सुग्रीवेणैवमुक्तस्तु
हृष्टो
दधिमुखः
कपिः ।
राघवं
लक्ष्मणं
चैव
सुग्रीवं
चाभ्यवादयत् ॥ १ ॥
स
प्रणम्य
च
सुग्रीवं
राघवौ
च
महाबलौ ।
वानरैः
सहितैः
शूरैर्दिवमेवोत्पपात
ह ॥ २ ॥
स
यथैवागतः
पूर्वं
तथैव
त्वरितं
गतः ।
निपत्य
गगनाद्भूमौ
तद्वनं
प्रविवेश
ह ॥ ३ ॥
स
प्रविष्टो
मधुवनं
ददर्श
हरियूथपान् ।
विमदानुत्थितान्
सर्वान्
मेहमानान्
मधूदकम् ॥ ४ ॥
स
तानुपागमद्वीरो
बद्ध्वा
करपुटाञ्जलिम् ।
उवाच
वचनं
श्लक्ष्णमिदं
हृष्टवदङ्गदम् ॥ ५ ॥
सौम्य
रोषो
न
कर्तव्यो
यदेभिरभिवारितः ।
अज्ञानाद्रक्षिभिः
क्रोधाद्भवन्तः
प्रतिषेधिताः ॥ ६ ॥
युवराजस्त्वमीशश्च
वनस्यास्य
महाबल ।
मौर्ख्यात्
पूर्वं
कृतो
दोषस्तं
भवान्
क्षन्तुमर्हति ॥ ७ ॥
आख्यातं
हि
मया
गत्वा
पितृव्यस्य
तवानघ ।
इहोपयातं
सर्वेषामेतेषां
वनचारिणाम् ॥ ८ ॥
स
त्वदागमनं
श्रुत्वा
सहैभिर्हरियूथपैः ।
प्रहृष्टो
न
तु
रुष्टोऽसौ
वनं
श्रुत्वा
प्रधर्षितम् ॥ ९ ॥
प्रहृष्टो
मां
पितृव्यस्ते
सुग्रीवो
वानरेश्वरः ।
शीघ्रं
प्रेषय
सर्वांस्तानिति
होवाच
पार्थिवः ॥ १० ॥
श्रुत्वा
दधिमुखस्येदं
वचनं
श्लक्ष्णमङ्गदः ।
अब्रवीत्तान्
हरिश्रेष्ठो
वाक्यं
वाक्यविशारदः ॥ ११ ॥
शङ्के
श्रुतोऽयं
वृत्तान्तो
रामेण
हरियूथपाः ।
तत्क्षमं
नेह
नः
स्थातुं
कृते
कार्ये
परन्तपाः ॥ १२ ॥
पीत्वा
मधु
यथाकामं
विश्रान्ता
वनचारिणः ।
किं
शेषं
गमनं
तत्र
सुग्रीवो
यत्र
मे
गुरुः ॥ १३ ॥
सर्वे
यथा
मां
वक्ष्यन्ति
समेत्य
हरियूथपाः ।
तथाऽस्मि
कर्ता
कर्तव्ये
भवद्भिः
परवानहम् ॥ १४ ॥
नाज्ञापयितुमीशोऽहं
युवराजोऽस्मि
यद्यपि ।
अयुक्तं
कृतकर्माणो
यूयं
धर्षयितुं
मया ॥ १५ ॥
ब्रुवतश्चाङ्गदश्यैवं
श्रुत्वा
वचनमव्ययम् ।
प्रहृष्टमनसो
वाक्यमिदमूचुर्वनौकसः ॥ १६ ॥
एवं
वक्ष्यति
को
राजन्
प्रभुः
सन्
वानरर्षभ ।
ऐश्वर्यमदमत्तो
हि
सर्वोऽहमिति
मन्यते ॥ १७ ॥
तव
चेदं
सुसदृशं
वाक्यं
नान्यस्य
कस्यचित् ।
सन्नतिर्हि
तवाख्याति
भविष्यच्छुभयोग्यताम् ॥ १८ ॥
सर्वे
वयमपि
प्राप्तास्तत्र
गन्तुं
कृतक्षणाः ।
स
यत्र
हरिवीराणां
सुग्रीवः
पतिरव्ययः ॥ १९ ॥
त्वया
ह्यनुक्तैर्हरिभिर्नैव
शक्यं
पदात्पदम् ।
क्वचिद्गन्तुं
हरिश्रेष्ठ
ब्रूमः
सत्यमिदं
तु
ते ॥ २० ॥
एवं
तु
वदतां
तेषामङ्गदः
प्रत्यभाषत ।
बाढं
गच्छाम
इत्युक्त्वा
खमुत्पेतुर्महाबलाः ॥ २१ ॥
उत्पतन्तमनूत्पेतुः
सर्वे
ते
हरियूथपाः ।
कृत्वाऽऽकाशं
निराकाशं
यन्त्रोत्क्षिप्ता
इवाचलाः ॥ २२ ॥
तेऽम्बरं
सहसोत्पत्य
वेगवन्तः
प्लवङ्गमाः ।
विनदन्तो
महानादं
घना
वातेरिता
यथा ॥ २३ ॥
अङ्गदे
समनुप्राप्ते
सुग्रीवो
वानराधिपः ।
उवाच
शोकोपहतं
रामं
कमललोचनम् ॥ २४ ॥
समाश्वसिहि
भद्र
ते
दृष्टा
देवी
न
संशयः ।
नागन्तुमिह
शक्यं
तैरतीते
समये
हि
नः ॥ २५ ॥
न
मत्सकाशमागच्छेत्
कृत्ये
हि
विनिपातिते ।
युवराजो
महाबाहुः
प्लवतां
प्रवरोऽङ्गदः ॥ २६ ॥
यद्यप्यकृतकृत्यानामीदृशः
स्यादुपक्रमः ।
भवेत्
स
दीनवदनो
भ्रान्तविप्लुतमानसः ॥ २७ ॥
पितृपैतामहं
चैतत्
पूर्वकैरभिरक्षितम् ।
न
मे
मधुवनं
हन्यादहृष्टः
प्लवगेश्वरः ॥ २८ ॥
कौसल्या
सुप्रजा
राम
समाश्वसिहि
सुव्रत ।
दृष्टा
देवी
न
सन्देहो
न
चान्येन
हनूमता ॥ २९ ॥
हनूमति
हि
सिद्धिश्च
मतिश्च
मतिसत्तम ।
व्यवसायश्च
वीर्यं
च
सूर्य
तेज
इव
ध्रुवम् ॥ ३० ॥
जाम्बवान्
यत्र
नेता
स्यादङ्गदश्च
बलेश्वरः ।
हनुमांश्चाप्यधिष्ठाता
न
तस्य
गतिरन्यथा ॥ ३१ ॥
मा
भूश्चिन्तासमायुक्तः
सम्प्रत्यमितविक्रम ।
हनुमत्कर्मदृप्तानां
नर्दतां
काननौकसाम् ॥ ३२ ॥
किष्किन्धामुपयातानां
सिद्धिं
कथयतामिव ।
ततः
श्रुत्वा
निनादं
तं
कपीनां
कपिसत्तमः ॥ ३३ ॥
आयताञ्चितलाङ्गूलः
सोऽभवद्धृष्टमानसः ।
आजग्मुस्तेऽपि
हरयो
रामदर्शनकाङ्क्षिणः ॥ ३४ ॥
अङ्गदं
पुरतः
कृत्वा
हनूमन्तं
च
वानरम् ।
तेऽङ्गदप्रमुखा
वीराः
प्रहृष्टाश्च
मुदाऽन्विताः ॥ ३५ ॥
निपेतुर्हरिराजस्य
समीपे
राघवस्य
च ।
हनुमांश्च
महाबाहुः
प्रणम्य
शिरसा
ततः ॥ ३६ ॥
नियतामक्षतां
देवीं
राघवाय
न्यवेदयत् ।
निश्चितार्थस्ततस्तस्मिन्
सुग्रीवः
पवनात्मजे ॥ ३७ ॥
लक्ष्मणः
प्रीतिमान्
प्रीतं
बहुमानादवैक्षत ।
प्रीत्या
च
रममाणोऽथ
राघवः
परवीरहा ॥ ३८ ॥
बहुमानेन
महता
हनुमन्तमवैक्षत ॥ ३९ ॥