सन्दिष्टो
राक्षसेन्द्रेण
प्रहस्तस्य
सुतो
बली ।
जम्बुमाली
महादंष्ट्रो
निर्जगाम
धनुर्धरः ॥ १ ॥
रक्तमाल्याम्बरधरः
स्रग्वी
रुचिरगुण्डलः ।
महान्
विवृत्तनयनश्चण्डः
समरदुर्जयः ॥ २ ॥
धनुः
शक्रधनुः
प्रख्यं
महद्रुचिरसायकम् ।
विस्फारयानो
वेगेन
वज्राशनिसमस्वनम् ॥ ३ ॥
तस्य
विस्फारघोषेण
धनुषो
महता
दिशः ।
प्रदिशश्च
नभश्चैव
सहसा
समपूर्यत ॥ ४ ॥
रथेन
खरयुक्तेन
तमागतमुदीक्ष्य
सः ।
हनुमान्
वेगसम्पन्नौ
जहर्ष
च
ननाद
च ॥ ५ ॥
तं
तोरणविटङ्कस्थं
हनुमन्तं
महाकिपम् ।
जम्बुमाली
महाबाहुर्विव्याध
निशितैः
शरैः ॥ ६ ॥
अर्धचन्द्रेण
वदने
शिरस्येकेन
कर्णिना ।
बाह्वोर्विव्याध
नाराचैर्दशभिस्तं
कपीश्वरम् ॥ ७ ॥
तस्य
तच्छुशुभे
ताम्रं
शरेणाभिहतं
मुखम् ।
शरदीवाम्बुजं
फुल्लं
विद्धं
भास्कररश्मिना ॥ ८ ॥
तत्तस्य
रक्तं
रक्तेन
रञ्जितं
शुशुभे
मुखम् ।
यथाऽऽकाशे
महापद्मं
सिक्तं
चन्दनबिन्दुभिः ॥ ९ ॥
चुकोप
बाणाभिहतो
राक्षसस्य
महाकपिः ।
तरसा
तां
समुत्पाट्य
चिक्षेप
बलवद्बली ॥ १० ॥
तां
शरैर्दशभिः
क्रुद्धस्ताडयामास
राक्षसः ।
विपन्नं
कर्म
तद्
दृष्ट्वा
हनुमांश्चण्डविक्रमः ॥ ११ ॥
सालं
विपुलमुत्पाट्य
भ्रामयामास
वीर्यवान् ।
भ्रामयन्तं
कपिं
दृष्ट्वा
सालवृक्षं
महाबलम् ॥ १२ ॥
चिक्षेप
सुबहून्
बाणान्
जम्बुमाली
महाबलः ।
सालं
चतुर्भिश्चिच्छेद
वानरं
पञ्चभिर्भुजे ॥ १३ ॥
उरस्येकेन
बाणेन
दशभिस्तु
स्तनान्तरे ।
स
शरैः
पूरिततनुः
क्रोधेन
महता
वृतः ॥ १४ ॥
तमेव
परिघं
गृह्य
भ्रामयामास
वेगतः ।
अतिवेगोऽतिवेगेन
भ्रामयित्वा
बलोत्कटः ॥ १५ ॥
परिघं
पातयामास
जम्बुमालेर्महोरसि ।
तस्य
चैव
शिरो
नास्ति
न
बाहू
न
च
जानुनी ॥ १६ ॥
न
धनुर्न
रथो
नाश्वास्तत्रादृश्यन्त
नेषवः ।
स
हतस्तरसा
तेन
जम्बुमाली
महाबलः ॥ १७ ॥
पपात
निहतो
भूमौ
चूर्णिताङ्गविभूषणः ।
जम्बुमालिं
च
निहतं
किङ्करांश्च
महाबलान् ॥ १८ ॥
चुक्रोध
रावणः
श्रुत्वा
कोपसंरक्तलोचनः ।
स
रोषसंवर्तितताम्रलोचनः
प्रहस्तपुत्रे
निहते
महाबले ॥ १९ ॥
अमात्यपुत्रानतिवीर्यविक्रमान्
समादिदेशाशु
निशाचरेश्वरः ॥ २० ॥