लङ्कां
समस्तां
सन्दीप्य
लाङ्गूलाग्निं
महाबलः ।
निर्वापयामास
तदा
समुद्रे
हरिसत्तमः ॥ १ ॥
सन्दीप्यमानां
विध्वस्तां
त्रस्तरक्षोगणां
पुरीम् ।
अवेक्ष्य
हनुमान्
लङ्कां
चिन्तयामास
वानरः ॥ २ ॥
तस्याभूत्
सुमहांस्त्रासः
कुत्सा
चात्मन्यजायत ।
लङ्कां
प्रदहता
कर्म
किंस्वित्
कृतमिदं
मया ॥ ३ ॥
धन्यास्ते
पुरुषश्रेष्ठा
ये
बुद्ध्या
कोपमुत्थितम् ।
निरुन्धन्ति
महात्मानो
दीप्तमग्निमिवाम्भसा ॥ ४ ॥
क्रुद्धः
पापं
न
कुर्यात्
कः
क्रुद्धो
हन्याद्
गुरूनपि ।
क्रुद्धः
परुषया
वाचा
नरः
साधूनधिक्षिपेत् ॥ ५ ॥
वाच्यावाच्यं
प्रकुपितो
न
विजानाति
कर्हिचित् ।
नाकार्यमस्ति
क्रुद्धस्य
नावाच्यं
विद्यते
क्वचित् ॥ ६ ॥
यः
समुत्पतितं
क्रोधं
क्षमयैव
निरस्यति ।
यथोरगस्त्वचं
जीर्णां
स
वै
पुरुष
उच्यते ॥ ७ ॥
धिगस्तु
मां
सुदुर्बुद्धिं
निर्लज्जं
पापकृत्तमम् ।
अचिन्तयित्वा
तां
सीतामग्निदं
स्वामिघातकम् ॥ ८ ॥
यदि
दग्धा
त्वियं
लङ्का
नूनमार्यापि
जानकी ।
दग्धा
तेन
मया
भर्तुर्हतं
कार्यमजानता ॥ ९ ॥
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।
मया
हि
दहता
लङ्कां
न
सीता
परिरक्षिता ॥ १० ॥
ईषत्कार्यमिदं
कार्यं
कृतमासीन्न
संशयः ।
तस्य
क्रोधाभिभूतेन
मया
मूलक्षयः
कृतः ॥ ११ ॥
विनष्टा
जानकी
नूनं
न
ह्यदग्धः
प्रदृश्यते ।
लङ्कायां
कश्चिदुद्देशः
सर्वा
भस्मीकृता
पुरी ॥ १२ ॥
यदि
तद्विहतं
कार्यं
मम
प्रज्ञाविपर्ययात् ।
इहैव
प्राणसन्न्यासो
ममापि
ह्यद्य
रोचते ॥ १३ ॥
किमग्नौ
निपताम्यद्य
अहोस्विद्वडवामुखे ।
शरीरमाहो
सत्त्वानां
दद्मि
सागरवासिनाम् ॥ १४ ॥
कथं
हि
जीवता
शक्यो
मया
द्रष्टुं
हरीश्वरः ।
तौ
वा
पुरुषशार्दूलौ
कार्यसर्वस्वघातिना ॥ १५ ॥
मया
खलु
तदेवेदं
रोषदोषात्
प्रदर्शितम् ।
प्रथितं
त्रिषु
लोकेषु
कपित्वमनवस्थितम् ॥ १६ ॥
धिगस्तु
राजसं
भावमनीशमनवस्थितम् ।
ईश्वरेणापि
यद्रागान्मया
सीता
न
रक्षिता ॥ १७ ॥
विनष्टायां
तु
सीतायां
तावुभौ
विनशिष्यतः ।
तयोर्विनाशे
सुग्रीवः
सबन्धुर्विनशिष्यति ॥ १८ ॥
एतदेव
वचः
श्रुत्वा
भरतो
भ्रातृवत्सलः ।
धर्मात्मा
सहशत्रुघ्नः
कथं
शक्ष्यति
जीवितुम् ॥ १९ ॥
इक्ष्वाकुवंशे
धर्मिष्ठे
गते
नाशमसंशयम् ।
भविष्यन्ति
प्रजाः
सर्वाः
शोकसन्तापपीडिताः ॥ २० ॥
तदहं
भाग्यरहितो
लुप्तधर्मार्थसङ्ग्रहः ।
रोषदोषपरीतात्मा
व्यक्तं
लोकविनाशनः ॥ २१ ॥
इति
चिन्तयस्तस्य
निमित्तान्युपपेदिरे ।
पूर्वमप्युपलब्धानि
साक्षात्पुनरचिन्तयत् ॥ २२ ॥
अथवा
चारुसर्वाङ्गी
रक्षिता
स्वेन
तेजसा ।
न
नशिष्यति
कल्याणी
नाग्निरग्नौ
प्रवर्तते ॥ २३ ॥
न
हि
धर्मात्मनस्तस्य
भार्याममिततेजसः ।
स्वाचारित्राभिगुप्तां
तां
स्प्रष्टुमर्हति
पावकः ॥ २४ ॥
नूनं
रामप्रभावेन
वैदेह्याः
सुकृतेन
च ।
यन्मां
दहनकर्माऽयं
नादहद्धव्यवाहनः ॥ २५ ॥
त्रयाणां
भरतादीनां
भार्तॄणां
देवता
च
या ।
रामस्य
च
मनःकान्ता
सा
कथं
विनशिष्यति ॥ २६ ॥
यद्वा
दहनकर्माऽयं
सर्वत्र
प्रभुरव्ययः ।
न
मे
दहति
लाङ्गूलं
कथमार्यां
प्रधक्ष्यति ॥ २७ ॥
पुनश्चाचिन्तयत्तत्र
हनुमान्
विस्मितस्तदा ।
हिरण्यनाभस्य
गिरेर्जलमध्ये
प्रदर्शनम् ॥ २८ ॥
तपसा
सत्यवाक्येन
अनन्यत्वाच्च
भर्तरि ।
अपि
सा
निर्दहेदग्निं
न
तामग्निः
प्रधक्ष्यति ॥ २९ ॥
स
तथा
चिन्तयंस्तत्र
देव्या
धर्मपरिग्रहम् ।
शुश्राव
हनुमान्
वाक्यं
चारणानां
महात्मनाम् ॥ ३० ॥
अहो
खलु
कृतं
कर्म
दुष्करं
हि
हनूमता ।
अग्निं
विसृजताऽभीक्ष्णं
भीमं
राक्षसवेश्मनि ॥ ३१ ॥
प्रपलायितरक्षः
स्त्रीबालवृद्धसमाकुला ।
जनकोलाहलाध्माता
क्रन्दन्तीवाद्रिकन्दरे ॥ ३२ ॥
दग्धेयं
नगरी
सर्वा
साट्टप्राकारतोरणा ।
जानकी
न
च
दग्धेति
विस्मयोऽद्भुत
एव
नः ॥ ३३ ॥
स
निमित्तैश्च
दृष्टार्थैः
कारणैश्च
महागुणैः ।
ऋषिवाक्यैश्च
हनुमानभवत्
प्रीतभानसः ॥ ३४ ॥
ततः
कपिः
प्राप्तमनोरथार्थस्तामक्षतां
राजसुतां
विदित्वा ।
प्रत्यक्षतस्तां
पुनरेव
दृष्ट्वा
प्रतिप्रयाणाय
मतिं
चकार ॥ ३५ ॥