अव्यग्रमनसो
यूयं
मधु
सेवत
वानराः ।
अहमावारयिष्यामि
युष्माकं
परिपन्थिनः ॥ १ ॥
श्रुत्वा
हनुमतो
वाक्यं
हरीणां
प्रवरोऽङ्गदः ।
प्रत्युवाच
प्रसन्नात्मा
पिबन्तु
हरयो
मधु ॥ २ ॥
अवश्यं
कृतकार्यस्य
वाक्यं
हनुमतो
मया ।
अकार्यमपि
कर्तव्यं
किमङ्ग
पुनरीदृशम् ॥ ३ ॥
अङ्गदस्य
मुखाच्छ्रुत्वा
वचनं
वानरर्षभाः ।
साधु
साध्विति
संहृष्टा
वानराः
प्रत्यपूजयन् ॥ ४ ॥
पूजयित्वाऽङ्गदं
सर्वे
वानरा
वानरर्षभम् ।
जग्मुर्मधुवनं
यत्र
नदीवेगा
इव
द्रुतम् ॥ ५ ॥
ते
प्रविष्टा
मधुवनं
पालानाक्रम्य
वीर्यतः ।
अतिसर्गाच्च
पटवो
दृष्ट्वा
श्रुत्वा
च
मैथिलीम् ॥ ६ ॥
पपुः
सर्वे
मधु
तदा
रसवत्
फलमाददुः ।
उत्पत्य
च
ततः
सर्वे
वनपालान्
समागतान् ॥ ७ ॥
ताडयन्ति
स्म
शतशः
सक्तान्
मधुवने
तदा ।
मधूनि
द्रोणमात्राणि
बाहुभिः
परिगृह्य
ते ॥ ८ ॥
पिबन्ति
सहिताः
सर्वे
निघ्नन्ति
स्म
तथाऽपरे ।
केचित्पीत्वाऽपविध्यन्ति
मधूनि
मधुपिङ्गलाः ॥ ९ ॥
मधूच्छिष्टेन
केचिच्च
जघ्नुरन्योन्यमुत्कटाः ।
अपरे
वृक्षमूले
तु
शाखां
गृह्य
व्यवस्थिताः ॥ १० ॥
अत्यर्थं
च
मदग्लानाः
पर्णान्यास्तीर्य
शेरते ।
उन्मत्तभूताः
प्लवगा
मधुमत्ताश्च
हृष्टवत् ॥ ११ ॥
क्षिपन्ति
च
तदाऽन्योन्यं
स्खलन्ति
च
तथाऽपरे ।
केचित्
क्ष्वेलां
प्रकुर्वन्ति
केचित्
कूजन्ति
हृष्टवत् ॥ १२ ॥
हरयो
मधुना
मत्ताः
केचित्
सुप्ता
महीतले ।
कृत्वा
केचिद्धसन्त्यन्ये
केचित्
कुर्वन्ति
चेतरत् ॥ १३ ॥
कृत्वा
केचिद्वदन्त्यन्ये
केचिद्बुद्ध्यन्ति
चेतरत् ।
येऽप्यत्र
मधुपालाः
स्युः
प्रेष्या
दधिमुखस्य
तु ॥ १४ ॥
तेऽपि
तैर्वानरैर्भीमैः
प्रतिषिद्धा
दिशो
गताः ।
जानुभिस्तु
प्रकृष्टाश्च
देवमार्गं
प्रदर्शिताः ॥ १५ ॥
अब्रुवन्
परमोद्विग्ना
गत्वा
दधिमुखं
वचः ।
हनूमता
दत्तवरैर्हतं
मधुवनं
बलात् ॥ १६ ॥
वयं
च
जानुभिः
कृष्टा
देवमार्गं
च
दर्शिताः ।
ततो
दधिमुखः
क्रुद्धो
वनपस्तत्र
वानरः ॥ १७ ॥
हतं
मधुवनं
श्रुत्वा
सान्त्वयामास
तान्
हरीन् ।
इहागच्छत
गच्छामो
वानरान्
बलदर्पितान् ॥ १८ ॥
बलेन
वारयिष्यामो
मधु
भक्षयतो
वयम् ।
श्रुत्वा
दधिमुखस्येदं
वचनं
वानरर्षभाः ॥ १९ ॥
पुनर्वीरा
मधुवनं
तेनैव
सहसा
ययुः ।
मध्ये
चैषां
दधिमुखः
प्रगृह्य
तरसा
तरुम् ॥ २० ॥
समभ्यधावद्वेगेन
ते
च
सर्वे
प्लवङ्गमाः ।
ते
शिलाः
पादपांश्चापि
पर्वतांश्चापि
वानराः ॥ २१ ॥
गृहीत्वाऽभ्यगमन्
क्रुद्धा
यत्र
ते
कपिकुञ्जराः ।
ते
स्वामिवचनं
वीरा
हृदयेष्ववसज्य
तत् ॥ २२ ॥
त्वरया
ह्यभ्यधावन्त
सालतालशिलायुधाः ।
वृक्षस्थांश्च
तलस्थांश्च
वानरान्
बलदर्पितान् ॥ २३ ॥
अभ्यक्रामंस्ततो
वीराः
पालास्तत्र
सहस्रशः ।
अथ
दृष्ट्वा
दधिमुखं
क्रुद्धं
वानरपुङ्गवाः ॥ २४ ॥
अभ्यधावन्त
वेगेन
हनुमत्प्रमुखास्तदा ।
तं
सवृक्षं
महाबाहुमापतन्तं
महाबलम् ॥ २५ ॥
आर्यकं
प्राहरत्तत्र
बाहुभ्यां
कुपितोऽङ्गदः ।
मदान्धश्च
न
वेदैनमार्यकोऽयं
ममेति
सः ॥ २६ ॥
अथैनं
निष्पिपेषाशु
वेगवद्वसुधातले ।
स
भग्नबाहूरुभुजो
विह्वलः
शोणितोक्षितः ॥ २७ ॥
मुमोह
सहसा
वीरो
मुहूर्तं
कपिकुञ्जरः ।
स
समाश्वस्य
सहसा
सङ्क्रुद्धो
राजमातुलः ॥ २८ ॥
वानरान्
वारयामास
दण्डेन
मधुमोहितान् ।
स
कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ॥ २९ ॥
उवाचैकान्तमाश्रित्य
भृत्यान्
स्वान्
समुपागतान् ।
एते
तिष्ठन्तु
गच्छामो
भर्ता
नो
यत्र
वानरः ॥ ३० ॥
सुग्रीवो
विपुलग्रीवः
सह
रामेण
तिष्ठति ।
सर्वं
चैवाङ्गदे
दोषं
श्रावयिष्यामि
पार्थिवे ॥ ३१ ॥
अमर्षी
वचनं
श्रुत्वा
घातयिष्यति
वानरान् ।
इष्टं
मधुवनं
ह्येतत्
सुग्रीवस्य
महात्मनः ॥ ३२ ॥
पितृपैतामहं
दिव्यं
देवैरपि
दुरासदम् ।
स
वानरानिमान्
सर्वान्
मधुलुब्धान्
गतायुषः ॥ ३३ ॥
घातयिष्यति
दण्डेन
सुग्रीवः
ससुहृज्जनान् ।
वध्या
ह्येते
दुरात्मानो
नृपाज्ञापरिभाविनः ॥ ३४ ॥
अमर्षप्रभवो
रोषः
सफलो
नो
भविष्यति ।
एवमुक्त्वा
दधिमुखो
वनपालान्
महाबलः ॥ ३५ ॥
जगाम
सहसोत्पत्य
वनपालैः
समन्वितः ।
निमेषान्तरमात्रेण
स
हि
प्राप्तो
वनालयः ॥ ३६ ॥
सहस्रांशुसुतो
धीमान्
सुग्रीवो
यत्र
वानरः ।
रामं
च
लक्ष्मणं
चैव
दृष्ट्वा
सुग्रीवमेव
च ॥ ३७ ॥
समप्रतिष्ठां
जगतीमाकाशान्निपपात
ह ।
सन्निपत्य
महावीर्यः
सर्वैस्तैः
परिवारितः ॥ ३८ ॥
हरिर्दधिमुखः
पालैः
पालानां
परमेश्वरः ।
स
दीनवदनो
भूत्वा
कृत्वा
शिरसि
चाञ्जलिम् ॥ ३९ ॥
सुग्रीवस्य
शुभौ
मूर्ध्ना
चरणौ
प्रत्यपीडयत् ॥ ४० ॥