श्रुत्वा
तु
वचनं
तस्य
वायुसूनोर्महात्मनः ।
उवाचात्महितं
वाक्यं
सीता
सुरसुतोपमा ॥ १ ॥
त्वां
दृष्ट्वा
प्रियवक्तारं
संप्रहृष्यामि
वानर ।
अर्धसञ्जातसस्येव
वृष्टिं
प्राप्य
वसुन्धरा ॥ २ ॥
यथा
तं
पुरुषव्याघ्रं
गात्रैः
शोकाभिकर्शितैः ।
संस्पृशेयं
सकामाऽहं
तथा
कुरु
दयां
मयि ॥ ३ ॥
अभिज्ञानं
च
रामस्य
दद्या
हरिगणोत्तम ।
क्षिप्तामिषीकां
काकस्य
कोपादेकाक्षिशातनीम् ॥ ४ ॥
मनःशिलायास्तिलको
गण्डपार्श्वे
निवेशितः ।
त्वया
प्रनष्टे
तिलके
तं
किल
स्मर्तुमर्हसि ॥ ५ ॥
स
वीर्यवान्
कथं
सीतां
हृतां
समनुमन्यसे ।
वसन्तीं
रक्षसां
मध्ये
महेन्द्रवरुणोपमः ॥ ६ ॥
एष
चूडामणिर्दिव्यो
मया
सुपरिरक्षितः ।
एतं
दृष्ट्वा
प्रहृष्यामि
व्यसने
त्वामिवानघ ॥ ७ ॥
एष
निर्यातितः
श्रीमान्
मया
ते
वारिसम्भवः ।
अतः
परं
न
शक्ष्यामि
जीवितुं
शोकलालसा ॥ ८ ॥
असह्यानि
न
दुःखानि
वाचश्च
हृदयच्छिदः ।
राक्षसीनां
सुघोराणां
त्वत्कृते
मर्षयाम्यहम् ॥ ९ ॥
धारयिष्यामि
मासं
तु
जीवितं
शत्रुसूदन ।
मासादूर्ध्वं
न
जीविष्ये
त्वया
हीना
नृपात्मज ॥ १० ॥
घोरो
राक्षसराजोऽयं
दृष्टिश्च
न
सुखा
मयि ।
त्वां
च
श्रुत्वा
विषज्जनं
न
जीवेयमहं
क्षणम् ॥ ११ ॥
वैदेह्या
वचनं
श्रुत्वा
करुणं
साश्रुभाषितम् ।
तथाऽब्रवीन्महातेजा
हनुमान्
मारुतात्मजः ॥ १२ ॥
त्वच्छोकविमुखो
रामो
देवि
सत्येन
ते
शपे ।
रामे
दुःखाभिभूते
तु
लक्ष्मणः
परितप्यते ॥ १३ ॥
कथञ्चिद्
भवती
दृष्टा
न
कालः
परिशोचितुम् ।
इमं
मुहूर्तं
दुःखानामन्तं
द्रक्ष्यामि
भामिनि ॥ १४ ॥
तावुभौ
पुरुषव्याघ्रौ
राजपुत्रावरिन्दमौ ।
त्वद्दर्शनकृतोत्साहौ
लङ्कां
भस्मीकरिष्यतः ॥ १५ ॥
हत्वा
तु
समरे
क्रूरं
रावणं
सहबान्धवम् ।
राघवौ
त्वां
विशालाक्षि
स्वां
पुरीं
प्रापयिष्यतः ॥ १६ ॥
यत्तु
रामो
विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं
तस्य
भूयस्त्वं
दातुमर्हसि ॥ १७ ॥
एतदेव
हि
रामस्य
दृष्ट्वा
मत्केशभूषणम् ।
श्रद्धेयं
हनुमन्
वाक्यं
तव
वीर
भविष्यति ॥ १८ ॥
स
तं
मणिवरं
गृह्य
श्रीमान्
प्लवगसत्तमः ।
प्रणम्य
शिरसा
देवीं
गमनायोपचक्रमे ॥ १९ ॥
तमुत्पातकृतोत्साहमवेक्ष्य
हरिपुङ्गवम् ।
वर्धमानं
महावेगमुवाच
जनकात्मजा ॥ २० ॥
अश्रुपूर्णमुखी
दीना
बाष्पगद्गदया
गिरा ।
हनुमन्
सिंहसङ्काशौ
भ्रातरौ
रामलक्ष्मणौ ॥ २१ ॥
सुग्रीवं
च
सहामात्वं
सर्वान्
ब्रूया
ह्यनामयम् ।
यथा
च
स
महाबाहुर्मां
तारयति
राघवः ॥ २२ ॥
अस्माद्दुःखाम्बुसंरोधात्
त्वं
समाधातुमर्हसि ।
इमं
च
तीव्रं
मम
शोकवेगं
रक्षोभिरेभिः
परिभर्त्सनं
च ॥ २३ ॥
ब्रूयास्तु
रामस्य
गतः
समीपं
शिवश्च
तेऽध्वाऽस्तु
हरिप्रवीर ।
स
राजपुत्र्या
प्रतिवेदितार्थः
कपिः
कृतार्थः
परिहृष्टचेताः ॥ २४ ॥
अल्पावशेषं
प्रसमीक्ष्य
कार्यं
दिशं
ह्युदिचीं
मनसा
जगाम ॥ २५ ॥