ततः
शाखान्तरे
लीनं
दृष्ट्वा
चलितमानसा ।
वेष्टितार्जुनवस्त्रं
तं
विद्युत्सङ्घातपिङ्गलम् ॥ १ ॥
सा
ददर्श
कपिं
तत्र
प्रश्रितं
प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं
तप्तचामीकरेक्षणम् ॥ २ ॥
अहो
भीममिदं
रूपं
वानरस्य
दुरासदम् ।
दुर्निरीक्ष्यमिति
ज्ञात्वा
पुनरेव
मुमोह
सा ॥ ३ ॥
विललाप
भृशं
सीता
करुणं
भयमोहिता ।
रामरामेति
दुःखार्ता
लक्ष्मणेति
च
भामिनी ॥ ४ ॥
रुरोद
बहुधा
सीता
मन्दं
मन्दस्वरा
सती ।
सा
तं
दृष्ट्वा
हरिश्रेष्ठं
विनीतबदुपस्थितम् ॥ ५ ॥
मैथिली
चिन्तयामास
स्वप्नोऽयमिति
भामिनी ।
सा
वीक्षमाणा
पृथुभुग्नवक्त्रं
शाखामृगेन्द्रस्य
यथोक्तकारम् ॥ ६ ॥
ददर्श
पिङ्गधिपतेरमात्यं
वातात्मजं
बुद्धिमतां
वरिष्ठम् ।
सा
तं
समीक्ष्यैव
भृशं
विसञ्ज्ञा
गतासुकल्पेव
बभूव
सीता ॥ ७ ॥
चिरेण
सञ्ज्ञा
प्रतिलभ्य
भूयो
विचिन्तयामास
विशालनेत्रा ।
स्वप्ने
मयाऽयं
विकृतोऽद्य
दृष्टः
शाखामृगः
शास्त्रगणैर्निषिद्धः ॥ ८ ॥
स्वस्त्यस्तु
रामाय
सलक्ष्मणाय
तथा
पितुर्मे
जनकस्य
राज्ञः ।
स्वप्नोऽपि
नायं
नहि
मेऽस्ति
निद्रा
शोकेन
दुःखेन
च
पीडितायाः ॥ ९ ॥
सुखं
हि
मे
नास्ति
यतोऽस्मि
हीना
तेनेन्दुपूर्णप्रतिमाननेन ।
रामेति
रामेति
सदैव
बुद्ध्या
विचिन्त्य
वाचा
ब्रुवती
तमेव ॥ १० ॥
तस्यानुरूपां
च
कथां
तमर्तमेव
प्रपश्यामि
तथा
श्रृणोमि ।
अहं
हि
तस्याद्य
मनोभवेन
संपीडिता
तद्गतसर्वभावा ॥ ११ ॥
विचिन्तयन्ती
सततं
तमेव
तथैव
पश्यामि
तथा
शृणोमि ।
मनोरथः
स्यादिति
चिन्तयामि
तथापि
बुद्ध्या
च
वितर्कयामि ॥ १२ ॥
किं
कारणं
तस्य
हि
नास्ति
रूपं
सुव्यक्तरूपश्च
वदत्ययं
माम् ।
नमोऽस्तु
वाचस्पतये
सवज्रिणे
स्वयम्भुवे
चैव
हुताशनाय
च ॥ १३ ॥
अनेन
चोक्तं
यदिदं
ममाग्रतो
वनौकसा
तच्च
तथाऽस्तु
नान्यथा ॥ १४ ॥