ततः
स
रक्षोधिपतिर्महात्मा
हनूमताऽक्षे
निहते
कुमारे ।
मनः
समाधाय
तदेन्द्रकल्पं
समादिदेशेन्द्रजितं
सरोषम् ॥ १ ॥
त्वमस्त्रविच्छस्त्रविदां
वरिष्ठः
सुरासुराणामपि
शोकदाता ।
सुरेषु
सेन्द्रेषु
च
दृष्टकर्मा
पितामहाराधनस़ञ्चितास्त्रः ॥ २ ॥
तवास्त्रबलमासाद्य
नासुरा
न
मरुद्गणाः ।
न
शेकुः
समरे
स्थातुं
सुरेश्वरसमाश्रिताः ॥ ३ ॥
भुजवीर्याभिगुप्तश्च
तपसा
चाभिरक्षितः ।
देशकालविभागज्ञस्त्वमेव
मतिसत्तमः ॥ ४ ॥
न
तेऽस्त्यशक्यं
समरेषु
कर्मणा
न
तेऽस्त्यकार्यं
मतिपूर्वमन्त्रणे ।
न
सोऽस्ति
कश्चित्
त्रिषु
सङ्ग्रहेषु
वै
न
वेद
यस्तेऽस्त्रबलं
बलं
च
ते ॥ ५ ॥
ममानुरूपं
तपसो
बलं
च
ते
पराक्रमश्चास्त्रबलं
च
संयुगे ।
न
त्वां
समासाद्य
रणावमर्दे
मनः
श्रमं
गच्छति
निश्चितार्थम् ॥ ६ ॥
निहताः
किङ्कराः
सर्वे
जम्बुमाली
च
राक्षसः ।
अमात्यपुत्रा
वीराश्च
पञ्च
सेनाग्रयायिनः ॥ ७ ॥
बलानि
सुसमृद्धानि
साश्वनागरथानि
च ।
सहोदरस्ते
दयितः
कुमारोऽक्षश्च
सूदितः ॥ ८ ॥
न
हि
तेष्वेव
मे
सारो
यस्त्वय्यरिनिषूदन ।
इदं
हि
दृष्ट्वा
मतिमन्महद्बलं
कपेः
प्रभावं
च
पराक्रमं
च ॥ ९ ॥
त्वमात्मनश्चापि
समीक्ष्य
सारं
कुरुष्व
वेगं
स्वबलानुरूपम् ।
बलावमर्दस्त्वयि
सन्निकृष्टे
यथा
गते
शाम्यति
शान्तशत्रौ ॥ १० ॥
तथा
समीक्ष्यात्मबलं
परं
च
समारभस्वास्त्रविदां
वरिष्ठ ।
न
वीर
सेना
गणशोच्यवन्ति
न
वज्रमादाय
विशालसारम् ॥ ११ ॥
न
मारुतस्यास्य
गतेः
प्रमाणं
न
चाग्निकल्पः
करणेन
हन्तुम् ।
तमेवमर्थं
प्रसमीक्ष्य
सम्यक्
स्वकर्मसाम्याद्धि
समाहितात्मा ॥ १२ ॥
स्मरंश्च
दिव्यं
धनुषोऽस्त्रवीर्यं
व्रजाक्षतं
कर्म
समारभस्व ।
न
खल्वियं
मतिः
श्रेष्ठा
यत्त्वां
संप्रेषयाम्यहम् ॥ १३ ॥
इयं
च
राजधर्माणां
क्षत्रस्य
च
मतिर्मता ।
नानाशस्त्रैश्च
सङ्ग्रामे
वैशारद्यमरिन्दम् ॥ १४ ॥
अवश्यमेव
बोद्धव्यं
काम्यश्च
विजयो
रणे ।
ततः
पितुस्तद्वचनं
निशम्य
प्रदक्षिणं
दक्षसुतप्रभावः ॥ १५ ॥
चकार
भर्तारमदीनसत्त्वो
रणाय
वीरः
प्रतिपन्नबुद्धिः ।
ततस्तैः
स्वगणैरिष्टैरिन्द्रजत्
प्रतिपूजितः ॥ १६ ॥
युद्धोद्धतः
कृतोत्साहः
सग्रामं
प्रत्यद्यत ।
श्रीमान्
पद्मपलाशाक्षो
राक्षसाधिपतेः
सुतः ॥ १७ ॥
निर्जगाम
महातेजाः
समुद्र
इव
पर्वसु ।
स
पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः
सिततीक्ष्णदंष्ट्रैः ॥ १८ ॥
रथं
समायुक्तमसङ्गवेगं
समारुरोहेन्द्रजिदिन्द्रकल्पः ।
स
रथी
धन्विनीं
श्रेष्ठः
शस्त्रज्ञोऽस्त्रविदां
वरः ॥ १९ ॥
रथेनाभिययौ
क्षिप्रं
हनूमान्
यत्र
सोऽभवत् ।
स
तस्य
रथनिर्घोषं
ज्यास्वनं
कार्मुकस्य
च ॥ २० ॥
निशम्य
हरिवीरोऽसौ
संप्रहृष्टतरोऽभवत् ।
सुमहच्चापमादाय
शितशल्यांश्च
सायकान् ॥ २१ ॥
हनुमन्तमभिप्रेत्य
जगाम
रणपण्डितः ।
तस्मिंस्ततः
संयति
जातहर्षे
रणाय
निर्गच्छति
बाणपाणौ ॥ २२ ॥
दिशश्च
सर्वाः
बभूवर्मृगाश्च
रौद्रा
बहुधा
विनेदुः ।
समागतास्तत्र
तु
नागयक्षा
महर्षयश्चक्रचराश्च
सिद्धाः ॥ २३ ॥
नभः
समावृत्य
च
पक्षिसङ्घा
विनेदुरुच्चैः
परमप्रहृष्टाः ।
आयान्तं
सरथं
दृष्ट्वा
तूर्णमिन्द्रजितं
कपिः ॥ २४ ॥
विननाद
महानादं
व्यवर्धत
च
वेगवान् ।
इन्द्रजित्तु
रथं
दिव्यमास्थितश्चित्रकार्मुकः ॥ २५ ॥
धनुर्विस्फारयामास
तडिदूर्जितनिःस्वनम् ।
ततः
समेतावति
तीक्ष्णवेगौ
महाबलौ
तौ
रणनिर्विशङ्कौ ॥ २६ ॥
कपिश्च
रक्षोधिपतेश्च
पुत्रः
सुरासुरेन्द्राविव
बद्धवैरौ ।
स
तस्य
वीरस्य
महारथस्य
धनुष्मतः
संयति
संमतस्य ॥ २७ ॥
शरप्रवेगं
व्यहनत्
प्रवृद्धश्चचार
मार्गे
पितुरप्रमेये ।
ततः
शरानायतीक्ष्णशल्यान्
सुपत्रिणः
काञ्चनचित्रपुङ्खान् ॥ २८ ॥
मुमोच
वीरः
परवीरहन्ता
सुसन्नतान्
वज्रनिपातवेगान् ।
ततस्तु
तत्स्यन्दननिःस्वनं
च
मृदङ्गभेरीपटहस्वनं
च ॥ २९ ॥
विकृष्यमाणस्य
च
कार्मुकस्य
निशम्य
घोषं
पुनरुत्पपात ।
शराणामन्तरेष्वाशु
व्यवर्तत
महाकपिः ॥ ३० ॥
हरिस्तस्याभिलक्ष्यस्य
मोघयँल्लक्ष्यसङ्ग्रहम् ।
शराणआमग्रतस्तस्य
पुनः
समभिवर्तत ॥ ३१ ॥
प्रसार्य
हस्तौ
हनुमानुत्पपातानिलात्मजः ।
तावुभौ
वेगसम्पन्नौ
रणकर्मविशारदौ ॥ ३२ ॥
सर्वभूतमनोग्राहि
चक्रतुर्युद्धमुत्तमम् ।
हनूमतो
वेद
न
राक्षसोऽन्तरं
न
मारुतिस्तस्य
महात्मनोऽन्तरम् ॥ ३३ ॥
परस्परं
निर्विषहौ
बभूवतुः
समेत्य
तौ
देवसमानविक्रमौ ।
ततस्तु
लक्ष्ये
स
विहन्यमाने
शरेष्वमोघेषु
च
संपतत्सु ॥ ३४ ॥
जागम
चिन्तां
महतीं
महात्मा
समाधिसंयोगसमाहितात्मा ।
ततो
मतिं
राक्षसराजसूनुश्चकार
तस्मिन्
हरिवीरमुख्ये ॥ ३५ ॥
अवध्यतां
तस्य
कपेः
समीक्ष्य
कथं
निगच्छेदिति
निग्रहार्थम् ।
ततः
पैतामहं
वीरः
सोऽस्त्रमस्त्रविदां
वरः ॥ ३६ ॥
सन्दधे
सुमहातेजास्तं
हरिप्रवरं
प्रति ।
अवध्योऽयमिति
ज्ञात्वा
तमस्त्रेणास्त्रतत्त्ववित् ॥ ३७ ॥
निजग्राह
महाबाहुर्मारुतात्मजमिन्द्रजित् ।
तेन
बद्धस्ततोऽस्त्रेण
राक्षसेन
स
वानरः ॥ ३८ ॥
अभवन्निर्विचेष्टश्च
पपात
च
महीतले ।
ततोऽथ
बुद्ध्वा
स
तदस्त्रबन्धं
प्रभोः
प्रभावाद्
विगतात्मवेगः ॥ ३९ ॥
पितामहानुग्रहमात्मनश्च
विचिन्तयामास
हरिप्रवीरः ।
ततः
स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ॥ ४० ॥
हनूमांश्चिन्तयामास
वरदानं
पितामहात् ।
न
मेऽस्य
बन्धस्य
च
शक्तिरस्ति
विमोक्षणे
लोकगुरोः
प्रभावात् ॥ ४१ ॥
इत्येव
मत्वा
विहितोऽस्त्रबन्धो
मयाऽऽत्मयोनेरनुवर्तितव्यः ।
स
वीर्यमस्त्रस्य
कपिर्विचार्य
पितामहानुग्रहमात्मनश्च ॥ ४२ ॥
विमोक्षशक्तिं
परिचिन्तयित्वा
पितामहाज्ञामनुवर्तते
स्म ।
अस्त्रेणापि
हि
बद्धस्य
भयं
मम
न
जायते ॥ ४३ ॥
पितामहमहेन्द्राभ्यां
रक्षितस्यानिलेन
च ।
ग्रहणे
चापि
रक्षोभिर्महान्
मे
गुणदर्शनः ॥ ४४ ॥
राक्षसेन्द्रेण
संवादस्तस्मादगृह्णन्तु
मां
परे ।
स
निश्चितार्थः
परिवीरहन्ता
समीक्ष्यकारी
विनिवृत्तचेष्टः ॥ ४५ ॥
परैः
प्रसह्याभिगतैर्निगृह्य
ननाद
तैस्तैः
परिभर्त्स्यमानः ।
ततस्तं
राक्षसा
दृष्ट्वा
निर्विचेष्टमरिन्दमम् ॥ ४६ ॥
बबन्धुः
शणवल्कैश्च
द्रुमचीरैश्च
संहतैः ।
स
रोचयामास
परैश्च
बन्धं
प्रसह्य
वीरैरभिनिग्रहं
च ॥ ४७ ॥
कौतूहलान्मां
यदि
राक्षसेन्द्रो
द्रष्ठुं
व्यवस्येदिति
निश्चितार्थः ।
स
बद्धस्तेन
वल्केन
विमुक्तोऽस्त्रेण
वीर्यवान् ॥ ४८ ॥
अस्त्रबन्धः
स
चान्यं
हि
न
बन्धमनुवर्तते ।
अथेन्द्रजित्तुद्रुमचीरबद्धं
विचार्य
वीरः
कपिसत्तमं
तम् ॥ ४९ ॥
विमुक्तमस्त्रेण
जगाम
चिन्तां
नान्येन
बद्धो
ह्यनुवर्ततेऽस्त्रम् ।
अहो
महत्
कर्म
कृतं
निरर्थकं
न
राक्षसैर्मन्त्रगतिर्विमृष्टा ॥ ५० ॥
पुनश्च
नास्त्रे
विहतेऽस्त्रमन्यत्
प्रवर्तते
संशयिताः
स्म
सर्वे ।
अस्त्रेण
हनुमान्
मुक्तो
नात्मानमवबुध्यत ॥ ५१ ॥
कृष्यमाणस्तु
रक्षोभिस्तैश्च
बन्धेर्निपीडितः ।
हन्यमानस्ततः
क्रूरै
राक्षसैः
काष्ठमुष्टिभिः ॥ ५२ ॥
समीपं
राक्षसेन्द्रस्य
प्रकृष्यत
स
वानरः ।
अथेन्द्रजित्तं
प्रसमीक्ष्य
मुक्तमस्त्रेण
बद्धं
द्रुमचीरसूत्रैः ॥ ५३ ॥
व्यदर्शयत्तत्र
महाबलं
हरिप्रवीरं
सगणाय
राज्ञे ।
तं
मत्तमिव
मातङ्गं
बद्धं
कपिवरोत्तमम् ॥ ५४ ॥
राक्षसा
राक्षसेन्द्राय
रावणाय
न्यवेदयन् ।
कोऽयं
कस्य
कुतो
वाऽत्र
किं
कार्यं
को
व्यपाश्रयः ॥ ५५ ॥
इति
राक्षसवीराणां
तत्र
सञ्जज्ञिरे
कथाः ।
हन्यतां
दह्यतां
वापि
भक्ष्यतामिति
चापरे ॥ ५६ ॥
राक्षसास्तत्र
सङ्क्रुद्धाः
परस्परमथाब्रुवन् ।
अतीत्य
मार्गं
सहसा
महात्मा
स
तत्र
रक्षोधिपपादमूले ॥ ५७ ॥
ददर्श
राज्ञः
परिचारवृद्धान्
गृहं
महारत्नविभूषितं
च ।
स
ददर्श
महातेजा
रावणः
कपिसत्तमम् ॥ ५८ ॥
रक्षोभिर्विकृताकारैः
कृष्यमाणमितस्ततः ।
राक्षसाधिपतिं
चापि
ददर्श
कपिसत्तमः ॥ ५९ ॥
तेजोबलसमायुक्तं
तपन्तमिव
भास्करम् ।
स
रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं
कपिमन्ववेक्ष्य ॥ ६० ॥
अथोपविष्टान्
कुलशीलवृद्धान्
समादिशत्तं
प्रति
मन्त्रिमुख्यान् ।
यथाक्रमं
तैः
स
कपिर्विपृष्टः
कार्यार्थमर्थस्य
च
मूलमादौ ॥ ६१ ॥
निवेदयामास
हरीश्वरस्य
दूतः
सकाशादहमागतोऽस्मि ॥ ६२ ॥