सीता
तद्वचनं
श्रुत्वा
पूर्णचन्द्रनिभानना ।
हनूमन्तमुवाचेदं
धर्मार्थसहितं
वचः ॥ १ ॥
अमृतं
विषसंसृष्टं
त्वया
वानरभाषितम् ।
यच्च
नान्यमना
रामो
यच्च
शोकपरायणः ॥ २ ॥
ऐश्वर्ये
वा
सुविस्तीर्णे
व्यसने
वा
सुदारुणे ।
रज्ज्वेव
पुरुषं
बद्ध्वा
कृतान्तः
परिकर्षति ॥ ३ ॥
विधिर्नूनमसंहार्थः
प्राणिनां
प्लवगोत्तम ।
सौमित्रिं
मां
च
रामं
च
व्यसनैः
पश्य
मोहितान् ॥ ४ ॥
शोकस्यास्य
कदा
पारं
राघवोऽधिगमिष्यति ।
प्लवमानः
परिश्रान्तो
हतनौः
सागरे
यथा ॥ ५ ॥
राक्षसानां
वधं
कृत्वा
सूदयित्वा
च
रावणम् ।
लङ्कामुन्मूलितां
कृत्वा
कदा
द्रक्ष्यति
मां
पतिः ॥ ६ ॥
स
वाच्यः
सन्त्वरस्वेति
यावदेव
न
पूर्यते ।
अयं
संवत्सरः
कालस्तावद्धि
मम
जीवितम् ॥ ७ ॥
वर्तते
दशमो
मासो
द्वौ
तु
शेषौ
प्लवङ्गम ।
रावणेन
नृशंसेन
समयो
यः
कृतो
मम ॥ ८ ॥
विभीषणेन
च
भ्रात्रा
मम
निर्यातनं
प्रति ।
अनुनीतः
प्रयत्नेन
न
च
तत्
कुरुते
मतिम् ॥ ९ ॥
मम
प्रतिप्रदानं
हि
रावणस्य
न
रोचते ।
रावणं
मार्गते
सङ्ख्ये
मृत्युः
कालवशं
गतम् ॥ १० ॥
ज्येष्टा
कन्याऽनला
नाम
विभीषणसुता
कपे ।
तया
ममेदमाख्यातं
मात्रा
प्रहितया
स्वयम् ॥ ११ ॥
असंशयं
हरिश्रेष्ठ
क्षिप्रं
मां
प्राप्स्यते
पतिः ।
अन्तरात्मा
हि
मे
शुद्धस्तस्मिंश्च
बहवो
गुणाः ॥ १२ ॥
उत्साहः
पौरुषं
सत्त्वमानृशंस्यं
कृतज्ञता ।
विक्रमश्च
प्रभावश्च
सन्ति
वानर
राघवे ॥ १३ ॥
चतुर्दश
सहस्राणि
राक्षसानां
जघान
यः ।
जनस्थाने
विना
भ्रात्रा
शत्रुः
कस्तस्य
नोद्विजेत् ॥ १४ ॥
न
स
शक्यस्तुलयितुं
व्यसनैः
पुरुषर्षभः ।
अहं
तस्य
प्रभावज्ञाशक्रस्येव
पुलोमजा ॥ १५ ॥
शरजालांशुमाञ्छूरः
कपे
रामदिवाकरः ।
शत्रुरक्षोमयं
तोयमुपशोषं
नयिष्यति ॥ १६ ॥
इति
सञ्जल्पमानां
तां
रामार्थे
शोककर्शिताम् ।
अश्रुसम्पूर्णनयनामुवाच
वचनं
कपिः ॥ १७ ॥
कृत्वैव
तु
वयो
मह्यं
क्षिप्रमेष्यति
राघवः ।
चमूं
प्रकर्षन्
महतीं
हर्यृक्षगणसङ्कुलाम् ॥ १८ ॥
अथवा
मोचयिष्यामि
त्वामद्यैव
वरानने ।
अस्माद्दुःखादुपारोह
मम
पृष्ठमनिन्दिते ॥ १९ ॥
त्वां
तु
पृष्ठगतां
कृत्वा
सन्तरिष्यामि
सागरम् ।
शक्तिरस्ति
हि
मे
वोढुं
लङ्कामपि
सरावणाम् ॥ २० ॥
द्रक्ष्यस्यद्यैव
वैदेहि
राघवं
सह
लक्ष्मणम् ।
व्यवसायसमायुक्तं
विष्णुं
दैत्यवदे
यथा ॥ २१ ॥
त्वद्दर्शनकृतोत्साहमाश्रमस्थं
महाबलम् ।
पुरन्दरमिवासीनं
नाकराजस्य
मूर्धनि ॥ २२ ॥
पृष्ठमारोह
मे
देवि
मा
विकाङ्क्षस्व
शोभने ।
योगमन्विच्छ
रामेण
शशाङ्केनेव
रोहिणी ॥ २३ ॥
कथयन्तीव
चन्द्रेण
सूर्येण
च
महार्चिषा ।
मत्पृष्टमधिरुह्य
त्वं
तराकाशमहार्णवौ ॥ २४ ॥
न
हि
मे
संप्रयातस्य
त्वामितो
नयतोऽङ्गने ।
अनुगन्तुं
गतिं
शक्ताः
सर्वे
लङ्कानिवासिनः ॥ २५ ॥
यथैवाहमिह
प्राप्तस्तथैवाहमसंशयः ।
यास्यामि
पश्य
वैदेहि
त्वामुद्यम्य
विहायसम् ॥ २६ ॥
मैथिली
तु
हरिश्रेष्ठात्
श्रुत्वा
वचनमद्भुतम् ।
हर्षविस्मितसर्वाङ्गी
हनुमन्तमथाब्रवीत् ॥ २७ ॥
हनुमन्
दूरमध्वानं
कथं
मां
वोढुमिच्छसि ।
तदेव
खलु
ते
मन्ये
कपित्वं
हरियूथप ॥ २८ ॥
कथं
वाऽल्पशरीरस्त्वं
मामितो
नेतुमिच्छसि ।
सकाशं
मानवेन्द्रस्य
भर्तुर्मे
प्लवगर्षभ ॥ २९ ॥
सीताया
वचनं
श्रुत्वा
हनुमान्
मारुतात्मजः ।
चिन्तयामास
लक्ष्मीवान्
नवं
परिभवं
कृतम् ॥ ३० ॥
न
मे
जानाति
सत्त्वं
वा
प्रभावं
वाऽसितेक्षणा ।
तस्मात्
पश्यतु
वैदही
यद्रूपं
मम
कामतः ॥ ३१ ॥
इति
सञ्चिन्त्य
हनुमांस्तदा
प्लवगसत्तमः ।
दर्शयामास
वैदेह्याः
स्वरूपमरिमर्दनः ॥ ३२ ॥
स
तस्मात्
पादपाद्धीमानाप्लुत्य
प्लवगर्षभः ।
ततो
वर्धितुमारेभे
सीताप्रत्ययकारणात् ॥ ३३ ॥
मेरुमन्दरसङ्काशो
बभौ
दीप्तानलप्रभः ।
अग्रतो
व्यवतस्थे
च
सीताया
वानरोत्तमः ॥ ३४ ॥
हरिः
पर्वतसङ्काशस्ताम्रवक्त्रो
महाबलः ।
वज्रदंष्ट्रनखो
भीमो
वैदेहीमिदमब्रवीत् ॥ ३५ ॥
सपर्वतवनोद्देशां
साट्टप्रकारतोरणाम् ।
लङ्कामिमां
सनाथां
व
नयितुं
शक्तिरस्ति
मे ॥ ३६ ॥
तदवस्थाप्यतां
बुद्धिरलं
देवि
विकाङ्क्षया ।
विशोकं
कुरु
वैदेहि
राघवं
सहलक्ष्मणम् ॥ ३७ ॥
तं
दृष्ट्वा
भीमसङ्काशमुवाच
जनकात्मजा ।
पद्मपत्रविशालाक्षी
मारुतस्यौरसं
सुतम् ॥ ३८ ॥
तव
सत्त्वं
बलं
चैव
विजानामि
महाकपे ।
वायोरिव
गतिं
चापि
तेजश्चाग्नेरिवाद्भुतम् ॥ ३९ ॥
प्राकृतोऽन्यः
कथं
चेमां
भूमिमागन्तुमर्हति ।
उदधेरप्रमेयस्य
पारं
वानरपुङ्गव ॥ ४० ॥
जानामि
गमने
शक्तिं
नयने
चापि
ते
मम ।
अवश्यं
संप्रधार्याशु
कार्यसिद्धिर्महात्मनः ॥ ४१ ॥
अयुक्तं
तु
कपिश्रेष्ठ
मम
गन्तुं
त्वयाऽनघ ।
वायुवेगसवेगस्य
वेगो
मां
मोहयेत्तव ॥ ४२ ॥
अहमाकाशमापन्ना
ह्युपर्युपरि
सागरम् ।
प्रपतेयं
हि
ते
पृष्ठाद्भयाद्
वेगेन
गच्छतः ॥ ४३ ॥
पतिता
सागरे
चाहं
तिमिनक्रझषाकुले ।
भवेयमाशु
विवशा
यादसामन्नमुत्तमम् ॥ ४४ ॥
न
च
शक्ष्ये
त्वया
सार्धं
गन्तुं
शत्रुविनाशन ।
कलत्रवति
सन्देहस्त्वय्यपि
स्यादसंशयः ॥ ४५ ॥
ह्रियमाणं
तु
मां
दृष्ट्वा
राक्षसा
भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा
रावणेन
दुरात्मना ॥ ४६ ॥
तैस्त्वं
परिवृतः
शूरैः
शूलमुद्गरपाणिभिः ।
भवेस्त्वं
संशयं
प्राप्तो
मया
वीर
कलत्रवान् ॥ ४७ ॥
सायुधा
बहवो
व्योम्नि
राक्षसास्त्वं
निरायुधः ।
कथं
शक्ष्यसि
संयातुं
मां
चैव
परिरक्षितुम् ॥ ४८ ॥
युद्ध्यमानस्य
रक्षोभिस्तव
तैः
क्रूरकर्मभिः ।
प्रपतेयं
हि
ते
पृष्ठाद्
भयार्ता
कपिसत्तम ॥ ४९ ॥
अथ
रक्षांसि
भीमानि
महान्ति
बलवन्ति
च ।
कथञ्चित्
साम्पराये
त्वां
जयेयुः
कपिसत्तम ॥ ५० ॥
अथवा
युद्ध्यमानस्य
पतेयं
विमुखस्य
ते ।
पतितां
च
गृहीत्वा
मां
नयेयुः
पापराक्षसाः ॥ ५१ ॥
मां
वा
हरेयुस्त्वद्धस्ताद्
विशसेयुरथापि
वा ।
अव्यवस्थौ
हि
दृश्येते
युद्धे
जयपराजयौ ॥ ५२ ॥
अहं
वापि
विपद्येयं
रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो
हरिश्रोष्ठ
भवेन्निष्फल
एव
तु ॥ ५३ ॥
कामं
त्वमसि
पर्याप्तौ
निहन्तुं
सर्वराक्षसान् ।
राघवस्य
यशो
हीयेत्त्वया
शस्तैस्तु
राक्षसैः ॥ ५४ ॥
यत्र
ते
नाभिजानीयुर्हरयो
नापि
राघवौ ।
आरम्भस्तु
मदर्थोऽयं
ततस्तव
निरर्थकः ॥ ५५ ॥
त्वया
हि
सह
रामस्य
महानागमने
गुणः ।
मयि
जीवितमायत्तं
राघवस्य
महात्मनः ॥ ५६ ॥
भ्रातॄणां
च
महाबाहो
तव
राजकुलस्य
च ।
तौ
निराशौ
मदर्थं
तु
शोकसन्तापकर्शितौ ॥ ५७ ॥
सह
सर्वर्क्षहरिभिस्त्यक्ष्यतः
प्राणसङ्ग्रहम् ।
भर्तृमक्तिं
पुरस्कृत्य
रामादन्यस्य
वानर ॥ ५८ ॥
न
स्पृशामि
शरीरं
तु
पुंसो
वाररपुङ्गवः ।
यदहं
गात्रसंस्पर्शं
रावणस्य
बलाद्गता ॥ ५९ ॥
अनीशा
किं
करिष्यामि
विनाथा
विवशा
सती ।
यदि
रामो
दशग्रीवमिह
हत्वा
सबान्धवम् ॥ ६० ॥
मामितो
गृह्य
गच्छेत
तत्तस्य
सदृशं
भवेत् ।
श्रुता
हि
दृष्टाश्च
मया
पराक्रमा
महात्मनस्तस्य
रणावमर्दिनः ॥ ६१ ॥
न
देवगन्धर्वभुजङ्गराक्षसा
भवन्ति
रामेण
समा
हि
संयुगे ।
समीक्ष्य
तं
संयति
चित्रकार्मुकं
महाबलं
वासवतुल्यविक्रमम् ॥ ६२ ॥
सलक्ष्मणं
को
विषहेत
राघवं
हुताशनं
दीप्तमिवानिलेरितम् ।
सलक्ष्मणं
राघवमाजिमर्दनं
दिशागजं
मत्तमिव
व्यवस्थितम् ॥ ६३ ॥
सहेत
को
वानरमुख्य
संयुगे
युगान्तसूर्यप्रतिमं
शरार्चिषम् ।
स
मे
हरिश्रेष्ठ
सलक्ष्मणं
पतिं
सयूथपं
क्षिप्रमिहोपपादय ॥ ६४ ॥
चिराय
रामं
प्रति
शोककर्शितां
कुरुष्व
मां
वानरमुख्य
हर्षिताम् ॥ ६५ ॥