तं
समीक्ष्य
महासत्त्वं
सत्त्ववान्
हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच
दशाननम् ॥ १ ॥
अहं
सुग्रीवसन्देशादिह
प्राप्तस्तवालयम् ।
राक्षसेन्द्र
हरीशस्त्वां
भ्राता
कुशलमब्रवीत् ॥ २ ॥
भ्रातुः
शृणु
समादेशं
सुग्रीवस्य
महात्मनः ।
धर्मार्थोपहितं
वाक्यमिह
चामुत्र
च
क्षमम् ॥ ३ ॥
राजा
दशरथो
नाम
रथकुञ्जरवाजिमान् ।
पितेव
बन्धुर्लोकस्य
सुरेश्वरसमद्युतिः ॥ ४ ॥
ज्येष्ठस्तस्य
महाबाहुः
पुत्रः
प्रियकरः
प्रभुः ।
पितुर्निर्देशान्निष्क्रान्तः
प्रविष्टो
दण्डकावनम् ॥ ५ ॥
लक्ष्मणेन
सह
भ्रात्रा
सीतया
चापि
भार्यया ।
रामो
नाम
महातेजा
धर्म्यं
पन्थानमाश्रितः ॥ ६ ॥
तस्य
भार्या
वने
नष्टा
सीता
पतिमनुव्रता ।
वैदेहस्य
सुता
राज्ञो
जनकस्य
महात्मनः ॥ ७ ॥
स
मार्गमाणस्तां
देवीं
राजपुत्रः
सहानुजः ।
ऋश्यमूकमनुप्राप्तः
सुग्रीवेण
समागतः ॥ ८ ॥
तस्य
तेन
प्रतिज्ञातं
सीतायाः
परिमार्गणम् ।
सुग्रीवस्यापि
रामेण
हरिराज्यं
निवेदितम् ॥ ९ ॥
ततस्तेन
मृधे
हत्वा
राजपुत्रेण
वालिनम् ।
सुग्रीवः
स्थापितो
राज्ये
हर्यृक्षाणां
गणेश्वरः ॥ १० ॥
त्वया
विज्ञातपूर्वश्च
वाली
वानरपुङ्गवः ।
रामेण
निहतः
सङ्ख्ये
शरेणैकेन
वानरः ॥ ११ ॥
स
सीतामार्गणे
व्यग्रः
सुग्रीवः
सत्यसङ्गरः ।
हरीन्
संप्रेषयामास
दिशः
सर्वा
हरीश्वरः ॥ १२ ॥
तां
हरीणां
सहस्राणि
शतानि
नियुतानि
च ।
दिक्षु
सर्वासु
मार्गन्ते
ह्यधश्चोपरि
चाम्बरे ॥ १३ ॥
वैनतेयसमाः
केचित्
केचित्तत्रानिलोपमाः ।
असङ्गगतयः
शीघ्रा
हरिवीरा
महाबलाः ॥ १४ ॥
अहं
तु
हनुमान्नाम
मारुतस्यौरसः
सुतः ।
सीतायास्तु
कृते
तूर्णं
शतयोजनमायतम् ॥ १५ ॥
समुद्रं
लङ्घयित्वैव
तां
दिदृक्षुरिहागतः ।
भ्रमता
च
मया
दृष्टा
गृहे
ते
जनकात्मजा ॥ १६ ॥
तद्भवान्
दृष्टधर्मार्थस्तपः
कृतपरिग्रहः ।
परदारान्
महाप्राज्ञ
नोपरोद्धुं
त्वमर्हसि ॥ १७ ॥
न
हि
धर्मविरुद्धेषु
बह्वपायेषु
कर्मसु ।
मूलघातिषु
सज्जन्ते
बुद्धिमन्तो
भवद्विधाः ॥ १८ ॥
कश्च
लक्ष्मणमुक्तानां
रामकोपानुवर्तिनाम् ।
शराणामग्रतः
स्थातुं
शक्तो
देवासुरेष्वपि ॥ १९ ॥
न
चापि
त्रिषु
लोकेषु
राजन्
विद्येत
कश्चन ।
राघवस्य
व्यलीकं
यः
कृत्वा
सुखमवाप्नुयात् ॥ २० ॥
तत्त्रिकालहितं
वाक्यं
धर्म्यमर्थानुबन्धि
च ।
मन्यस्व
नरदेवाय
जानकी
प्रतिदीयताम् ॥ २१ ॥
दृष्टा
हीयं
मया
देवी
लब्धं
यदिह
दुर्लभम् ।
उत्तरं
कर्म
यच्छेषं
निमित्तं
तत्र
राघवः ॥ २२ ॥
लक्षितेयं
मया
सीता
तथा
शोकपायणा ।
गृह्य
यां
नाभिजानासि
पञ्चास्यामिव
पन्नगीम् ॥ २३ ॥
नेयं
जरयितुं
शक्या
सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं
भुक्तमन्नमिवौजसा ॥ २४ ॥
तपस्सन्तापलब्धस्ते
योऽय
धर्मपरिग्रहः ।
न
स
नाशयितुं
न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥
अवध्यतां
तपोऽभिर्यां
भवान्
समनुपश्यति ।
आत्मनः
सासुरैर्देवैर्हेतुस्तत्राप्ययं
महान् ॥ २६ ॥
न
दानवो
न
गन्धर्वो
न
यक्षो
न
च
पन्नगः ।
तस्मात्
प्राणपरित्राणं
कथं
राजन्
करिष्यसि ॥ २७ ॥
न
तु
धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव
फलमन्वेति
धर्मश्चाधर्मनाशनः ॥ २८ ॥
प्राप्तं
धर्मफलं
तावद्भवता
नात्र
संशयः ।
फलमस्याप्यधर्मस्य
क्षिप्रमेव
प्रपत्स्यसे ॥ २९ ॥
जनस्थानवधं
बुद्ध्वा
बुद्ध्वा
वालिवधं
तथा ।
रामसुग्रीवसख्यं
च
बुद्ध्यस्व
हितमात्मनः ॥ ३० ॥
कामं
खल्वहमप्येकः
सवाजिरथकुञ्जराम् ।
लङ्कां
नाशयितुं
शक्तस्तस्यैष
तु
न
निश्चयः ॥ ३१ ॥
रामेण
हि
प्रतिज्ञातं
हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां
सीता
यैस्तु
प्रधर्षिता ॥ ३२ ॥
अपकुर्वन्
हि
रामस्य
साक्षादपि
पुरन्दरः ।
न
सुखं
प्राप्नुयादन्यः
किं
पुनस्त्वद्विधो
जनः ॥ ३३ ॥
यां
सीतेत्यभिजानासि
येयं
तिष्ठति
ते
वशे ।
कालरात्रीति
तां
विद्धि
सर्वलङ्काविनाशिनीम् ॥ ३४ ॥
तदलं
कालपाशेन
सीताविग्रहरूपिणा ।
स्वयं
स्कन्धावसक्तेन
क्षममात्मनि
चिन्त्यताम् ॥ ३५ ॥
सीतायास्तेजसा
दग्धां
रामकोपप्रपीडिताम् ।
दह्यमानामिमां
पश्य
पुरीं
साट्टप्रतोलिकाम् ॥ ३६ ॥
स्वानि
मित्राणि
मन्त्रीश्च
ज्ञातीन्
भ्रातॄन्
सुतान्
हितान् ।
भोगान्
दारांश्च
लङ्कां
च
मा
विनाशमुपानय ॥ ३७ ॥
सत्यं
राक्षसराजेन्द्र
शृणुष्व
वचनं
मम ।
रामदासस्य
दृतस्य
वानरस्य
विशेषतः ॥ ३८ ॥
सर्वान्लोकान्
सुसंहृत्य
सभूतान्
सचराचरान् ।
पुनरेव
तथा
स्रष्टुं
शक्तो
रामो
महायशाः ॥ ३९ ॥
देवासुरनरेन्द्रेषु
यक्षरक्षोगणेषु
च ।
विद्याधरेषु
सर्वेषु
गन्धर्वेषूरगेषु
च ॥ ४० ॥
सिद्धेषु
किन्नरेन्द्रेषु
पतत्त्रिषु
च
सर्वतः ।
सर्वभूतेषु
सर्वत्र
सर्वकालेषु
नास्ति
सः ॥ ४१ ॥
यो
रामं
प्रतियुद्ध्येत
विष्णुतुल्यपराक्रमम् ।
सर्वलोकेश्वरस्यैवं
कृत्वा
विप्रियमुत्तमम् ॥ ४२ ॥
रामस्य
राजसिंहस्य
दुर्लभं
तव
जीवितम् ।
देवाश्च
दैत्याश्च
निशाचरेन्द्र
गन्धर्वविद्याधरनागयक्षाः ॥ ४३ ॥
रामस्य
लोकत्रयनायकस्य
स्थातुं
न
शक्ताः
समरेषु
सर्वे ।
ब्रह्मा
स्वयम्भूश्चतुराननो
वा
रुद्रस्त्रिनेत्रस्त्रिपुरान्तको
वा ॥ ४४ ॥
इन्द्रो
महेन्द्रः
सुरनायको
वा
त्रातुं
न
शक्ता
युधि
रामवध्यम् ।
स
सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं
वचः ॥ ४५ ॥
दशाननः
कोपविवृत्तलोचनः
समादिशत्
तस्य
वधं
महाकपेः ॥ ४६ ॥