तस्यास्तद्वचनं
श्रुत्वा
हनुमान्
हरियूथपः ।
दुःखाद्दुःखाभिभूतायाः
सान्त्वमुत्तरमब्रवीत् ॥ १ ॥
अहं
रामस्य
सन्देशाद्देवि
दूतस्तवागतः ।
वैदेहि
कुशली
रामस्त्वां
च
कौशलमब्रवीत् ॥ २ ॥
यो
ब्राह्ममस्त्रं
वेदांश्च
वेद
वेदविदां
वरः ।
स
त्वां
दाशरथी
रामो
देवि
कौशलमब्रवीत् ॥ ३ ॥
लक्ष्मणश्च
महातेजा
भर्तुस्तेऽनुचरः
प्रियः ।
कृतवाञ्छोकसन्तप्तः
शिरसा
तेऽभिवादनम् ॥ ४ ॥
सा
तयोः
कुशलं
देवी
निशम्य
नरसिंहयोः ।
प्रीतिसंहृष्टसर्वाङ्गी
हनुमन्तमथाब्रवीत् ॥ ५ ॥
कल्याणी
बत
गाथेयं
लौकिकी
प्रतिभाति
मा ।
एति
जीवन्तमानन्दो
नरं
वर्षशतादपि ॥ ६ ॥
तया
समागते
तस्मिन्
प्रीतिरुत्पादिताऽद्भुता ।
परस्परेण
चालापं
विश्वस्तौ
तौ
प्रचक्रतुः ॥ ७ ॥
तस्यास्तद्वचनं
श्रुत्वा
हनुमान्
हरियूथपः ।
सीतायाः
शोकदीनायाः
समीपमुपचक्रमे ॥ ८ ॥
यथा
यथा
समीपं
स
हनुमानुपसर्पति ।
तथा
तथा
रावणं
सा
तं
सीता
परिशङ्कते ॥ ९ ॥
अहो
धिग्
दुष्कृतमिदं
कथितं
हि
यदस्य
मे ।
रूपान्तरमुपागम्य
स
एवायं
हि
रावणः ॥ १० ॥
तामशोकस्य
शाखां
सा
विमुक्ता
शोककर्शिता ।
तस्यामेवानवद्याङ्गी
धरण्यां
समुपाविशत् ॥ ११ ॥
अवन्दत
महाबाहुस्ततस्तां
जनकात्मजाम् ।
सा
चैनं
भयवित्रस्ता
भूयो
नैवाभ्युदैक्षत ॥ १२ ॥
तं
दृष्ट्वा
वन्दमानं
तु
सीता
शशिनिभानना ।
अब्रवीद्दीर्घमुच्छ्वस्य
वानरं
मधुरस्वरा ॥ १३ ॥
मायां
प्रविष्टो
मायावी
यदि
त्वं
रावणः
स्वयम् ।
उत्पादयसि
मे
भूयः
सन्तापं
तन्न
शोभनम् ॥ १४ ॥
स्वं
परित्यज्य
रूपं
यः
परिव्राजकरूपधृत् ।
जनस्थाने
मया
दृष्टस्त्वं
स
एवासि
रावणः ॥ १५ ॥
उपवासकृशां
दीनां
कामरूप
निशाचर ।
सन्तापयसि
मां
भूयः
सन्तप्तां
तन्न
शोभनम् ॥ १६ ॥
अथवा
नैतदेवं
हि
यन्मया
परिशङ्कितम् ।
मनसो
हि
मम
प्रीतिरुत्पन्ना
तव
दर्शनात् ॥ १७ ॥
पृच्छामि
त्वां
हरिश्रेष्ठ
प्रिया
रामकथा
हि
मे ।
गुणान्
रामस्य
कथय
प्रियस्य
मम
वानर ॥ १८ ॥
चित्तं
हरसि
मे
सौम्य
नदीकूलं
यथा
रयः ।
अहो
स्वप्नस्य
सुखता
याऽहमेंव
चिराहृता ॥ १९ ॥
प्रेषितं
नाम
पश्यामि
राघवेण
वनौकसम् ।
स्वप्नेऽपि
यद्यहं
वीरं
राघवं
सहलक्ष्मणम् ॥ २० ॥
पश्येयं
नावसीदेयं
स्वप्नोऽपि
मम
मत्सरी ।
नाहं
स्वप्नमिमं
मन्ये
स्वप्ने
दृष्ट्वा
हि
वानरम् ॥ २१ ॥
न
शक्योऽभ्युदयः
प्राप्तुं
प्राप्तश्चाभ्युदयो
मम ।
किन्नु
स्याच्चित्तमोहोऽयं
भवेद्वातगतिस्त्वियम् ॥ २२ ॥
उन्मादजो
विकारो
वा
स्यादियं
मृगतृष्णिका ।
अथवा
नायमुन्मादो
मोहोऽप्युन्मादलक्षणः ॥ २३ ॥
संबुद्ध्ये
चाहमात्मानमिमं
चापि
वनौकसम् ।
इत्येवं
बहुधा
सीता
संप्रधार्य
बलाबलम् ॥ २४ ॥
रक्षसां
कामरूपत्वान्मेने
तं
राक्षसाधिपम् ।
एतां
बुद्धिं
तदा
कृत्वा
सीता
सा
तनुमध्यमा ॥ २५ ॥
न
प्रतिव्याजहाराथ
वानरं
जनकात्मजा ।
सीतायाश्चिन्तितं
बुद्ध्वा
हनुमान्
मारुतात्मजः ॥ २६ ॥
श्रोत्रानुकूलैर्वचनैस्तदा
तां
सम्प्रहर्षयत् ।
राजा
सर्वस्य
लोकस्य
देवो
वैश्रवणो
यथा ॥ २७ ॥
विक्रमेणोपपन्नश्च
यथा
विष्णुर्महायशाः ।
सत्यवादी
मधुरवाग्
देवो
वाचस्पतिर्यथा ॥ २८ ॥
रूपवान्
सुभगः
श्रीमान्
कन्दर्प
इव
मूर्तिमान् ।
स्थानक्रोधः
प्रहर्ता
च
श्रेष्ठो
लोके
महारथः ॥ २९ ॥
बाहुच्छायामवष्टब्धो
यस्य
लोको
महात्मनः ।
अपकृष्याश्रमपदान्मृगरूपेण
राघवम् ॥ ३० ॥
शून्ये
येनापनीताऽसि
तस्य
द्क्ष्यसि
यत्फलम् ।
नचिराद्रावणं
सङ्ख्ये
यो
वधिष्यति
वीर्यवान् ॥ ३१ ॥
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव
पावकैः ।
तेनाहं
प्रेषितो
दूतस्त्वत्सकाशमिहागतः ॥ ३२ ॥
त्वद्वियोगेन
दुःखार्तः
स
त्वां
कौशलमब्रवीत् ।
लक्ष्मणश्च
महातेजाः
सुमित्रानन्दवर्धनः ॥ ३३ ॥
अभिवाद्य
महाबाहुः
स
त्वां
कौशलमब्रवीत् ।
रामस्य
च
सखा
देवि
सुग्रीवो
नाम
वानरः ॥ ३४ ॥
राजा
वानरमुख्यानां
स
त्वां
कौशलमब्रवीत् ।
नित्यं
स्मरति
रामस्त्वां
ससुग्रीवः
सलक्ष्मणः ॥ ३५ ॥
दिष्ट्या
जीवसि
वैदेहि
राक्षसीवशमागता ।
नचिराद्द्रक्ष्यसे
रामं
लक्ष्मणं
च
महाबलम् ॥ ३६ ॥
मध्ये
वानरकोटीनां
सुग्रीवं
चामितौजसम् ।
अहं
सुग्रीवसचिवो
हनुमान्नाम
वानरः ॥ ३७ ॥
प्रविष्टो
नगरीं
लङ्कां
लङ्घयित्वा
महोदधिम् ।
कृत्वा
मूर्ध्नि
पदन्यासं
रावणस्य
दुरात्मनः ॥ ३८ ॥
त्वां
द्रष्टुमुपयातोऽहं
समाश्रित्य
पराक्रमम् ।
नाहमस्मि
तथा
देवि
यथा
मामवगच्छसि ॥ ३९ ॥
विशङ्का
त्यज्यतामेषा
श्रद्धत्स्व
वदतो
मम ॥ ४० ॥