स
च
वाग्भिः
प्रशन्ताभिर्गमिष्यन्
पूजितस्तया ।
तस्माद्देशादपक्रम्य
चिन्तयामास
वानरः ॥ १ ॥
अल्पशेषमिदं
कार्यं
दृष्टेयमसितेक्षणा ।
त्रीनुपायानतिक्रम्य
चतुर्थ
इह
दृश्यते ॥ २ ॥
न
साम
रक्षस्सु
गुणाय
कल्पते
न
दानमर्थोपचितेषु
युज्यते ।
न
भेदसाध्या
बलदर्पिता
जनाः
पराक्रमस्त्वेव
ममेह
रोचते ॥ ३ ॥
न
चास्य
कार्यस्य
पराक्रमादृते
विनिश्चयः
कश्चिदिहोपपद्यते ।
हतप्रवीरा
हि
रणे
राक्षसाः
कथञ्चिदीयुर्यदिहाद्य
मार्दवम् ॥ ४ ॥
कार्ये
कर्मणि
निर्दिष्टे
यो
बहून्यपि
साधयेत् ।
पूर्वकार्याविरोधेन
स
कार्यं
कर्तुमर्हति ॥ ५ ॥
न
ह्येकः
साधको
हेतुः
स्वल्पस्यापीह
कर्मणः ।
यो
ह्यर्थं
बहुधा
वेद
स
समर्थोऽर्थसाधने ॥ ६ ॥
इहैव
तावत्
कृतनिश्चयो
ह्याहं
यदि
व्रजेयं
प्लवगेश्वरालयम् ।
परात्मसंमर्दविशेषतत्त्ववित्
ततः
कृतं
स्यान्मम
भर्तृशासनम् ॥ ७ ॥
कथं
नु
खल्वद्य
भवेत्
सुखागतं
प्रसह्य
युद्धं
मम
राक्षसैः
सह ।
तथैव
खल्वात्मबलं
च
सारवत्
संमानयेन्मां
च
रणे
दशाननः ॥ ८ ॥
ततः
समासाद्य
रणे
दशाननं
समन्त्रिवर्गं
सबलप्रयायिनम् ।
हृदि
स्थितं
तस्य
मतं
बलं
च
वै
सुखेन
मत्वाऽहमितः
पुनर्व्रजे ॥ ९ ॥
इदमस्य
नृशंसस्य
नन्दनोपममुत्तमम् ।
वनं
नेत्रमनःकान्तं
नानाद्रुमलतायुतम् ॥ १० ॥
इदं
विध्वंसयिष्यामि
शुष्कं
वनमिवानलः ।
अस्मिन्
भग्ने
ततः
कोपं
करिष्यति
दशाननः ॥ ११ ॥
ततो
महत्
साश्वमहारथद्विपं
बलं
समादेक्ष्यति
राक्षसाधिपः ।
त्रिशूलकालायसपट्टसायुधं
ततो
महद्युद्धमिदं
भविष्यति ॥ १२ ॥
अहं
तु
तैः
संयति
चण्डविक्रमैः
समेत्य
रक्षोभिरसह्यविक्रमः ।
निहत्य
तद्रावणचोदितं
बलं
सुखं
गमिष्यामि
कपीश्वरालयम् ॥ १३ ॥
ततो
मारुतवत्
क्रुद्धो
मारुतिर्भीमविक्रमः ।
उरुवेगेन
महता
द्रुमान्
क्षेप्तुमथारभत् ॥ १४ ॥
ततस्तु
हनुमान्
वीरो
बभञ्च
प्रमदावनम् ।
मत्तद्विजसमाघुष्टं
नानाद्रुमलतायुतम् ॥ १५ ॥
तद्वनं
मथितैर्वृक्षैर्भिन्नैश्च
सलिलाशयैः ।
चूर्णितैः
पर्वताग्रैश्च
बभूवाप्रियदर्शनम् ॥ १६ ॥
ताम्रैः
किसलयैः
क्लान्तैः
क्लान्तद्रुमलतायुतम् ।
न
बभौ
तद्वनं
तत्र
दावानलहतं
यथा ॥ १७ ॥
व्याकुलावरणा
रेजुर्विह्वला
इव
ता
लताः ।
लतागृहैश्चित्रगृहैश्च
नाशितैर्महोरगैर्व्यालमृगैश्च
निर्धुतैः ॥ १८ ॥
शिलागृहैरुन्मथितैस्तथा
गृहैः
प्रनष्टरूपं
तदभून्महद्वनम् ।
सा
विह्वलाऽशोकलताप्रताना
वनस्थली
शोकलताप्रताना ॥ १९ ॥
जाता
दशास्यप्रमदावनस्य
कपेर्बलाद्धि
प्रमदावनस्य ।
स
तस्य
कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं
मनसो
महात्मनः ॥ २० ॥
युयुत्सुरेको
बहुभिर्महाबलैः
श्रिया
ज्वलंस्तोरणमास्थितः
कपिः ॥ २१ ॥