ततस्तस्य
गिरेः
शृङ्गे
महेन्द्रस्य
महाबलाः ।
हनुमत्प्रमुखाः
प्रीतिं
हरयो
जग्मुरुत्तमाम् ॥ १ ॥
तं
ततः
प्रीतिसंहृष्टः
प्रीतिमन्तं
महाकपिम् ।
जाम्बवान्
कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ २ ॥
कथं
दृष्टा
त्वया
देवी
कथं
वा
तत्र
वर्तते ।
तस्यां
वा
स
कथंवृत्तः
क्रूरकर्मा
दशाननः ॥ ३ ॥
तत्त्वतः
सर्वमेतन्नः
प्रबूहि
त्वं
महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो
भूयः
कार्यविनिश्चयम् ॥ ४ ॥
यश्चार्थस्तत्र
वक्तव्यो
गतैरस्माभिरात्मवान् ।
रक्षितव्यं
च
यत्तत्र
तद्भवान्
व्याकरोतु
नः ॥ ५ ॥
स
नियुक्तस्ततस्तेन
संप्रहृष्टतनूरुहः ।
प्रणम्य
शिरसा
देव्यै
सीतायै
प्रत्यभाषत ॥ ६ ॥
प्रत्यक्षमेव
भवतां
महेन्द्राग्रात्
खमाप्लुतः ।
उदधेर्दक्षिणं
पारं
काङ्क्षमाणः
समाहितः ॥ ७ ॥
गच्छतश्च
हि
मे
घोरं
विघ्नरूपमिवाभवत् ।
काञ्चनं
शिखरं
दिव्यं
पश्यामि
सुमनोहरम् ॥ ८ ॥
स्थितं
पन्थानमावृत्य
मेने
विघ्नं
च
तं
नगम् ।
उपसङ्गम्य
तं
दिव्यं
काञ्चनं
नगसत्तमम् ॥ ९ ॥
कृता
मे
मनसा
बुद्धिर्भेत्तव्योऽयं
मयेति
च ।
प्रहतं
च
मया
तस्य
लाङ्गूलेन
महागिरेः ॥ १० ॥
शिखरं
सूर्यसङ्काशं
व्यशीर्यत
सहस्रधा ।
व्यवसायं
च
तं
बुद्ध्वा
स
होवाच
महागिरिः ॥ ११ ॥
पुत्रेति
मधुरां
वाणीं
मनः
प्रह्लादयन्निव ।
पितृव्यं
चापि
मां
विद्धि
सखायं
मातरिश्वनः ॥ १२ ॥
मैनाकमिति
विख्यातं
निवसन्तं
महोदधौ ।
पक्षवन्तः
पुरा
पुत्र
बभूवुः
पर्वतोत्तमाः ॥ १३ ॥
छन्दतः
पृथिवीं
चेरुर्बाधमानाः
समन्ततः ।
श्रुत्वा
नगानां
चरितं
महेन्द्रः
पाकशासनः ॥ १४ ॥
चिच्छेद
भगवान्
पक्षान्
वज्रेणैषां
सहस्रशः ।
अहं
तु
मोक्षितस्तस्मात्तव
पित्रा
महात्मना ॥ १५ ॥
मारुतेन
तदा
वत्स
प्रक्षिप्तोऽस्मि
महार्णवे ।
रामस्य
च
मया
साह्ये
वर्तितव्यमरिन्दम ॥ १६ ॥
रामो
धर्मभृतां
श्रेष्ठो
महेन्द्रसमविक्रमः ।
एतच्छ्रुत्वा
वचस्तस्य
मैनाकस्य
महात्मनः ॥ १७ ॥
कार्यमावेद्य
तु
गिरेरुद्यतं
च
मनो
मम ।
स
चाप्यन्तर्हितः
शैलो
मानुषेण
वपुष्मता ॥ १८ ॥
शरीरेण
महाशैलः
शैलेन
च
महोदधौ ।
उत्तमं
जवमास्थाय
शेषं
पन्थानमास्थितः ॥ १९ ॥
ततोऽहं
सुचिरं
कालं
वेगेनाभ्यगमं
पथि ।
ततः
पश्याम्यहं
देवीं
सुरसां
नागमातरम् ॥ २० ॥
समुद्रमध्ये
सा
देवी
वचनं
मामभाषत ।
मम
भक्षः
प्रदिष्टस्त्वममरैर्हरिसत्तम ॥ २१ ॥
अतस्त्वां
भक्षयिष्यामि
विहितस्त्वं
चिरस्य
मे ।
एवमुक्तः
सुरसया
प्राञ्जलिः
प्रणतः
स्थितः ॥ २२ ॥
विवर्णवदनो
भूत्वा
वाक्यं
चेदमुदीरयम् ।
रामो
दाशरथिः
श्रीमान्
प्रविष्टो
दण्डकावनम् ॥ २३ ॥
लक्ष्मणेन
सह
भ्रात्रा
सीतया
च
परन्तपः ।
तस्य
सीता
हृता
भार्या
रावणेन
दुरात्मना ॥ २४ ॥
तस्याः
सकाशं
दूतोऽहं
गमिष्ये
रामशासनात् ।
कर्तुमर्हसि
रामस्य
साहाय्यं
विषये
सती ॥ २५ ॥
अथवा
मैथिलीं
दृष्ट्वा
रामं
चाक्लिष्टकारिणम् ।
आगमिष्यामि
ते
वक्त्रं
सत्यं
प्रतिश्रृणोमि
ते ॥ २६ ॥
एवमुक्ता
मया
सा
तु
सुरसा
कामरूपिणी ।
अब्रवीन्नातिवर्तेत
कश्चिदेष
वरो
मम ॥ २७ ॥
ततोऽर्धगुणविस्तारो
बभूवाहं
क्षणेन
तु ।
मत्प्रमाणानुरूपं
च
व्यादितं
तु
मुखं
तया ॥ २८ ॥
तद्दृष्ट्वा
व्यादितं
चास्यं
ह्रस्वं
ह्यकरवं
वपुः ।
तस्मिन्
मुहूर्ते
च
पुनर्बभूवाङ्गुष्ठमात्रकः ॥ २९ ॥
अभिपत्याशु
तद्वक्रं
निर्गतोऽहं
ततः
क्षणात् ।
अब्रवीत्
सुरसा
देवी
स्वेन
रूपेण
मां
पुनः ॥ ३० ॥
समानय
च
वैदेहीं
राघवेण
महात्मना ।
सुखी
भव
महाबाहो
प्रीताऽस्मि
तव
वानर ॥ ३१ ॥
ततोऽहं
साधु
साध्वीति
सर्वभूतैः
प्रशंसितः ।
ततोऽन्तरिक्षं
विपुलं
प्लुतोऽहं
गरुडो
यथा ॥ ३२ ॥
छाया
मे
निगृहीता
च
न
च
पश्यामि
किञ्चन ।
सोऽहं
विगतवेगस्तु
दिशो
दश
विलोकयन् ॥ ३३ ॥
न
किञ्चित्तत्र
पश्यामि
येन
मेऽपहृता
गतिः ।
ततो
मे
बुद्धिरुत्पन्ना
किं
नाम
गगने
मम ॥ ३४ ॥
ईदृशो
विघ्न
उत्पन्नो
रूपं
यत्र
न
दृश्यते ।
अधोभागे
न
मे
दृष्टिः
शोचता
पातिता
मया ॥ ३५ ॥
ततोऽद्राक्षमहं
भीमां
राक्षसीं
सलिलेशयाम् ।
प्रहस्य
च
महानादमुक्तोऽहं
भीमया
तया ॥ ३६ ॥
अवस्थितमसम्भ्रान्तमिदं
वाक्यमशोभनम् ।
क्वासि
यन्ता
महाकाय
क्षुधिताया
ममेप्सितः ॥ ३७ ॥
भक्षः
प्रीणय
मे
देहं
चिरमाहारवर्जितम् ।
आस्य
प्रमाणादधिकं
तस्याः
कायमपूरयम् ॥ ३८ ॥
तस्याश्चास्यं
महद्भीमं
वर्धते
मम
भक्षणे ।
न
च
मां
साधु
बुबुधे
मम
वा
निकृतं
कृतम् ॥ ३९ ॥
ततोऽहं
विपुलं
रूपं
सङ्क्षिप्य
निमिषान्तरात् ।
तस्या
हृदयमादाय
प्रपतामि
नभःस्थलम् ॥ ४० ॥
सा
विसृष्टभुजा
भीमा
पपात
लवणाम्भसि ।
मया
पर्वतसङ्काशा
निकृत्तहृदया
सती ॥ ४१ ॥
श्रृणोमि
खगतानां
च
सिद्धानां
चारणैः
सह ।
राक्षसी
सिंहिका
भीमा
क्षिप्रं
हनुमता
हता ॥ ४२ ॥
तां
हत्वा
पुनरेवाहं
कृत्यमात्ययिकं
स्मरन् ।
गत्वा
चाहं
महाध्वानं
पश्यामि
नगमण्डितम् ॥ ४३ ॥
अस्तं
दिनकरे
याते
रक्षसां
निलयं
पुरम् ।
प्रविष्टोऽहमविज्ञातो
रक्षोभि
र्भीमविक्रमैः ॥ ४४ ॥
तत्र
प्रविशतश्चापि
कल्पान्तघनसन्निभा ।
अट्टहासं
विमुञ्चन्ती
नारी
काप्युत्थिता
पुरः ॥ ४५ ॥
जिघांसन्तीं
ततस्तां
तु
ज्वलदग्निशिरोरुहाम् ।
सव्यमुष्टिप्रहारेण
पराजित्य
सुभैरवाम् ॥ ४६ ॥
प्रदोषकाले
प्रविशं
भीतयाऽहं
तयोदितः ।
अहं
लङ्कापुरी
वीर
निर्जिता
विक्रमेण
ते ॥ ४७ ॥
यस्मात्तस्माद्विजेतासि
सर्व
रक्षांस्यशेषतः ।
तत्राहं
सर्वरात्रं
तु
विचिन्वन्
जनकात्मजाम् ॥ ४८ ॥
रावणान्तःपुरगतो
न
चापश्यं
सुमध्यमाम् ।
ततः
सीतामपश्यंस्तु
रावणस्य
निवेशने ॥ ४९ ॥
शोकसागरमासाद्य
न
पारमुपलक्षये ।
शोचता
च
मया
दृष्टं
प्राकारेण
समावृतम् ॥ ५० ॥
काञ्चनेन
विकृष्टेन
गृहोपवनमुत्तमम् ।
स
प्राकारमवप्लुत्य
पश्यामि
बहुपादपम् ॥ ५१ ॥
अशोकवनिकामध्ये
शिंशुपापादपो
महान् ।
तमारुह्य
च
पश्यामि
काञ्चनं
कदलीवनम् ॥ ५२ ॥
अदूरे
शिंशुपावृक्षात्
पश्यामि
वरवर्णिनीम् ।
श्यामां
कमलपत्राक्षीमुपवासकृशाननाम् ॥ ५३ ॥
तदेकवासःसंवीतां
रजोध्वस्तशिरोरुहाम् ।
शोकसन्तापदीनाङ्गीं
सीतां
भर्तृहिते
स्थिताम् ॥ ५४ ॥
राक्षसीभिर्विरूपाभिः
क्रूराभिरभिसंवृताम् ।
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥ ५५ ॥
सामया
राक्षसीमध्ये
तर्ज्यमाना
मुहुर्मुहुः ।
एकवेणीधरा
दीना
भर्तृचिन्तापरायणा ॥ ५६ ॥
रावणाद्विनिवृत्तार्था
मर्तव्यकृतनिश्चया ।
कथञ्चिन्मृगशावाक्षी
तूर्णमासादिता
मया ॥ ५७ ॥
तां
दृष्ट्वा
तादृशीं
नारीं
रामपत्नीं
यशस्विनीम् ।
तत्रैव
शिंशुपावृक्षे
पश्यन्नहमवस्थितः ॥ ५८ ॥
ततो
हलहलाशब्दं
काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं
रावणस्य
निवेशने ॥ ५९ ॥
ततोऽहं
परमोद्विग्नः
स्वं
रूपं
प्रतिसंहरन् ।
अहं
तु
शिंशुपावृक्षे
पक्षीव
गहने
स्थितः ॥ ६० ॥
ततो
रावणदाराश्च
रावणश्च
महाबलः ।
तं
देशं
समनुप्राप्त
यत्र
सीताऽभवत्
स्थिता ॥ ६१ ॥
तद्
दृष्ट्वाऽथ
वरारोहा
सीता
रक्षोमहाबलम् ।
सङ्कुच्योरू
स्तनौ
पीनौ
बाहुभ्यां
परिरभ्य
च ॥ ६२ ॥
वित्रस्तां
परमोद्विग्नां
वीक्षमाणां
ततस्ततः ।
त्राणं
किञ्चिदपश्यन्तीं
वेपमानां
तपस्विनीम् ॥ ६३ ॥
तामुवाच
दशग्रीवः
सीतां
परमदुःखिताम् ।
अवाक्छिराः
प्रपतितो
बहुमन्यस्व
मामिति ॥ ६४ ॥
यदि
चेत्त्वं
तु
दर्पान्मां
नाभिनन्दसि
गर्विते ।
द्वौ
मासावन्तरं
सीते
पास्यामि
रुधिरं
तव ॥ ६५ ॥
एतच्छ्रुत्वा
वचस्तस्य
रावणस्य
दुरात्मनः ।
उवाच
परमक्रुद्धा
सीता
वचनमुत्तमम् ॥ ६६ ॥
इक्ष्वाकुकुलनाथस्य
स्नुषां
दशरथस्य
च ।
अवाच्यं
वदतो
जिह्वा
कथं
न
पतिता
तव ॥ ६७ ॥
किञ्चिद्वीर्यं
तवानार्य
यो
मां
भर्तुरसन्निधौ ।
अपहृत्यागतः
पाप
तेनादृष्टो
महात्मना ॥ ६८ ॥
न
त्वं
रामस्य
सदृशो
दास्येऽप्यस्य
न
युज्यसे ।
यज्ञीयः
सत्यवादी
च
रणश्लाघी
च
राघवः ॥ ६९ ॥
जानक्या
परुषं
वाक्यमेवमुक्तो
दशाननः ।
जज्वाल
सहसा
कोपच्चितास्थ
इव
पावकः ॥ ७० ॥
विवर्त्य
नयने
क्रूरे
मुष्टिमुद्यम्य
दक्षिणम् ।
मैथिलीं
हन्तुमारब्धः
स्त्रीभिर्हा
हा
कृतं
तदा ॥ ७१ ॥
स्त्रीणां
मध्यात्
समुत्पत्य
तस्य
भार्या
दुरात्मनः ।
वरा
मण्डोदरी
नाम
तया
स
प्रतिषेधितः ॥ ७२ ॥
उक्तश्च
मधुरां
वाणीं
तया
स
मदानार्दितः ।
सीतया
तव
किं
कार्यं
महेन्द्रसमविक्रम ॥ ७३ ॥
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव
च ।
सार्धं
प्रभो
रमस्वेह
सीतया
किं
करिष्यसि ॥ ७४ ॥
ततस्ताभिः
समेताभिर्नारीभिः
स
महाबलः ।
प्रसाद्य
सहसा
नीतो
भवनं
स्वं
निशाचरः ॥ ७५ ॥
याते
तस्मिन्
दशग्रीवे
राक्षस्यो
विकृताननाः ।
सीतां
निर्भर्त्सयामासुर्वाक्यैः
क्रूरैः
सुदारुणैः ॥ ७६ ॥
तृणवद्भाषितं
तासां
गणयामास
जानकी ।
गर्जितं
च
तदा
तासां
सीतां
प्राप्य
निरर्थकम् ॥ ७७ ॥
वृथागर्जितनिश्चेष्टा
राक्षस्यः
पिशिताशनाः ।
रावणाय
शशंसुस्ताः
सीताध्यवसितं
महत् ॥ ७८ ॥
ततस्ताः
सहिताः
सर्वा
विहताशा
निरुद्यमाः ।
परिक्षिप्य
समन्तात्तां
निद्रावशमुपागताः ॥ ७९ ॥
तासु
चैव
प्रसुप्तासु
सीता
भर्तृहिते
रता ।
विलप्य
करुणं
दीना
प्रशुशोच
सुदुःखिता ॥ ८० ॥
तासां
मध्यात्
समुत्थाय
त्रिजटा
वाक्यमब्रवीत् ।
आत्मानं
खादत
क्षिप्रं
न
सीता
विनशिष्यति ॥ ८१ ॥
जनकस्यात्मजा
साध्वी
स्नुषा
दशरथस्य
च ।
स्वप्नो
ह्यद्य
मया
दृष्टो
दारुणो
रोमहर्षणः ॥ ८२ ॥
रक्षसां
च
विनाशाय
भर्तुरस्या
जयाय
च ।
अलमस्मात्
परित्रातुं
राघवाद्राक्षसीगणम् ॥ ८३ ॥
अभियाचाम
वैदेहीमेतद्धि
मम
रोचते ।
यस्या
ह्येवंविधः
स्वप्नो
दुःखितायाः
प्रदृश्यते ॥ ८४ ॥
सा
दुःखैर्विविधैर्मुक्ता
सुखमाप्नोत्यनुत्तमम् ।
प्रणिपातप्रसन्ना
हि
मैथिली
जनकात्मजा ॥ ८५ ॥
ततः
सा
ह्रीमती
बाला
भर्तुर्विजयहर्षिता ।
अवोचद्यदि
तत्तथ्यं
भवेयं
शरणं
हि
वः ॥ ८६ ॥
तां
चाहं
तादृशीं
दृष्ट्वा
सीताया
दारुणां
दशाम् ।
चिन्तयामास
विक्रान्तो
न
च
मे
निर्वृतं
मनः ॥ ८७ ॥
सम्भाषणाथ
च
मया
जानक्याश्चिन्तितो
विधिः ।
इक्ष्वाकूणां
हि
वशस्तु
ततो
मम
पुरस्कृतः ॥ ८८ ॥
श्रुत्वा
तु
गदितां
वाचं
राजर्षिगणपूजिताम् ।
प्रत्यभाषत
मां
देवी
बाष्पैः
पिहितलोचना ॥ ८९ ॥
कस्त्वं
केन
कथं
चेह
प्राप्तो
वानरपुङ्गव ।
का
च
रामेण
ते
प्रीतिस्तन्मे
शंसितुमर्हसि ॥ ९० ॥
देवि
रामस्य
भर्तुस्ते
सहायो
भीमविक्रमः ।
सुग्रीवो
नाम
विक्रान्तो
वानरेन्द्रो
महाबलः ॥ ९१ ॥
तस्य
मां
विद्धि
भृत्यं
त्वं
हनुमन्तमिहागतम् ।
भर्त्राऽहं
प्रेषितस्तुभ्यं
रामेणाक्लिष्टकर्मणा ॥ ९२ ॥
इदं
च
पुरुषव्याघ्रः
श्रीमान्
दाशरथिः
स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं
यशस्विनि ॥ ९३ ॥
तदिच्छामि
त्वयाऽऽज्ञप्तं
देवि
किं
करवाण्यहम् ।
रामलक्ष्मणयोः
पार्श्वं
नयामि
त्वां
किमुत्तरम् ॥ ९४ ॥
एतच्छ्रुत्वा
विदित्वा
च
सीता
जनकनन्दिनी ।
आह
रावणमुत्साद्य
राघवो
मां
नयत्विति ॥ ९५ ॥
प्रणम्य
शिरसा
देवीमहमार्यामनिन्दिताम् ।
राघवस्य
मनोह्लादमभिज्ञानमयाचिषम् ॥ ९६ ॥
अथ
मामब्रवीत्
सीता
गृह्यतामयमुत्तमः ।
मणिर्येन
महाबाहू
रामस्त्वां
बहुमन्यते ॥ ९७ ॥
इत्यक्त्वा
तु
वरारोहा
मणिप्रवरमद्भुतम् ।
प्रायच्छत्
परमोद्विग्ना
वाचा
मां
सन्दिदेश
ह ॥ ९८ ॥
ततस्तस्यै
प्रणम्याहं
राजपुत्र्यैः
समाहितः ।
प्रदक्षिणं
परिक्राममिहाभ्युद्गतमानसः ॥ ९९ ॥
उत्तरं
पुनरेवेदं
निश्चित्य
मनसा
तया ।
हनुमन्
मम
वृत्तान्तं
वक्तुमर्हसि
राघवे ॥ १०० ॥
यथा
श्रुत्वैव
नचिरात्तावुभौ
रामलक्ष्मणौ ।
सुग्रीवसहितौ
वीरावुपेयातां
तथा
कुरु ॥ १०१ ॥
यद्यन्यथा
भवेदेतद्द्वौ
मासौ
जीवितं
मम ।
न
मां
द्रक्ष्यति
काकुत्स्थो
म्रिये
साऽहमनाथवत् ॥ १०२ ॥
तच्छ्रुत्वा
करुणं
वाक्यं
क्रोधो
मामभ्यवर्तत ।
उत्तरं
च
मया
दृष्टं
कार्यशेषमनन्तरम् ॥ १०३ ॥
ततोऽवर्धत
मे
कायस्तदा
पर्वतसन्निभः ।
युद्धकाङ्क्षी
वनं
तच्च
विनाशयितुमारभे ॥ १०४ ॥
तद्भग्नं
वनषण्डं
तु
भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा
निरीक्षन्ते
राक्षस्यो
विकृताननाः ॥ १०५ ॥
मां
च
दृष्ट्वा
वने
तस्मिन्
समागम्य
ततस्ततः ।
ताः
समभ्यागताः
क्षिप्रं
रावणायाचचक्षिरे ॥ १०६ ॥
राजन्
वनमिदं
दुर्गं
तव
भग्नं
दुरात्मना ।
वानरेण
ह्यविज्ञाय
तव
वीर्यं
महाबल ॥ १०७ ॥
दुर्बुद्धेस्तस्य
राजेन्द्र
तव
विप्रियकारिणः ।
वधमाज्ञापय
क्षिप्रं
यथाऽसौ
विलयं
व्रजेत् ॥ १०८ ॥
तच्छ्रुत्वा
राक्षसेन्द्रेण
विसृष्टा
भृशदुर्जयाः ।
राक्षसाः
किङ्करा
नाम
रावणस्य
मनोनुगाः ॥ १०९ ॥
तेषामशीतिसाहस्रं
शूलमुद्गरपाणिनाम् ।
मया
तस्मिन्
वनोद्देशे
परिघेण
निषूदितम् ॥ ११० ॥
तेषां
तु
हतशेषा
ये
ते
गत्वा
लघुविक्रमाः ।
निहतं
च
महत्सैन्यं
रावणायाचचक्षिरे ॥ १११ ॥
तत्रस्थान्
राक्षसान्
हत्वा
शतं
स्तम्भेन
वै
पुनः ।
ललामभूतो
लङ्कायाः
स
वै
विध्वंसितो
मया ॥ ११२ ॥
ततः
प्रहस्तस्य
सुतं
जम्बुमालिनमादिशत् ।
राक्षसैर्बहुभिः
सार्धं
घोररूपैर्भयानकैः ॥ ११३ ॥
तमहं
बलसम्पन्नं
राक्षसं
रणकोविदम् ।
परिघेणातिघोरेण
सूदयामि
सहानुगम् ॥ ११४ ॥
तच्छ्रुत्वा
राक्षसेन्द्रस्तु
मन्त्रिपुत्रान्
महाबलान् ।
पदातिबलसम्पन्नान्
प्रेषयामास
रावणः ॥ ११५ ॥
परिघेणैव
तान्
सर्वान्नयामि
यमसादनम् ।
मन्त्रिपुत्रान्
हताञ्छ्रुत्वा
समरे
लघुविक्रमान् ॥ ११६ ॥
पञ्च
सेनाग्रगाञ्छूरान्
प्रेषयमास
रावणः ।
तानहं
सहसैन्यान्
वै
सर्वानेवाभ्यसूदयम् ॥ ११७ ॥
ततः
पुनर्दशग्रीवः
पुत्रमक्षं
महाबलम् ।
बहुभी
राक्षसैः
सार्धं
प्रेषयामास
रावणः ॥ ११८ ॥
तं
तु
मन्दोदरीपुत्रं
कुमारं
रणपण्डितम् ।
चर्मासिनं
शतगुणं
भ्रामयित्वा
व्यपेषयम् ॥ ११९ ॥
तमक्षमागतं
भग्नं
निशम्य
स
दशाननः ।
तत
इन्द्रजितं
नाम
द्वितीयं
रावणः
सुतम् ॥ १२० ॥
व्यादिदेश
सुसङ्क्रुद्धो
बलिनं
युद्धदुर्मदम् ।
तच्चाप्यहं
बलं
सर्वं
तं
च
राक्षसपुङ्गवम् ॥ १२१ ॥
नष्टौजसं
रणे
कृत्वा
परं
हर्षमुपागमम् ।
महतापि
महाबाहुः
प्रत्ययेन
महाबलः ॥ १२२ ॥
प्रेषितो
रावणेनैव
सह
वीरैर्मदोत्कटैः ।
सोऽविषह्यं
हि
मां
बुद्ध्वा
स्वबलं
चावमर्दितम् ॥ १२३ ॥
ब्राह्मेणास्त्रेण
स
तु
मां
प्राबध्नाच्चातिवेगितः ।
रज्जुभिश्चाभिबध्नन्ति
ततो
मां
तत्र
राक्षसाः ॥ १२४ ॥
रावणस्य
समीपं
च
गृहीत्वा
मामुपानयन् ।
दृष्ट्वा
सम्भाषितश्चाहं
रावणेन
दुरात्मना ॥ १२५ ॥
पृष्टश्च
लङ्कागमनं
राक्षसानां
च
तं
वधम् ।
तत्सर्वं
च
मया
तत्र
सीतार्थमिति
जल्पितम् ॥ १२६ ॥
अस्याहं
दर्शनाकाङ्क्षी
प्राप्तस्त्वद्भवनं
विभो ।
मारुतस्यौरसः
पुत्रो
वानरो
हनुमानहम् ॥ १२७ ॥
सोऽहं
दूत्येन
रामस्य
त्वत्सकाशमिहागतः ।
सुग्रीवश्च
महातेजाः
स
त्वां
कुशलमब्रवीत् ॥ १२८ ॥
धर्मार्थकामसहितं
हितं
पथ्यमुवाच
च ।
वसतो
ऋश्यमूके
मे
पर्वते
विपुलद्रुमे ॥ १२९ ॥
राघवो
रणविक्रान्तो
मित्रत्वं
समुपागतः ।
तेन
मे
कथितं
राज्ञा
भार्या
मे
रक्षसा
हृता ॥ १३० ॥
तत्र
साहाय्यमस्माकं
कार्यं
सर्वात्मना
त्वया ।
मया
च
कथितं
तस्मै
वालिनश्च
वधं
प्रति ॥ १३१ ॥
तत्र
साहाय्यहेतोर्मे
समयं
कर्तुमर्हसि ।
वालिना
हृतराज्येन
सुग्रीवेण
महाप्रभुः ॥ १३२ ॥
चक्रेऽग्निसाक्षिकं
सख्यं
राघवः
सहलक्ष्मणः ।
तेन
वालिनमुत्पाट्य
शरेणैकेन
संयुगे ॥ १३३ ॥
वानराणां
महाराजः
कृतः
स
प्लवता
प्रभुः ।
तेन
प्रस्थापितस्तुभ्यं
समीपमिह
धर्मतः ॥ १३४ ॥
क्षिप्रमानीयतां
सीता
दीयतां
राघवाय
च ।
यावन्न
हरयो
वीरा
विधमन्ति
बलं
तव ॥ १३५ ॥
वानराणां
प्रभावो
हि
न
केन
विदितः
पुरा ।
देवतानां
सकाशं
च
ये
गच्छन्ति
निमन्त्रिताः ॥ १३६ ॥
इति
वानरराजस्त्वामाहेत्यभिहितो
मया ।
मामैक्षत
ततः
क्रुद्धश्चक्षुषा
प्रदहन्निव ॥ १३७ ॥
तेन
वध्योऽहमाज्ञप्तो
रक्षसा
रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय
रावणेन
दुरात्मना ॥ १३८ ॥
ततो
विभीषणो
नाम
तस्य
भ्राता
महामतिः ।
तेन
राक्षसराजोऽसौ
याचितो
मम
कारणात् ॥ १३९ ॥
नैवं
राक्षसशार्दूल
त्यज्यतामेष
निश्चयः ।
राजशास्त्रव्यपेतो
हि
मार्गः
संसेव्यते
त्वया ॥ १४० ॥
दूतवध्या
न
दृष्टा
हि
राजशास्त्रेषु
राक्षस ।
दूतेन
वेदितव्यं
च
यथार्थं
हितवादिना ॥ १४१ ॥
सुमहत्यपराधेऽपि
दूतस्यातुलविक्रम ।
विरूपकरणं
दृष्टं
न
वधोऽस्तीति
शास्त्रतः ॥ १४२ ॥
विभीषणेनैवमुक्तो
रावणः
सन्दिदेश
तान् ।
राक्षसानेतदेवास्य
लाङ्गूलं
दह्यतामिति ॥ १४३ ॥
ततस्तस्य
वचः
श्रुत्वा
पुच्छं
समन्ततः ।
वेष्टितं
शणवल्कैश्च
जीर्णैः
कार्पासजैः
पटैः ॥ १४४ ॥
तदाऽदह्यन्त
मे
पुच्छं
निघ्नन्तः
काष्ठमुष्टिभिः ।
बद्धस्य
बहुभिः
पाशैर्यन्त्रितस्य
च
राक्षसैः ॥ १४५ ॥
ततस्ते
राक्षसाः
शूरा
बद्धं
मामग्निसंवृतम् ।
अघोषयन्
राजमार्गे
नगरद्वारमागताः ॥ १४६ ॥
ततोऽहं
सुमहद्रूपं
सङ्क्षिप्य
पुनरात्मनः ।
आयसं
परिघं
गृह्य
तानि
रक्षांस्यसूदयम् ॥ १४७ ॥
ततस्तन्नगरद्वारं
वेगेनाप्लुतवानहम् ।
पुच्छेन
च
प्रदीप्तेन
तां
पुरीं
साट्टगोपुराम् ॥ १४८ ॥
दहाम्यहमसम्भ्रान्तो
युगान्ताग्निरिव
प्रजाः ।
विनष्टा
जानकी
व्यक्तं
न
ह्यदग्धः
प्रदृश्यते ॥ १४९ ॥
लङ्कायां
कश्चिदुद्देशः
सर्वा
भस्मीकृता
पुरी ।
दहता
च
मया
लङ्कां
दग्धा
सीता
न
संशयः ॥ १५० ॥
रामस्य
हि
महत्
कार्यं
मयेदं
वितथीकृतम् ।
इति
शोकसमाविष्टश्चिन्तामहमुपागतः ॥ १५१ ॥
अथाहं
वाचमश्रौषं
चारणानां
शुभाक्षराम् ।
जानकी
न
च
दग्धेति
विस्मयोदन्तभाषिताम् ॥ १५२ ॥
ततो
मे
बुद्धिरुत्पन्ना
श्रुत्वा
तामद्भुतां
गिरम् ।
अदग्द्धा
जानकीत्येवं
निमित्तैश्चोपलक्षिता ॥ १५३ ॥
दीप्यमाने
तु
लाङ्गूले
न
मां
दहति
पावकः ।
हृदयं
च
प्रहृष्टं
मे
वाताः
सुरभिगन्धिनः ॥ १५४ ॥
तैर्निमित्तैश्च
दृष्टार्थैः
कारणैश्च
महागुणैः ।
ऋषिवाक्यैश्च
सिद्धार्थैरभवं
हृष्टमानसः ॥ १५५ ॥
पुनर्दृष्ट्वा
च
वैदेहीं
विसृष्टश्च
तया
पुनः ।
ततः
पर्वतमासाद्य
तत्रारिष्टमहं
पुनः ॥ १५६ ॥
प्रतिप्लवनमारेभे
युष्मद्दर्शनकाङ्क्षया ।
ततः
पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ॥ १५७ ॥
पन्थानमहमाक्रम्य
भवतो
दृष्टवानिह ।
राघवस्य
प्रभावेन
भवतां
चैव
तेजसा ॥ १५८ ॥
सुग्रीवस्य
च
कार्यार्थं
मया
सर्वमनुष्टितम् ।
एतत्सर्वं
मया
तत्र
यथावदुपपादितम् ॥ १५९ ॥
अत्र
यन्न
कृतं
शेषं
तत्सर्वं
क्रियतामिति ॥ १६० ॥