भूय
एव
महातेजा
हनुमान्
मारुतात्मजः ।
अब्रवीत्
प्रश्रितं
वाक्यं
सीताप्रत्ययकारणात् ॥ १ ॥
वानरोऽहं
महाभागे
दूतो
रामस्य
धीमतः ।
रामनामाङ्कितं
चेदं
पश्य
देव्यङ्गुलीयकम् ॥ २ ॥
प्रत्ययार्थं
तवानीतं
तेन
दत्तं
महात्मना ।
समाश्वसिहि
भद्रं
ते
क्षीणदुःखफला
ह्यसि ॥ ३ ॥
गृहीत्वा
प्रेक्षमाणा
सा
भर्तुः
करविभूषणम् ।
भर्तारमिव
सम्प्राप्ता
जानकी
मुदिताऽभवत् ॥ ४ ॥
चारु
तद्वदनं
तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत
विशालाक्ष्या
राहुमुक्त
इवोडुराट् ॥ ५ ॥
ततः
सा
ह्रीमती
बाला
भर्तृसन्देशहर्षिता ।
परितुष्टा
प्रियं
कृत्वा
प्रशशंस
महाकपिम् ॥ ६ ॥
विक्रान्तस्त्वं
समर्थस्त्वं
प्राज्ञस्त्वं
वानरोत्तम ।
येनेदं
राक्षसपदं
त्वयैकेन
प्रधर्षितम् ॥ ७ ॥
शतयोजनविस्तीर्णः
सागरो
मकरालयः ।
विक्रमश्लाघनीयेन
क्रमता
गोष्पदीकृतः ॥ ८ ॥
नहि
त्वां
प्राकृतं
मन्ये
वानरं
वानरर्षभ ।
यस्य
ते
नास्ति
सन्त्रासो
रावणान्नापि
सम्भ्रमः ॥ ९ ॥
अर्हसे
च
कपिश्रेष्ठ
मया
समभिभाषितुम् ।
यद्यपि
प्रेषितस्तेन
रामेण
विदितात्मना ॥ १० ॥
प्रेषयिष्यति
दुर्धषो
रामो
न
ह्यपरीक्षितम् ।
पराक्रममविज्ञाय
मत्सकाशं
विशेषतः ॥ ११ ॥
दिष्ट्या
च
कुशली
रामो
धर्मात्मा
सत्यसङ्गरः ।
लक्ष्मणश्च
महातेजाः
सुमित्रानन्दवर्धनः ॥ १२ ॥
कुशली
यदि
काकुत्स्थः
किन्नु
सागरमेखलाम् ।
महीं
दहति
कोपेन
युगान्ताग्निरिवोत्थितः ॥ १३ ॥
अथवा
शक्तिमन्तौ
तौ
सुराणामपि
निग्रहे ।
ममैव
तु
न
दुःखानामस्ति
मन्ये
विपर्ययः ॥ १४ ॥
कच्चिन्न
व्यथितो
रामः
कच्चिन्न
परितप्यते ।
उत्तराणि
च
कार्याणि
कुरुते
पुरुषोत्तमः ॥ १५ ॥
कच्चिन्न
दीनः
सम्भ्रान्तः
कार्येषु
च
न
मुह्यति ।
कच्चित्
पुर्षकार्याणि
कुरुते
नृपतेः
सुतः ॥ १६ ॥
द्विविधं
त्रिविधोपायमुपायमपि
सेवते ।
विजिगीषुः
सुहृत्
कच्चिन्मित्रेषु
च
परन्तपः ॥ १७ ॥
कच्चिन्मित्राणि
लभते
मित्रैश्चाप्यभिगम्यते ।
कच्चित्
कल्याणमित्रश्च
मित्रैश्चापि
पुरस्कृतः ॥ १८ ॥
कच्चिदाशास्ति
देवानां
प्रसादं
पार्थिवात्मजः ।
कच्चित्
पुरुषकारं
च
दैवं
च
प्रतिपद्यते ॥ १९ ॥
कच्चिन्न
विगतस्नेहः
प्रसादान्मयि
राघवः ।
कच्चिन्मां
व्यसनादस्मान्मोक्षयिष्यति
वानर ॥ २० ॥
सुखानामुचितो
नित्यमसुखानामनूचितः ।
दुःखमुत्तरमासाद्य
कच्चिद्रामो
न
सीदति ॥ २१ ॥
कौसल्यायास्तथा
कच्चित्
सुमित्रायास्तथैव
च ।
अभीक्ष्णं
श्रुयते
कच्चित्
कुशलं
भरतस्य
च ॥ २२ ॥
मन्निमित्तेन
मानार्हः
कच्चिच्छोकेन
राघवः ।
कच्चिन्नान्यमना
रामः
कच्चिन्मां
तारयिष्यति ॥ २३ ॥
कच्चिदक्षौहिणीं
भीमां
भरतो
भ्रातृवत्सलः ।
ध्वजिनीं
मन्त्रिभिर्गुप्तां
प्रेषयिष्यति
मत्कृते ॥ २४ ॥
वानराधिपतिः
श्रीमान्
सुग्रीवः
कच्चिदेष्यति ।
मत्कृते
हरिभिर्वीरैर्वृतो
दन्तनखायुधैः ॥ २५ ॥
कच्चिच्च
लक्ष्मणः
शूरः
सुमित्रानन्दवर्धनः ।
अस्त्रविच्छरजालेन
राक्षसान्
विधमिष्यति ॥ २६ ॥
रौद्रेण
कच्चिदस्त्रेण
ज्वलता
निहतं
रणे ।
द्रक्ष्याम्यल्पेन
कालेन
रावणं
ससुहृज्जनम् ॥ २७ ॥
कच्चिन्न
तद्धेमसमानवर्णं
तस्याननं
पद्मसमानगन्धि ।
मया
विना
शुष्यति
शोकदीनं
जलक्षये
पद्ममिवातपेन ॥ २८ ॥
धर्मापदेशात्त्यजतश्च
राज्यं
मां
चाप्यरण्यं
नयतः
पदातिम् ।
नासीद्व्यथा
यस्य
न
भीर्न
शोकः
कच्चिच्च
धैर्यं
हृदये
करोति ॥ २९ ॥
न
चास्य
माता
न
पिता
च
नान्यः
स्नेहाद्विशिष्टोऽस्ति
मया
समो
वा ।
तावत्त्वहं
दूत
जिजीविषेयं
यावत्
प्रवृत्तिं
श्रृणुयां
प्रियस्य ॥ ३० ॥
इतीव
देवी
वचनं
महार्थं
तं
वानरेन्द्रं
मधुरार्थमुक्त्वा ।
श्रोतुं
पुनस्तस्य
वचोऽभिरामं
रामार्थयुक्तं
विरराम
रामा ॥ ३१ ॥
सीताया
वचनं
श्रुत्वा
मारुतिर्भीमविक्रमः ।
शिरस्यञ्जलिमाधाय
वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥
न
त्वामिहस्थां
जानीते
रामः
कमललोचने ।
तेन
त्वां
नानयत्याशु
शचीमिव
पुरन्दरः ॥ ३३ ॥
श्रुत्वैव
तु
वचो
मह्यं
क्षिप्रमेष्यति
राघवः ।
चमूं
प्रकर्षन्
महतीं
हर्यृक्षगणसङ्कुलाम् ॥ ३४ ॥
विष्टम्भयित्वा
बाणौधैरक्षोभ्यं
वरुणालयम् ।
करिष्यति
पुरीं
लङ्कां
काकुत्स्थः
शान्तराक्षसाम् ॥ ३५ ॥
तत्र
यद्यन्तरा
मृत्युर्यदि
देवाः
सहासुराः ।
स्थास्यन्ति
पथि
रामस्य
स
तानपि
वधिष्यति ॥ ३६ ॥
तवादर्शनजेनार्ये
शोकेन
स
परिप्लुतः ।
न
शर्म
लभते
रामः
सिंहार्दित
इव
द्विपः ॥ ३७ ॥
मलयेन
च
विन्ध्येन
मेरुणा
मन्दरेण
च ।
दर्दुरेण
च
ते
देवि
शपे
मूलफलेन
च ॥ ३८ ॥
यथा
सुनयनं
वल्गु
बिम्बोष्ठं
चारुकुण्डलम् ।
मुखं
द्रक्ष्यसि
रामस्य
पूर्णचन्द्रमिवोदितम् ॥ ३९ ॥
क्षिप्रं
द्रक्ष्यासि
वैदेहि
रामं
प्रस्रवणे
गिरौ ।
शतक्रतुमिवासीनं
नाकपृष्ठस्य
मूर्धनि ॥ ४० ॥
न
मांसं
राघवो
भुङ्क्ते
न
चापि
मधु
सेवते ।
वन्यं
सुविहितं
नित्यं
भक्तमश्नाति
पञ्चमम् ॥ ४१ ॥
नैव
दंशान्न
मशकान्
न
कीटान्न
सरीसृपान् ।
राघवोऽपनयेद्गात्रात्
त्वद्गतेनान्तरात्मना ॥ ४२ ॥
नित्यं
ध्यानपरो
रामो
नित्यं
शोकपरायणः ।
नान्यच्चिन्तयते
किञ्चित्
स
तु
कामवशं
गतः ॥ ४३ ॥
अनिद्रः
सततं
रामः
सुप्तोऽपि
च
नरोत्तमः ।
सीतेति
मधुरां
वाणीं
व्याहरन्
प्रतिबुद्ध्यते ॥ ४४ ॥
दृष्ट्वा
फलं
वा
पुष्पं
वा
यद्वाऽन्यत्
सुमनोहरम् ।
बहुशो
हा
प्रियेत्येवं
श्वसंस्त्वामभिभाषते ॥ ४५ ॥
स
देवि
नित्यं
परितप्यमानस्त्वामेव
सीतेत्यभिभाषमाणः ।
दृढव्रतो
राजसुतो
महात्मा
तवैव
लाभाय
कृतप्रयत्नः ॥ ४६ ॥
सा
रामसङ्कीर्तनवीतशोका
रामस्य
शोकेन
समानशोका ।
शरन्मुखे
साम्बुदशेषचन्द्रा
निशेव
वैदेहसुता
बभूव ॥ ४७ ॥