सेनापतीन्
पञ्च
स
तु
प्रमापितान्
हनूमता
सानुचरान्
सवाहनान् ।
समीक्ष्य
राजा
समरोद्धतोन्मुखं
कुमारमक्षं
प्रसमैक्षताग्रतः ॥ १ ॥
स
तस्य
दृष्ट्यर्पणसंप्रचोदितः
प्रतापवान्
काञ्चनचित्रकार्मुकः ।
समुत्पपाताथ
सदस्युदीरितो
द्विजातिमुख्यैर्हविषेव
पावकः ॥ २ ॥
ततो
महद्बालदिवाकरप्रभं
प्रतप्तजाम्बूनदजालसन्ततम् ।
रतं
समास्थाय
ययौ
स
वीर्यवान्
महाहरिं
तं
प्रति
नैर्ऋतर्षभः ॥ ३ ॥
पताकिनं
रत्नविभूषितध्वजं
मनोजवाष्टाश्ववरैः
सुयोजितम्\* ।
तपस्सङ्ग्रहसञ्चयार्जितं
तपोनुष्ठनसमूहसम्पादितम् ॥ ४ ॥
सुरासुराधृष्यमसङ्गचारिणं
रविप्रभं
व्योमचरं
समाहितम् ।
सतूणमष्टासिनिबद्धबन्धुरं
यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥
विराजमानं
प्रतिपूर्णवस्तुना
सहेमदाम्ना
शशिसूर्यवर्चसा ।
दिवाकराभं
रथमास्थितस्ततः
स
निर्जगामामरतुल्यविक्रमः ॥ ६ ॥
स
पूरयन्
खं
च
महीं
च
साचलां
तुरङ्गमातङ्गमहारथस्वनैः ।
बलैः
समेतैः
स
हि
तोरणस्थितं
समर्थमासीनमुपागमत्
कपिम् ॥ ७ ॥
स
तं
समासाद्य
हरिं
हरीक्षणो
युगान्तकालाग्निमिव
प्रजाक्षये ।
अवस्थितं
विस्मितजातसंभ्रमः
समैक्षताक्षो
बहुमानचक्षुषा ॥ ८ ॥
स
तस्य
वेगं
च
कपेर्महात्मनः
पराक्रमं
चारिषु
पार्थिवात्मजः ।
विधारयन्
स्वं
च
बलं
महाबलो
हिमक्षये
सूर्य
इवाभिवर्धते ॥ ९ ॥
स
जातमन्युः
प्रसमीक्ष्य
विक्रमं
स्थिरं
स्थितः
संयति
दुर्निवारणम् ।
समाहितात्मा
हनुमन्तमाहवे
प्रचोदयामास
शरैस्त्रिभिः
शितैः ॥ १० ॥
ततः
कपिः
तं
प्रसमीभ्य
गर्वितं
जितश्रमं
शत्रुपराजयोर्जितम् ।
अवैक्षताक्षः
समुदीर्णमानसः
स
बाणपाणिः
प्रगृहीतकार्मुकः ॥ ११ ॥
स
हेमनिष्काङ्गदचारुकुण्डलः
समाससादाशुपराक्रमः
कपिम् ।
तयोर्बभूवाप्रतिमः
समागमः
सुरासुराणामपि
सम्भ्रमप्रदः ॥ १२ ॥
ररास
भूमिर्न
तताप
भानुमान्
ववौ
न
वायुः
प्रचचाल
चाचलः ।
कपेः
कुमारस्य
च
वीक्ष्य
संयुगं
ननाद
च
द्यौरुदधिश्च
चुक्षुभे ॥ १३ ॥
ततः
स
वीरः
सुमुखात्
पतत्त्रिणः
सुवर्णपुङ्खान्
सविषानिवोरगान् ।
समाधिसंयोगविमोक्षतत्त्वविच्छरानथ
त्रीन्
कपिमूर्ध्न्यपातयत् ॥ १४ ॥
स
तैः
शरैर्मूर्ध्नि
समं
निपातितैः
क्षरन्नसृग्दिग्धविवृत्तलोचनः ।
नवोदितादित्यनिभः
शरांशुमान्
व्यराजतादित्य
इवांशुमालिकः ॥ १५ ॥
ततः
स
पिङ्गाधिपमन्त्रसत्तमः
समीक्ष्य
तं
राजवरात्मजं
रणे ।
उदग्रचित्रायुधचित्रकार्मुकं
जहर्ष
चापूर्यत
चाहवोन्मुखः ॥ १६ ॥
स
मन्दराग्रस्थ
इवांशुमालिको
विवृद्धकोपो
बलवीर्यसंयुतः ।
कुमारमक्षं
सबलं
सवाहनं
ददाह
नेत्राग्निमरीचिभिस्तदा ॥ १७ ॥
ततः
स
बाणासनचित्रकार्मुकः
शरप्रवर्षो
युधि
राक्षसाम्बुदः ।
शरान्
मुमोचाशु
हरीश्वराचले
वलाहको
वृष्टिमिवाचलोत्तमे ॥ १८ ॥
ततः
कपिस्तं
रणचण्डविक्रमं
विवृद्धतेजोबलवीर्यसंयुतम् ।
कुमारमक्षं
प्रसमीक्ष्य
संयुगे
ननाद
हर्षाद्घनतुल्यविक्रमः ॥ १९ ॥
स
बालभावाद्युधि
वीर्यदर्पितः
प्रवृद्धमन्युः
क्षतजोपमेक्षणः ।
समाससादाप्रतिमं
कपिं
रणे
गजो
महाकूपमिवावृतं
तृणैः ॥ २० ॥
स
तेन
बाणैः
प्रसभं
निपातितैश्कार
नादं
घननादनिस्वनः ।
समुत्पपाताशु
नभः
स
मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ २१ ॥
समुत्पतन्तं
समभिद्रवद्बली
स
राक्षसानां
प्रवरः
प्रतापवान् ।
रथी
रथिश्रेष्ठतमः
किरन्
शरैः
पयोधरः
शैलमिवाश्मवृष्टिभिः ॥ २२ ॥
स
तान्
शरांस्तस्य
हरिर्विमोक्षयंश्चचार
वीरः
पथि
वायुसेविते ।
शरान्तरे
मारुतवद्विनिष्पतन्
मनोजवः
संयति
चण्डविक्रमः ॥ २३ ॥
तमात्तबाणासनमाहवोन्मुखं
खमास्तृणन्तं
विशिखैः
शरोत्तमैः ।
अवैक्षताक्षं
बहुमानचक्षुषा
जगाम
चिन्तां
च
स
मारुतात्मजः ॥ २४ ॥
ततः
शरैर्भिन्नभुजान्तरः
कपिः
कुमारवीरेण
महात्मना
नदन् ।
महाभुजः
कर्मविशेषतत्त्वविद्विचिन्तयामास
रणे
पराक्रमम् ॥ २५ ॥
अबालवद्बालदिवाकरप्रभः
करोत्ययं
कर्म
महन्महाबलः ।
न
चास्य
सर्वाहवकर्मशोभिनः
प्रमापणे
मे
मतिरत्र
जायते ॥ २६ ॥
अयं
महात्मा
च
महांश्च
वीर्यतः
समाहितश्चातिसहश्च
संयुगे ।
असंशयं
कर्मगुणोदयादयं
सनागयक्षेर्मुनिभिश्च
पूजितः ॥ २७ ॥
पराक्रमोत्साहविवृद्धमानसः
समीक्षते
मां
प्रमुखागतः
स्थितः ।
पराक्रमो
ह्यस्य
मनांसि
कम्पयेत्
सुरासुराणामपि
शीघ्रगामिनः ॥ २८ ॥
न
खल्वयं
नाभिभवेदुपेक्षितः
पराक्रमो
ह्यस्य
रणे
विवर्धते ।
प्रमापणं
त्वेव
ममास्य
रोचते
न
वर्धमानोऽग्निरुपेक्षितुं
क्षमः ॥ २९ ॥
इति
प्रवेगं
तु
परस्य
तर्कयन्
स्वकर्मयोगं
च
विधाय
वीर्यवान् ।
चकार
वेगं
तु
महाबलस्तदा
मतिं
च
चक्रेऽस्य
वधे
महाकपिः ॥ ३० ॥
स
तस्य
तानष्ट
हयान्
महाजवान्
समाहितान्
भारसहान्
विवर्तने ।
जघान
वीरः
पथि
वायुसेविते
तलप्रहारैः
पवनात्मजः
कपिः ॥ ३१ ॥
ततस्तलेनाभिहतो
महारथः
स
तस्य
पिङ्गाधिपमन्त्रिनिर्जितः ।
प्रभग्ननीडः
परिमुक्तकूबरः
पपात
भूमौ
हतवाजिरम्बरात् ॥ ३२ ॥
स
तं
परित्यज्य
महारथो
रथं
सकार्मुकः
खड्गधरः
खमुत्पतन् ।
तपोभियोगादृषिरुग्रवीर्यवान्
विहाय
देहं
मरुतामिवालयम् ॥ ३३ ॥
ततः
कपिस्तं
विचरन्तमम्बरे
पतत्त्रिराजानिलसिद्धसेविते ।
समेत्य
तं
मारुततुल्यविक्रमः
क्रमेण
जग्राह
स
पादयोर्दृढम् ॥ ३४ ॥
स
तं
समाविध्य
सहस्रशः
कपिर्महोरगं
गृह्य
इवाण्डजेश्वरः ।
मुमोच
वेगात्
पितृतुल्यविक्रमो
महीतले
संयति
वानरोत्तमः ॥ ३५ ॥
स
भग्रसन्धिः
प्रविकीर्णबन्धनो
हतः
क्षितौ
वायुसुतेन
राक्षसः ।
महाकपिर्भूमितले
निपीड्य
तं
चकार
रक्षोधिपतेर्महद्भयम् ॥ ३६ ॥
महर्षिभिश्चक्रचरैर्महाव्रतैः
समेत्य
भूतैश्च
सयक्षपन्नगैः ।
सुरैश्च
सैन्द्रैर्भृशजातविस्मयैर्हते
कुमारे
स
कपिर्निरीक्षितः ॥ ३७ ॥
निहत्य
तं
वज्रिसुतोपमप्रभं
कुमारमक्षं
क्षतजोपमेक्षणम् ।
तमेव
वीरोऽभिजगाम
तोरणं
कृतक्षणः
काल
इव
प्रजाक्षये ॥ ३८ ॥