हनुमानपि
विश्रान्तः
सर्वं
शुश्राव
तत्त्वतः ।
सीतायास्त्रिजटायाश्च
राक्षसीनां
च
तर्जनम् ॥ १ ॥
अवेक्षमाणस्तां
देवीं
देवतामिव
नन्दने ।
ततो
बहुविधां
चिन्तां
चिन्तयामास
वानरः ॥ २ ॥
यां
कपीनां
सहस्राणि
सुबहून्ययुतानि
च ।
दिक्षु
सर्वासु
मार्गन्ते
सेयमासादिता
मया ॥ ३ ॥
चारेण
तु
सुयुक्तेन
शत्रोः
शक्तिमवेक्षता ।
गूढेन
चरता
तावदवेक्षितमिदं
मया ॥ ४ ॥
राक्षसानां
विशेषश्च
पुरी
चेयमवेक्षिता ।
राक्षसाधिपतेरस्य
प्रभावो
रावणस्य
च ॥ ५ ॥
युक्तं
तस्याप्रमेयस्य
सर्वसत्त्वदयावतः ।
समाश्वासयितुं
भार्यां
पतिदर्शनकाङ्क्षिणीम् ॥ ६ ॥
अहमाश्वासयाम्येनां
पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां
दुःखार्तां
दुःखस्यान्तमगच्छतीम् ॥ ७ ॥
यद्यप्यहमिमां
देवीं
शोकोपहतचेतनाम् ।
अनाश्वास्य
गमिष्यामि
दोषवद्
गमनं
भवेत् ॥ ८ ॥
गते
हि
मयि
तत्रेयं
राजपुत्री
यशस्विनी ।
परित्राणमविन्दन्ती
जानकी
जीवितं
त्यजेत् ॥ ९ ॥
मया
च
स
महाबाहुः
पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं
न्याय्यः
सीतादर्शनलालसः ॥ १० ॥
निशाचरीणां
प्रत्यक्षमनर्हं
चापि
भाषणम् ।
कथं
तु
खलु
कर्तव्यमिदं
कृच्छ्रगतो
ह्यहम् ॥ ११ ॥
अनेन
रात्रिशेषेण
यदि
नाश्वास्यते
मया ।
सर्वथा
नास्ति
सन्देहः
परित्यक्ष्यति
जीवितम् ॥ १२ ॥
रामश्च
यदि
पृच्छेन्मां
किं
मां
सीताऽब्रवीद्वचः ।
किमहं
दं
प्रतिब्रूयामसम्भाष्य
सुमध्यमाम् ॥ १३ ॥
सीतासन्देशरहितं
मामितस्त्वरया
गतम् ।
निर्दहेदपि
काकुत्स्थः
क्रुद्धस्तीव्रेण
चक्षुषा ॥ १४ ॥
यदि
चोद्योजयिष्यामि
भर्तारं
रामकारणात् ।
व्यर्थमागमनं
तस्य
ससैन्यस्य
भविष्यति ॥ १५ ॥
अन्तरं
त्वहमासाद्य
राक्षसीनामिह
स्थितः ।
शनैराश्वासयिष्यामि
सन्तापबहुलामिमाम् ॥ १६ ॥
अहं
त्वति
तनुश्चैव
वानरश्च
विशेषतः ।
वाचं
चोदाहरिष्यामि
मानुषीमिह
संस्कृताम् ॥ १७ ॥
रावणं
मन्यमाना
मां
सीता
भीता
भविष्यति ।
वानरस्य
विशेषेण
कथं
स्यादभिभाषणम् ॥ १८ ॥
अवश्यमेव
वक्तव्यं
मानुषं
वाक्यमर्थवत् ।
मया
सान्त्वयितुं
शक्या
नान्यथेयमनिन्दिता ॥ १९ ॥
सेयमालोक्य
मे
रूपं
जानकी
भाषितं
तथा ।
रक्षोभिस्त्रासिता
पूर्वं
भूयस्त्रासं
गमिष्यति ॥ २० ॥
ततो
जातपरित्रासा
शब्दं
कुर्यान्मनस्विनी ।
जानमाना
विशालाक्षी
रावणं
कामरूपिणम् ॥ २१ ॥
सीतया
च
कृते
शब्दे
सहसा
राक्षसीगणः ।
नानाप्रहरणो
घोरः
समेयादन्तकोपमः ॥ २२ ॥
ततो
मां
संपरिक्षिप्य
सर्वतो
विकृताननाः ।
वधे
च
ग्रहणे
चैव
कुर्युर्यत्नं
यथाबलम् ॥ २३ ॥
गृह्य
शाखाः
प्रशाखाश्च
स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा
विपरिधावन्तं
भवेयुर्भयशङ्किताः ॥ २४ ॥
मम
रूपं
च
सम्प्रेक्ष्य
वने
विचरतो
महत् ।
राक्षस्यो
भयवित्रस्ता
भवेयुर्विकृताननाः ॥ २५ ॥
ततः
कुर्युः
समाह्वानं
राक्षस्यो
रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां
राक्षसेन्द्रनिवेशने ॥ २६ ॥
ते
शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्देऽस्मिन्
वेगेनोद्विग्नकारिणः ॥ २७ ॥
संरुद्धस्तैस्तु
परितो
विधमन्
रक्षसां
बलम् ।
शक्नुयां
न
तु
संप्राप्तुं
परं
पारं
महोदधेः ॥ २८ ॥
मां
वा
गृह्णीयुराप्लुत्य
बहवः
शीघ्रकारिणः ।
स्यादियं
चागृहीतार्था
मम
च
ग्रहणं
भवेत् ॥ २९ ॥
हिंसाभिरुचयो
हिंस्युरिमां
वा
जनकात्मजाम् ।
विपन्नं
स्यात्ततः
कार्यं
रामसुग्रीवयोरिदम् ॥ ३० ॥
उद्देशे
नष्टमार्गेऽस्मिन्
राक्षसैः
परिवारिते ।
सागरेण
परिक्षिप्ते
गुप्त
वसति
जानकी ॥ ३१ ॥
विशस्ते
वा
गृहीते
वा
रक्षोभिर्मयि
संयुगे ।
नान्यं
पश्यामि
रामस्य
साहाय्यं
कार्यसाधने ॥ ३२ ॥
विमृशंश्च
न
पश्यामि
यो
हते
मयि
वानरः ।
शतयोजनविस्तीर्णं
लङ्गयेत
महोदधिम् ॥ ३३ ॥
कामं
हन्तुं
समर्थोऽस्मि
सहस्राण्यपि
रक्षसाम् ।
नतु
शक्ष्यामि
संप्राप्तुं
परं
पारं
महोदधेः ॥ ३४ ॥
असत्यानि
च
युद्धानि
संशयो
मे
न
रोचते ।
कश्च
निस्संशयं
कार्यं
कुर्यात्
प्राज्ञः
ससंशयम् ॥ ३५ ॥
प्राणत्यागश्च
वैदेह्या
भवेदनभिभाषणे ।
एष
दोषो
महान्
हि
स्यान्मम
सीताभिभाषणे ॥ ३६ ॥
भूताश्चार्था
विनश्यन्ति
देशकालविरोधिताः ।
विक्लवं
दूतमासाद्य
तमः
सूर्योदये
यथा ॥ ३७ ॥
अर्थानर्थान्तरे
बुद्धिर्निश्चिताऽपि
न
शोभते ।
घातयन्ति
हि
कार्याणि
दूताः
पण्डितमानिनः ॥ ३८ ॥
न
विनश्येत्
कथं
कार्यं
वैक्लव्यं
न
कथं
भवेत् ।
लङ्घनं
च
समुद्रस्य
कथं
नु
न
वृथा
भवेत् ॥ ३९ ॥
कथं
नु
खलु
वाक्यं
मे
श्रुणुयान्नोद्विजेत
वा ।
इति
सञ्चिन्त्य
हनुमांश्चकार
मतिमान्
मतिम् ॥ ४० ॥
राममक्लिष्टकर्माणं
स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि
तद्बन्धुगतमानसाम् ॥ ४१ ॥
इक्ष्वाकूणां
वरिष्ठस्य
रामस्य
विदितात्मनः ।
शुभानि
धर्मयुक्तानि
वचनानि
समर्पयन् ॥ ४२ ॥
श्रावयिष्यामि
सर्वाणि
मधुरां
प्रब्रुवन्
गिरम् ।
श्रद्धास्यति
यथा
हीयं
तथा
सर्वं
समादधे ॥ ४३ ॥
इति
स
बहुविधं
महानुभावो
जगतिपतेः
प्रमदामवेक्षमाणः ।
मधुरमवितथं
जगाद
वाक्यं
द्रुमविटपान्तरमास्थितो
हनूमान् ॥ ४४ ॥