सचन्द्रकुमुदं
रम्यं
सार्ककारण्डवं
शुभम् ।
तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ॥ १ ॥
पुलर्वसुमहामीनं
लोहिताङ्गमहाग्रहम् ।
ऐरावतमहाद्वीपं
स्वातीहंसविलोलितम् ॥ २ ॥
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ३ ॥
हनुमान्
मारुतगतिर्महानौरिव
सागरम् ।
अपारमपरिश्रान्तः
पुप्लुवे
गगनार्णवम् ॥ ४ ॥
ग्रसमान
इवाकाशं
ताराधिपमिवोल्लिखन् ।
हरन्निव
सनक्षत्रं
गगनं
सार्कमण्डलम् ॥ ५ ॥
मारुतस्यात्मजः
श्रीमान्
कपिर्व्योमचरो
महान् ।
हनुमान्
मेघजालानि
विकर्षन्निव
गच्छति ॥ ६ ॥
पाण्डरारुणवर्णानि
नीलमाञ्जिष्ठकानि
च ।
हरितारुणवर्णानि
महाभ्राणि
चकाशिरे ॥ ७ ॥
प्रविशन्नभ्रजालानि
निष्पतंश्च
पुनः
पुनः ।
प्रच्छन्नश्च
प्रकाशश्च
चन्द्रमा
इव
लक्ष्यते ॥ ८ ॥
विविधाभ्रघनापन्नगोचरो
धवलाम्बरः ।
दृश्यादृश्यतनुर्वीरस्तदा
चन्द्रायतेऽम्बरे ॥ ९ ॥
तार्क्ष्यायमाणो
गगने
बभासे
वायुनन्दनः ।
दारयन्
मेघवृन्दानि
निष्पतंश्च
पुनः
पुनः ॥ १० ॥
नदन्नादेन
महता
मेघस्वनमहास्वनः ।
प्रवरान्
राक्षसान्
हत्वा
नाम
विश्राव्य
चात्मनः ॥ ११ ॥
आकुलां
नगरीं
कृत्वा
व्यथयित्वा
च
रावणम् ।
अर्दयित्वा
बलं
घोरं
वैदेहीमभिवाद्य
च ॥ १२ ॥
आजगाम
महातेजाः
पुनर्मध्येन
सागरम् ।
पर्वतेन्द्रं
सुनाभं
च
समुपस्पृश्य
वीर्यवान् ॥ १३ ॥
ज्यामुक्त
इव
नाराचो
महावेगोऽभ्युपागतः ।
स
किञ्चिदनुसंप्राप्तः
समालोक्य
महागिरिम् ॥ १४ ॥
महेन्द्रमेघसङ्काशं
ननाद
हरिपुङ्गवः ।
स
पूरयामास
कपिर्दिशो
दश
समन्ततः ॥ १५ ॥
नदन्नादेन
महता
मेघस्वनमहास्वनः ।
स
तं
देशमनुप्राप्तः
सुहृद्दर्शनलालसः ॥ १६ ॥
ननाद
हरिशाद्रूलो
लाङ्गूलं
चाप्यकम्पयत् ।
तस्य
नानद्यमानस्य
सुपर्णचरिते
पथि ॥ १७ ॥
फलतीवास्य
घोषेण
गगनं
सार्कमण्डलम् ।
ये
तु
तत्रोत्तरे
तीरे
समुद्रस्य
महाबलाः ॥ १८ ॥
पूर्वं
संविष्ठिताः
शूरा
वायुपुत्रदिदृक्षवः ।
महतो
वायुनुन्नस्य
तोयदस्येव
गर्जितम् ॥ १९ ॥
शुश्रुवुस्ते
तदा
घोषमूरुवेगं
हनूमतः ।
ते
दीनमनसः
सर्वे
शुश्रुवुः
काननौकसः ॥ २० ॥
वानरेन्द्रस्य
निर्घोषं
पर्जन्यनिनदोपमम् ।
निशम्य
नदतो
नादं
वानरास्ते
समन्ततः ॥ २१ ॥
बभूवुरुत्सुकाः
सर्वे
सुहृद्दर्शनकाङ्क्षिणः ।
जाम्बवान्
स
हरिश्रेष्ठः
प्रीतिसंहृष्टमानसः ॥ २२ ॥
उपामन्त्र्य
हरीन्
सर्वानिदं
वचनमब्रवीत् ।
सर्वथा
कृतकार्योऽसौ
हनूमान्नात्र
संशयः ॥ २३ ॥
न
ह्यस्याकृतकार्यस्य
नाद
एवंविधो
भवेत् ।
तस्य
बाहूरुवेगं
च
निनादं
च
महात्मनः ॥ २४ ॥
निशम्य
हरयो
हृष्टाः
समुत्पेतुस्ततस्ततः ।
ते
नगाग्रान्नगाग्राणि
शिखराच्छिखराणि
च ॥ २५ ॥
प्रहृष्टाः
समपद्यन्त
हनूमन्तं
दिदृक्षवः ।
ते
प्रीताः
पादपाग्रेषु
गृह्य
शाखाः
सुविष्ठिताः ॥ २६ ॥
वासांसीव
प्रशाखाश्च
समाविध्यन्त
वानराः ।
गिरिगह्वरसंलीनो
यथा
गर्जति
मारुतः ॥ २७ ॥
एवं
जगर्ज
बलवान्
हनूमान्
मारुतात्मजः ।
तमभ्रघनसङ्काशमापतन्तं
महाकपिम् ॥ २८ ॥
दृष्ट्वा
ते
वानराः
सर्वे
तस्थुः
प्राञ्जलयस्तदा ।
ततस्तु
वेगवांस्तस्य
गिरेर्गिरिनिभः
कपिः ॥ २९ ॥
निपपात
महेन्द्रस्य
शिखरे
पादपाकुले ।
हर्षेणापूर्यमाणोऽसौ
रम्ये
पर्वतनिर्झरे ॥ ३० ॥
छिन्नपक्ष
इवाकाशात्
पपात
धरणीधरः ।
हनूमन्तं
महात्मानं
परिवार्योपतस्थिरे ॥ ३१ ॥
परिवार्य
च
ते
सर्वे
परां
प्रीतिमुपागताः ।
उपायनानि
चादाय
मूलानि
च
फलानि
च ॥ ३२ ॥
प्रत्यर्चयन्
हरिश्रेष्ठं
हरयो
मारुतात्मजम् ।
हनुमांस्तु
गुरून्
वृद्धान्
जाम्बवत्प्रमुखांस्तदा ॥ ३३ ॥
कुमारमङ्गदं
चैव
सोऽवन्दत
महाकपिः ।
स
ताभ्यां
पूजितः
पूज्यः
कपिभिश्च
प्रसादितः ॥ ३४ ॥
दृष्टा
सीतेति
विक्रान्तः
सङ्क्षेपेण
न्यवेदयत् ।
निषसाद
च
हस्तेन
गृहीत्वा
वालिनः
सुतम् ॥ ३५ ॥
रमणीये
वनोद्देशे
महेन्द्रस्य
गिरेस्तदा ।
हनुमानब्रवीद्धृष्टस्तदा
तान्
वानरर्षभान् ॥ ३६ ॥
अशोकवनिकासंस्था
दृष्टा
सा
जनकात्मजा ।
रक्ष्यमाणा
सुघोराभी
राक्षसीभिरनिन्दिता ॥ ३७ ॥
एकवेणीधरा
बाला
रामदर्शनलालसा ।
उपवासपरिश्रान्ता
जटिला
मलिना
कृशा ॥ ३८ ॥
ततो
दृष्टेति
वचनं
महार्थममृतोपमम् ।
निशम्य
मारुतेः
सर्वे
मुदिता
वानरा
भवन् ॥ ३९ ॥
क्ष्वेलन्त्यन्ये
नदन्त्यन्ये
गर्जन्त्यन्ये
महाबलाः ।
चक्रुः
किलिकिलामन्ये
प्रतिगर्जन्ति
चापरे ॥ ४० ॥
केचिदुच्छ्रितलाङ्गूलाः
प्रहृष्टाः
कपिकुञ्जराः ।
अञ्चिता
यतदीर्घाणि
लाङ्गूलानि
प्रविव्यधुः ॥ ४१ ॥
अपरे
च
हनूमन्तं
वानरा
वारणोपमम् ।
आप्लुत्य
गिरिशृङ्गेभ्यः
संस्पृशन्ति
स्म
हर्षिताः ॥ ४२ ॥
उक्तवाक्यं
हनूमन्तमङ्गदस्तमथाब्रवीत् ।
सर्वेषां
हरिवीराणां
मध्ये
वचनमुत्तमम् ॥ ४३ ॥
सत्त्वे
वीर्ये
न
ते
कश्चित्
समो
वानर
विद्यते ।
यदवप्लुत्य
विस्तीर्णं
सागरं
पुनरागतः ॥ ४४ ॥
अहो
स्वामिनि
ते
भक्तिरहो
वीर्यमहो
धृतिः ।
दिष्ट्या
दृष्टा
त्वया
देवी
रामपत्नी
यशस्विनी ॥ ४५ ॥
दिष्ट्या
त्यक्ष्यति
काकुत्स्थः
शोकं
सीतावियोगजम् ।
ततोऽङ्गदं
हनूमन्तं
जाम्बवन्तं
च
वानराः ॥ ४६ ॥
परिवार्य
प्रमुदिता
भेजिरे
विपुलाः
शिलाः ।
श्रोतुकामाः
समुद्रस्य
लङ्घनं
वानरोत्तमाः ॥ ४७ ॥
दर्शनं
चापि
लङ्कायाः
सीताया
रावणस्य
च ।
तस्थुः
प्राञ्जलयः
सर्वे
हनुमद्वदनोन्मुखाः ॥ ४८ ॥
तस्थौ
तत्राङ्गदः
श्रीमान्
वानरैर्बहुभिर्वृतः ।
उपास्यमानो
विबुधैर्दिवि
देवपतिर्यथा ॥ ४९ ॥
हनूमता
कीर्तिमता
यशस्विना
तथाऽङ्गदेनाङ्गदबद्धबाहुना ।
मुदा
तदाध्यासितमुन्नतं
महन्महीधराग्रं
ज्वलितं
श्रियाऽभवत् ॥ ५० ॥