ततो
मूर्ध्ना
निपतितं
वानरं
वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो
वाक्यमेतदुवाच
ह ॥ १ ॥
उत्तिष्ठोत्तिष्ठ
कस्मात्
त्वं
पादयोः
पतितो
मम ।
अभयं
ते
भवेद्वीर
सर्वमेवाभिधीयताम् ॥ २ ॥
स
तु
विश्वासितस्तेन
सुग्रीवेण
महात्मना ।
उत्थाय
सुमहाप्राज्ञो
वाक्यं
दधिमुखोऽब्रवीत् ॥ ३ ॥
नैवर्क्षरजसा
राजन्न
त्वया
नापि
वालिना ।
वनं
निसृष्टपूर्वं
हि
भक्षितं
तच्च
वानरैः ॥ ४ ॥
एभिः
प्रधर्षिताश्चैव
वानरा
वनरक्षिभिः ।
मधून्यचिन्तयित्वेमान्
भक्षयन्ति
पिबन्ति
च ॥ ५ ॥
शिष्टमत्रापविध्यन्ति
भक्षयन्ति
तथाऽपरे ।
निवार्यमाणास्ते
सर्वे
भ्रूवौ
वै
दर्शयन्ति
हि ॥ ६ ॥
इमे
हि
संरब्धतरास्तथा
तैः
संप्रधर्षिताः ।
वारयन्तो
वनातस्मात्
क्रुद्वैर्वानरपुङ्गवैः ॥ ७ ॥
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।
संरक्तनयनैः
क्रोधाद्धरयः
प्रविचालिताः ॥ ८ ॥
पाणिभिर्निहताः
केचित्
केचिज्जानुभिराहताः ।
प्रकृष्टाश्च
यथाकामं
देवमार्गं
च
दर्शिताः ॥ ९ ॥
एवमेते
हताः
शूरास्त्वयि
तिष्ठति
भर्तरि ।
कृत्स्नं
मधुवनं
चैव
प्रकामं
तैः
प्रभक्ष्यते ॥ १० ॥
एवं
विज्ञाप्यमानं
तं
सुग्रीवं
वानरर्षभम् ।
अपृच्छत्तं
महाप्राज्ञो
लक्ष्मणः
परवीरहा ॥ ११ ॥
किमयं
वानरो
राजन्
वनपः
प्रत्युपस्थितः ।
कं
चार्थमभिनिर्दिश्य
दुःखितो
वाक्यमब्रवीत् ॥ १२ ॥
एवमुक्तस्तु
सुग्रीवो
लक्ष्मणेन
महात्मना ।
लक्ष्मणं
प्रत्युवाचेदं
वाक्यं
वाक्यविशारदः ॥ १३ ॥
आर्य
लक्ष्मण
संप्राह
वीरो
दधिमुखः
कपिः ।
अङ्गदप्रमुखैर्वीरैर्भक्षितं
मधु
वानरैः ॥ १४ ॥
विचित्य
दक्षिणामाशामागतैर्हरिपुङ्गवैः ।
नैषामकृतकृत्यानामीदृशः
स्यादुपक्रमः ॥ १५ ॥
आगतैश्च
प्रमथितं
यथा
मधुवनं
हि
तैः ।
धर्षितं
च
वनं
कृत्स्नमुपयुक्तं
च
वानरैः ॥ १६ ॥
दृष्टा
देवी
न
सन्देहो
न
चान्येन
हनूमता ।
न
ह्यन्यः
साधने
हेतुः
कर्मणोऽस्य
हनूमतः ॥ १७ ॥
कार्यसिद्धिर्मतिश्चैव
तस्मिन्
वानरपुङ्गवे ।
व्यवसायश्च
वीर्यं
च
श्रुतं
चापि
प्रतिष्ठितम् ॥ १८ ॥
जाम्बवान्
यत्र
नेता
स्यादङ्गदश्च
महाबलः ।
हनूमांश्चाप्यधिष्ठाता
न
तस्य
गतिरन्यथा ॥ १९ ॥
अङ्गदप्रमुखैर्वीरैर्हतं
मधुवनं
किल ।
वारयन्तश्च
सहितास्तथा
जानुभिराहताः ॥ २० ॥
एतदर्थमयं
प्राप्तो
वक्तुं
मधुरवागिह ।
नाम्ना
दधिमुखो
नाम
हरिः
प्रख्यातविक्रमः ॥ २१ ॥
दृष्टा
सीता
महाबाहो
सौमित्रे
पश्य
तत्त्वतः ।
अभिगम्य
तथा
सव-
?
पिबन्ति
मधु
वानराः ॥ २२ ॥
न
चाप्यदृष्ट्वा
वैदेहीं
विश्रुताः
पुरुषर्षभ ।
वनं
दत्तवरं
दिव्यं
धर्षयेयुर्वनौकसः ॥ २३ ॥
श्रुत्वा
कर्णसुखां
वाणीं
सुग्रीववदनाच्च्युताम् ।
प्राहृष्यत
भृशं
रामो
लक्ष्मणश्च
महाबलः ॥ २४ ॥
श्रुत्वा
दधिमुखस्येदं
सुग्रीवस्तु
प्रहृष्य
च ।
वनपालं
पुनर्वाक्यं
सुग्रीवः
प्रत्यभाषत ॥ २५ ॥
प्रीतोऽस्मि
सोऽहं
युद्भुक्तं
वनं
तैः
कृतकर्मभिः ।
मर्षितं
मर्षणीयं
च
चेष्टितं
कृतकर्मणाम् ॥ २६ ॥
इच्छामि
शीघ्रं
हनुमत्प्रधानान्
शाखामृगांस्तान्
मगृहराजदर्पान् ।
द्रष्टुं
कृतार्थान्
सह
राघवाभ्यां
श्रोतुं
च
सीताधिगमे
प्रयत्नम् ॥ २७ ॥
प्रीतिस्पीताक्षौ
सम्प्रहृष्टौ
कुमारौ
दृष्ट्वा
सिद्धार्थौ
वानराणां
च
राजा ।
अङ्गैः
संहृष्टैः
कर्मसिद्धिं
विदित्वा
बाह्वोरासन्नां
सोऽतिमात्रं
ननन्द ॥ २८ ॥