वीक्षमाणस्ततो
लङ्कां
कपिः
कृतमनोरथः ।
वर्धमानसमुत्साहः
कार्यशेषमचिन्तयत् ॥ १ ॥
किं
नु
खल्ववशिष्टं
मे
कर्तव्यमिह
साम्प्रतम् ।
यदेषां
रक्षसां
भूयः
सन्तापजननं
भवेत् ॥ २ ॥
वनं
तावत्
प्रमथितं
प्रकृष्टा
राक्षसा
हताः ।
बलैकदेशः
क्षपितः
शेषं
दुर्गविनाशनम् ॥ ३ ॥
दुर्गे
विनाशिते
कर्म
भवेत्
सुखपरिश्रमम् ।
अल्पयत्नेन
कार्येऽस्मिन्
मम
स्यात्
सफलः
श्रमः ॥ ४ ॥
यो
ह्ययं
मम
लाङ्गूले
दीप्यते
हव्यवाहनः ।
अस्य
सन्तर्पणं
न्याय्यं
कर्तुमेभिर्गृहोत्तमैः ॥ ५ ॥
ततः
प्रदीप्तलाङ्गूलः
सविद्युदिव
तोयदः ।
भवनाग्रेषु
लङ्काया
विचचार
महाकपिः ॥ ६ ॥
गृहाद्
गृहं
राक्षसानामुद्यानानि
च
वानरः ।
वीक्षमाणो
ह्यसन्त्रस्तः
प्रासादांश्च
चचार
सः ॥ ७ ॥
अवप्लुत्य
महावेगः
प्रहस्तस्य
निवेशनम् ।
अग्निं
तत्र
स
निक्षिप्य
श्वसनेन
समो
बली ॥ ८ ॥
ततोऽन्यत्
पुप्लुवे
वेश्म
महापार्श्वस्य
वीर्यवान् ।
मुमोच
हनुमानग्निं
कालानलशिखोपमम् ॥ ९ ॥
शुकस्य
च
महातेजाः
सारणस्य
च
धीमतः ।
तथा
चेन्द्रजितो
वेश्म
ददाह
हरियूथपः ॥ १० ॥
जम्बुमालेः
सुमालेश्च
ददाह
भवनं
ततः ।
रश्मिमकेतोश्च
भवनं
सूर्यशत्रोस्तथैव
च ॥ ११ ॥
ह्रस्वकर्णस्य
दंष्ट्रस्य
रोमशस्य
च
रक्षसः ।
युद्धोन्मत्तस्य
मत्तस्य
ध्वजग्रीवस्य
रक्षसः ॥ १२ ॥
विद्युज्जिह्वस्य
घोरस्य
तथा
हस्तिमुखस्य
च ।
करालस्य
पिशाचस्य
शोणिताक्षस्य
चैव
हि ॥ १३ ॥
कुम्भकर्णस्य
भवनं
मकराक्षस्य
चैव
हि ।
यज्ञशत्रोश्च
भवनं
ब्रह्मशत्रोस्तथैव
च ॥ १४ ॥
नरान्तकस्य
कुम्भस्य
निकुम्भस्य
दुरात्मनः ।
वर्जयित्वा
महातेजा
विभीषणगृहं
प्रति ॥ १५ ॥
क्रममाणः
क्रमेणैव
ददाह
हरिपुङ्गवः ।
तेषु
तेषु
महार्हेषु
भवनेषु
महायशाः ॥ १६ ॥
गृहेष्वृद्धिमतामृद्धिं
ददाह
स
महाकपिः ।
सर्वेषां
समतिक्रम्य
राक्षसेन्द्रस्य
वीर्यवान् ॥ १७ ॥
आससादाथ
लक्ष्मीवान्
रावणस्य
निवेशनम् ।
ततस्तस्मिन्
गृहे
मुख्ये
नानारत्नविभूषिते ॥ १८ ॥
मेरुमन्दरसङ्काशे
सर्वमङ्गलशोभिते ।
प्रदीप्तमग्निमुत्सृज्य
लाङ्गूलाग्रे
प्रतिष्ठितम् ॥ १९ ॥
ननाद
हनुमान्
वीरो
युगान्तजलदो
यथा ।
श्वसनेन
च
संयोगादतिवेगो
महाबलः ॥ २० ॥
कालाग्निरिव
जज्वाल
प्रावर्धत
हुताशनः ।
प्रदीप्तमग्निं
पवनस्तेषु
वेश्मस्वचारयत् ॥ २१ ॥
अभूच्छ्वसनसंयोगादतिवेगो
हुताशनः ।
तानि
काञ्चनजालानि
मुक्तामणिमयानि
च ॥ २२ ॥
भवनान्यवशीर्यन्त
रत्नवन्ति
महान्ति
च ।
तानि
भग्नविमानानि
निपेतुर्वसुधातले ॥ २३ ॥
भवनानीव
सिद्धानामम्बरात्
पुण्यसङ्क्षये ।
स्वगृहस्य
परित्राणे
भग्नोत्साहगतश्रियाम् ॥ २४ ॥
नूनमेषोऽग्निरायातः
कपिरूपेण
हा
इति ।
क्रन्दन्त्यः
सहसा
पेतुः
स्तनन्दयधराः
स्त्रियः ॥ २५ ॥
काश्चिदग्निपरीतेभ्यो
हर्म्येभ्यो
मुक्तमूर्धजाः ।
पतन्त्यो
रेजिरेऽभ्रेभ्यः
सौदामिन्य
इवाम्बरात् ॥ २६ ॥
वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।
विचित्रान्
भवनान्
धातून्
स्यान्दमानान्
ददर्श
सः ॥ २७ ॥
नाग्निस्तृप्यति
काष्ठानां
तृणानां
हरियूथपः ।
नाग्नेर्नापि
विशस्तानां
राक्षसानां
वसुन्धरा ॥ २८ ॥
क्वचित्
किंशुकसङ्काशाः
क्वचिच्छाल्मलिसन्निभाः ।
क्वचित्
कुङ्कुमसङ्काशाः
शिखा
वह्नेश्चकाशिरे ॥ २९ ॥
हनूमता
वेगवता
वानरेण
महात्मना ।
लङ्कापुरं
प्रदग्धं
तद्रुद्रेण
त्रिपुरं
यथा ॥ ३० ॥
ततस्तु
लङ्कापुरपर्वताग्रे
समुत्थितो
भीमपराक्रमोऽग्निः ।
प्रमार्य
चूडावलयं
प्रदीप्तो
हनूमता
वेगवता
विसृष्टः ॥ ३१ ॥
युगान्तकालानलतुल्यवेगः
समारुतोऽग्निर्ववृधे
दिविस्पृक् ।
विधूमरश्मिर्भवनेषु
सक्तो
रक्षश्शरीराज्य
समर्पितार्चिः ॥ ३२ ॥
आदित्यकोटीसदृशः
सुतेजा
लङ्कां
समाप्तां
परिवार्य
तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं
प्रबभौ
महाग्निः ॥ ३३ ॥
तत्राम्बरादग्निरतिप्रवृद्धो
रूक्षप्रभः
किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च
नीलोत्पलाभाः
प्रचकाशिरेऽभ्राः ॥ ३४ ॥
वज्री
महेन्द्रस्त्रिदशेश्वरो
वा
साक्षाद्यमो
वा
वरुणोऽनिलो
वा ।
रुद्रोऽग्निरर्को
धनदश्च
सोमो
न
वानरोऽयं
स्वयमेव
कालः ॥ ३५ ॥
किं
ब्रह्मणः
सर्वपितामहस्य
सर्वस्य
धातुश्चतुराननस्य ।
इहागतो
वाग्रूपधारी
रक्षोपसंहारकरः
प्रकोपः ॥ ३६ ॥
किं
वैष्णवं
वा
कपिरूपमेत्य
रक्षोविनाशाय
परं
सुतेजः ।
अनन्तमव्यक्तमचिन्त्यमेकं
स्वमायया
साम्प्रतमागतं
वा ॥ ३७ ॥
इत्येवमूचुर्बहवो
विशिष्टा
रक्षोगणास्तत्र
समेत्य
सर्वे ।
सप्राणिसङ्घां
सगृहां
सवृक्षां
दग्धां
पुरीं
तां
सहसा
समीक्ष्य ॥ ३८ ॥
ततस्तु
लङ्का
सहसा
प्रदग्धा
सराक्षसा
साश्वरथा
सनागा ।
सपक्षिसङ्घा
समृगा
सवृक्षा
रुरोद
दीना
तुमुलं
सशब्दम् ॥ ३९ ॥
हा
तात
हा
पुत्रक
कान्त
मित्र
हा
जीवितं
भोगयुतं
सुपुण्यम् ।
रक्षोभिरेवं
बहुधा
ब्रुवद्भिः
शब्दः
कृतो
घोरतरः
सुभीमः ॥ ४० ॥
हुताशनज्वालसमावृता
सा
हतप्रवीरा
परिवृत्तयोधा ।
हनूमतः
क्रोधबलाभिभूता
बभूव
शापोपहतेव
लङ्का ॥ ४१ ॥
स
सम्भ्रमत्रस्तविषण्णराक्षसां
समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।
ददर्श
लङ्कां
हनुमान्
महामनाः
स्वयम्भुकोपोपहतामिवावनिम् ॥ ४२ ॥
भङ्क्त्वा
वनं
पादपरत्नसङ्कुलं
हत्वा
तु
रक्षांसि
महान्ति
संयुगे ।
दग्ध्वा
पुरीं
तां
गृहरत्नमालिनीं
तस्थौ
हनूमान्
पवनात्मजः
कपिः ॥ ४३ ॥
त्रिकूटशृङ्गाग्रतले
विचित्रे
प्रतिष्ठितो
वानरराजसिंहः ।
प्रदीप्तलाङ्गूलकृतार्चिमाली
व्यराजतादित्य
इवांशुमाली ॥ ४४ ॥
रामस्य
नाथस्य
जगत्त्रयाणां
श्रीपादमूलं
मनसा
जगाम] ।
ततस्तु
तं
वानरवीरमुख्यं
महाबलं
मारुततुल्यवेगम् ॥ ४५ ॥
महामतिं
वायुसुतं
वरिष्ठं
प्रतुष्टुवुर्देवगणाश्च
सर्वे ।
भङ्क्त्वा
वनं
महातेजा
हत्वा
रक्षांसि
संयुगे ॥ ४६ ॥
दग्ध्वा
लङ्कापुरीं
रम्यां
रराज
स
महाकपिः ।
तत्र
देवाः
सगन्धर्वाः
सिद्धाश्च
परमर्षयः ॥ ४७ ॥
दृष्ट्वा
प्रदग्धां
तां
विस्मयं
परमं
गताः ।
तं
दृष्ट्वा
वानरश्रेष्ठं
हनुमन्तं
महाकपिम् ॥ ४८ ॥
कालाग्निरिति
सञ्चिन्त्य
सर्वभूतानि
तत्रसुः ।
देवाश्च
सर्वे
मुनिपुङ्गवाश्च
गन्धर्वविद्याधरनागयक्षाः ॥ ४९ ॥
भूतानि
सर्वाणि
महान्ति
तत्र
जग्मुः
परां
प्रीतिमतुल्यरूपाम् ॥ ५० ॥