तस्य
तद्वचनं
श्रुत्वा
वालिसूनुरभाषत ।
अयुक्तं
तु
विना
देवीं
दृष्टवद्भिश्च
वानराः ॥ १ ॥
समीपं
गन्तुमस्माभी
राघवस्य
महात्मनः ।
दृष्टा
देवी
न
चानीता
इति
तत्र
निवेदनम् ॥ २ ॥
अयुक्तमिव
पश्यामि
भवद्भिः
ख्यातविक्रमैः ।
न
हि
नः
प्लवने
कश्चिन्नापि
कश्चित्पराक्रमे ॥ ३ ॥
तुल्यः
सामरदैत्येषु
लोकेषु
हरिसत्तमाः ।
तेष्वेवं
हतवीरेषु
राक्षसेषु
हनूमता ॥ ४ ॥
किमन्यदत्र
कर्तव्यं
गृहीत्वा
याम
जानकीम् ।
तमेवं
कृतसङ्कल्पं
जाम्बवान्
हरिसत्तमः ॥ ५ ॥
उवाच
परमप्रीतो
वाक्यमर्थवदर्थवित् ।
न
तावदेषा
मतिरक्षमा
नो
यथा
भवान्
पश्यति
राजपुत्र ॥ ६ ॥
यथा
तु
रामस्य
मतिर्निविष्टा
तथा
भवान्
पश्यतु
कार्यसिद्धम् ॥ ७ ॥