ॥
अभियाचाम
वैदैहीमेतद्धि
मम
रोचते ।
यस्यामेव
विधः
स्वप्नो
दुःखितायां
प्रदृश्यते ॥ ४० ॥
सा
दुःखैर्विविधैर्मुक्ता
प्रियं
प्राप्नोत्यनुत्तमम् ।
भर्त्सितामपि
याचध्वं
राक्षस्यः
किं
विवक्षया ॥ ४१ ॥
राघवाद्धि
भयं
घोरं
राक्षसानामुपस्थितम् ।
प्रणिपातप्रसन्ना
हि
मैथिली
जनकात्मजा ॥ ४२ ॥
अलमेषा
परित्रातुं
राक्षस्यो
महतो
भयात् ।
अपि
चास्या
विशालाक्ष्या
न
किञ्चिदुपलक्षये ॥ ४३ ॥
विरूपमपि
चाङ्गेषु
सुसूक्ष्ममपि
लक्षण् ।
छायावैगुण्यमात्रं
तु
शङ्केः
दुःखमुपस्थितम् ॥ ४४ ॥
अदुःखार्हामिमां
देवीं
वैहायसमुपस्थिताम् ।
अर्थसिद्धिं
तु
वैदेह्याः
पश्याम्यहमुपस्थिताम् ॥ ४५ ॥
राक्षसेन्द्रविनाशं
च
विजयं
राघवस्य
च ।
निमित्तभूतमेत्तु
श्रोतुमस्या
महत्
प्रियम् ॥ ४६ ॥
दृश्यते
च
स्फुरच्चक्षुः
पद्मपत्रमिवायतम् ।
ईषच्च
हृषितो
वाऽस्या
दक्षिणाया
ह्यदक्षिणः ॥ ४७ ॥
करेणुहस्तप्रतिमः
सव्यश्चोरुरनुत्तमः ।
वेपमानः
सूचयति
राघवं
पुरतः
स्थितम् ॥ ४८ ॥
पक्षी
च
शाखानिलयः
प्रहृष्टः
पुनः
पुनश्चोत्तमसान्त्ववादी ।
सुस्वागतां
वाचमुदीरयानः
पुनः
पुनश्चोदयतीव
हृष्टः ॥ ४९ ॥