तथागतां
तां
व्यथितामनिन्दितां
व्यपेतहर्षां
परिदीनमानसाम् ।
शुभां
निमित्तानि
शुभानि
भेजिरे
नरं
श्रिया
जुष्टमिवोपजीविनः ॥ १ ॥
तस्याः
शुभं
वाममरालपक्ष्मराजीवृतं
कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं
नयनं
सुकेश्यामीनाहतं
पद्ममिवाभिताम्रम् ॥ २ ॥
भुजश्च
चार्वञ्चितपीनवृत्तः
परार्ध्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः
प्रियेण
चिरेण
वामः
समवेपताशु ॥ ३ ॥
गजेन्द्रहस्तप्रतिमश्च
पीनस्तयोर्द्वयोः
संहतयोः
सुजातः ।
प्रस्पन्दमानः
पुनरूरुरस्या
रामं
पुरस्तात्
स्थितमाचचक्षे ॥ ४ ॥
शुभं
पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।
वासः
स्थितायाः
शिखराग्रदत्याः
किञ्चित्
परिस्रंसत
चारुगात्र्याः ॥ ५ ॥
एतैर्निमित्तैरपरैश्च
सुभ्रूः
संबोधिता
प्रागपि
साधु
सिद्धैः ।
वातातपक्लान्तमिव
प्रनष्टं
वर्षेण
बीजं
प्रतिसञ्जहर्ष ॥ ६ ॥
तस्याः
पुनर्बिम्बफलाधरोष्ठं
स्वक्षिभ्रु
केशान्तमरालपक्ष्म ।
वक्त्रं
बभासे
सितशुक्लदंष्ट्रं
राहोर्मुखाच्चन्द्र
इव
प्रमुक्तः ॥ ७ ॥
सा
वीतशोका
व्यपनीततन्द्री
शान्तज्वरा
हर्षविवृद्धसत्त्वा ।
अशोभतार्या
वदनेन
शुक्ले
शीतांशुना
रात्रिरिवोदितेन ॥ ८ ॥