मणिं
दत्त्वा
ततः
सीता
हनुमन्तमथाब्रवीति ।
अभिज्ञानमभिज्ञातमेतद्रामस्य
तत्त्वतः ॥ १ ॥
मणिं
तु
दृष्ट्वा
रामो
वै
त्रयाणां
संस्मरिष्यति ।
वीरो
जनन्या
मम
च
राज्ञो
दशरथस्य
च ॥ २ ॥
स
भूयस्त्वं
समुत्साहे
चोदितो
हरिसत्तम ।
अस्मिन्
कार्यसमारम्भे
प्रचिन्तय
यदुत्तरम् ॥ ३ ॥
हनुमन्
यत्नमास्थाय
दुःखक्षयकरो
भव ।
तस्य
चिन्तयतो
यत्नो
दुःखक्षयकरो
भवेत् ॥ ४ ॥
स
तथेति
प्रतिज्ञाय
मारुतिर्भीमविक्रमः ।
शिरसाऽऽवन्द्य
वैदेहीं
गमनायोपचक्रमे ॥ ५ ॥
ज्ञत्वा
संप्रस्थितं
देवी
वानरं
मारुतात्मजम् ।
बाष्पगद्गदया
वाचा
मैथिली
वाक्यमब्रवीत् ॥ ६ ॥
कुशलं
हनुमन्
ब्रूयाः
सहितौ
रामलक्ष्मणौ ।
सुग्रीवं
च
सहामात्यं
वृद्धान्
सर्वांश्च
वाररान् ॥ ७ ॥
ब्रूयास्त्वं
वानरश्रेष्ठ
कुशलं
धर्मसंहितम् ।
यथा
स
च
महाबाहुर्मां
तारयति
राघवः ॥ ८ ॥
अस्माद्दुःखाम्बुसंरोधात्त्वं
समाधातुमर्हसि ।
जीवन्तीं
मां
यथा
रामः
सम्भावयति
कीर्तिमान् ॥ ९ ॥
तत्तथा
हनुमन्
वाच्यं
वाचा
धर्ममवाप्नुहि ।
नित्यमुत्साहयुक्ताश्च
वाचः
श्रुत्वा
त्वयेरिताः ॥ १० ॥
वर्धिष्यते
दाशरथेः
पौरुषं
मदवाप्तये ।
मत्सन्देशयुता
वाचस्त्वत्तः
श्रुत्वैव
राघवः ॥ ११ ॥
पराक्रमविधिं
वीरो
विधिवत्
संविधास्यति ।
सीताया
वचनं
श्रुत्वा
हनुमान्
मारुतात्मजः ॥ १२ ॥
शिरस्यञ्जलिमाधाय
वाक्यमुत्तरब्रवीत् ।
क्षिप्रमेष्यति
काकुत्स्थो
हर्यृक्षप्रवरैर्वृतः ॥ १३ ॥
यस्ते
युधि
विजित्यारीन्
शोकं
व्यपनयिष्यति ।
नहि
पश्यामि
मर्त्येषु
नासुरेषु
सुरेषु
वा ॥ १४ ॥
यस्तस्य
क्षिपतो
बाणान्
स्थातुमुत्सहतोऽग्रतः ।
अप्यर्कमपि
पर्जन्यमपि
वैवस्वतं
यमम् ॥ १५ ॥
सहि
सोढुं
रणे
शक्तस्तव
हेतोर्विशेषतः ।
स
हि
सागरपर्यन्तां
महीं
शासितुमीहते ॥ १६ ॥
त्वन्निमित्तो
हि
रामस्य
जयो
जनकनन्दिनि ।
तस्य
तद्वचनं
श्रुत्वा
सम्यक्
सत्यं
सुभाषितम् ॥ १७ ॥
जानकी
बहुमेनेऽथ
वचनं
चेदमब्रवीत् ।
ततस्तं
प्रस्थितं
सीता
वीक्षमाणा
पुनः
पुनः ॥ १८ ॥
भर्तृस्नेहान्वितं
वाक्यं
सौहार्दादनुमानयत् ।
यदि
वा
मन्यसे
वीर
वसैकाहमरिन्दम ॥ १९ ॥
कस्मिंश्चित्
संवृते
देशे
विश्रान्तः
श्वो
गमिष्यसि ।
मम
चेदल्पभाग्यायाः
सान्निध्यात्तव
वानर ॥ २० ॥
अस्य
शोकस्य
महतो
मुहूर्तं
मोक्षणं
भवेत् ।
गते
हि
हरिशार्दूल
पुनरागमनाय
तु ॥ २१ ॥
प्राणानामपि
सन्देहो
मम
स्यान्नात्र
संशयः ।
तवादर्शनजः
शोको
भूयो
मां
परितापयेत् ॥ २२ ॥
दुःखाद्दुःखपरामृष्टां
दीपयन्निव
वानर ।
अयं
च
वीर
सन्देहस्तिष्ठतीव
ममाग्रतः ॥ २३ ॥
सुमहांस्त्वत्सहायेषु
हर्यृक्षेषु
हरीश्वर ।
कथं
नु
खलु
दुष्पारं
तरिष्यन्ति
महोदधिम् ॥ २४ ॥
तानि
हर्यृक्षसैन्यानि
तौ
वा
नरवरात्मजौ ।
त्रयाणामेव
भूतानां
सागरस्यास्य
लङ्घने ॥ २५ ॥
शक्तिः
स्याद्वैनतेयस्य
तव
वा
मारुतस्य
वा ।
तदस्मिन्
कार्यनिर्योगे
वीरैवं
दुरतिक्रमे ॥ २६ ॥
किं
पश्यसि
समाधानं
त्वं
हि
कार्यविदां
वरः ।
काममस्य
त्वमेवैकः
कार्यस्य
परिसाधने ॥ २७ ॥
पर्याप्तः
परवीरघ्न
यशस्यस्ते
फलोदयः ।
बलैः
समग्रैर्यदि
मां
रावणं
जित्यसंयुगे ॥ २८ ॥
विजयी
स्वपुरीं
यायात्
तत्तु
मे
स्याद्यशस्करम् ।
शरैस्तु
सङ्कुलां
कृत्वा
लङ्कां
परबलार्दनः ॥ २९ ॥
मां
येद्यदि
काकुत्स्थस्तत्तस्य
सदृशं
भवेत् ।
तद्यथा
तस्य
विक्रान्तमनुरूपं
महात्मनः ॥ ३० ॥
भवेदाहवशूरस्य
तथा
त्वमुपपादय ।
तदर्थोपहितं
वाक्यं
सहितं
हेतुसंहितम् ॥ ३१ ॥
निशम्य
हनुमान्
शेषं
वाक्यमुत्तरमब्रवीत् ।
देवि
हर्यृक्षसैन्यानामीश्वरः
प्लवतां
वरः ॥ ३२ ॥
सुग्रीवः
सत्त्वसम्पन्नस्तवार्थे
कृतनिश्चयः ।
स
वानरसहस्राणां
कोटीभिरभिसंवृतः ॥ ३३ ॥
क्षिप्रमेष्यति
वैदेहि
राक्षसानां
निबर्हणः ।
तस्य
विक्रमसम्पन्नास्सत्त्ववन्तो
महाबलाः ॥ ३४ ॥
मनस्सङ्कल्पसंपाता
निदेशे
हरयः
स्थिताः ।
येषां
नोपरि
नाधस्तान्न
तिर्यक्
सज्जते
गतिः ॥ ३५ ॥
न
च
कर्मसु
सीदन्ति
महत्स्वमिततेजसः ।
असकृत्
तैर्महोत्साहैः
ससागरधराधरा ॥ ३६ ॥
प्रदक्षिणीकृता
भूमिर्वायुमार्गानुसारिभिः ।
मद्विशिष्टाश्च
तुल्याश्च
सन्ति
तत्र
वनौकसः ॥ ३७ ॥
मत्तः
प्रत्यवरः
कश्चिन्नास्ति
सुग्रीवसन्निधौ ।
अहं
तावदिह
प्राप्तः
किं
पुनस्ते
महाबलाः ॥ ३८ ॥
नहि
प्रकृष्टाः
प्रेष्यन्ते
प्रेष्यन्ते
हीतरे
जनाः ।
तदलं
परितापेन
देवि
शोको
व्यपैतु
ते ॥ ३९ ॥
एकोत्पातेन
ते
लङ्कामेष्यन्ति
हरियूथपाः ।
मम
पृष्ठगतौ
तौ
च
चन्द्रसूर्याविवोदितौ ॥ ४० ॥
त्वत्सकाशं
महासत्त्वौ
नृसिंहावागमिष्यतः ।
तौ
हि
वीरौ
नरवरौ
सहितौ
रामलक्ष्मणौ ॥ ४१ ॥
आगम्य
नगरीं
लङ्कां
सायकैर्विधमिष्यतः ।
सगणं
रावणं
हत्वा
राघवो
रघुनन्दनः ॥ ४२ ॥
त्वामादाय
वरारोहे
स्वपुरं
प्रतियास्यति ।
तदाश्वसिहि
भद्रं
ते
भव
त्वं
कालकाङ्क्षिणी ॥ ४३ ॥
नचिराद्द्रक्ष्यसे
रामं
प्रज्वलन्तिमिवानलम् ।
निहते
राक्षसेन्द्रेऽस्मिन्
सपुत्रामात्यबान्धवे ॥ ४४ ॥
त्वं
समेष्यसि
रामेण
शशाङ्केनेव
रोहिणी ।
क्षिप्रं
त्वं
देवि
शोकस्य
पारं
यास्यसि
मैथिलि ॥ ४५ ॥
रावणं
चैव
रामेण
निहतं
द्रक्ष्यसेऽचिरात् ।
एवमाश्वास्य
वैदेहीं
हनुमान्
मारुतात्मजः ॥ ४६ ॥
गमनाय
मतिं
कृत्वा
वैदेहीं
पुनरब्रवीत् ।
तमरिघ्नं
कृतात्मानं
क्षिप्रं
द्रक्ष्यसि
राघवम् ॥ ४७ ॥
लक्ष्मणं
च
धनुष्पाणिं
लङ्काद्वारमुपस्थितम्* ।
नखदंष्ट्रायुधान्
वीरान्
सिंहशार्दूलविक्रमान् ॥ ४८ ॥
वानरान्
वारणेन्द्राभान्
क्षिप्र
द्रक्ष्यसि
सङ्गतान् ।
शैलाम्बुदनिकाशानां
लङ्कामलयसानुषु ॥ ४९ ॥
नर्दतां
कपिमुख्यानामार्ये
यूथान्यनेकशः ।
स
तु
मर्मणि
घोरेण
ताडितो
मन्मथेषुणा ॥ ५० ॥
न
शर्म
लभते
रामः
सिंहार्दित
इव
द्विपः ।
मा
रुदो
देवि
शोकेन
मा
भूत्
ते
मनसोऽप्रियम् ॥ ५१ ॥
शचीव
पत्या
शक्रेण
भर्त्रा
नाथवती
ह्यसि ।
रामाद्
विशिष्टः
कोऽन्योऽस्ति
कश्चित्
सौमित्रिणा
समः ॥ ५२ ॥
अग्निमारुतकल्पौ
तौ
भ्रातरौ
तव
संश्रयौ ।
नास्मिंश्चिरं
वत्स्यसि
देवि
देशे
रक्षोगणैरध्युषितेऽतिरौद्रे ॥ ५३ ॥
न
ते
चिरादागमनं
प्रियस्य
क्षमस्व
मत्सङ्गमकालमात्रम् ॥ ५४ ॥