ततः
प्रस्रवणं
शैलं
ते
गत्वा
चित्रकाननम् ।
प्रणम्य
शिरसा
रामं
लक्ष्मणं
च
महाबलम् ॥ १ ॥
युवराजं
पुरस्कृत्य
सुग्रीवमभिवाद्य
च ।
प्रवृत्तिमथ
सीतायाः
प्रवक्तुमुपचक्रमुः ॥ २ ॥
रामे
समनुरागं
च
यश्चायं
समयः
कृतः ।
एतदाख्यान्ति
ते
सर्वे
हरयो
रामसन्निधौ ॥ ३ ॥
वैदेहीमक्षतां
श्रुत्वा
रामस्तूत्तरमब्रवीत् ।
क्व
सीता
वर्तते
देवी
कथं
च
मयि
वर्तते ॥ ४ ॥
एतन्मे
सर्वमाख्यात
वैदेहीं
प्रति
वानराः ।
रामस्य
गदितं
श्रुत्वा
हरयो
रामसन्निधौ ॥ ५ ॥
चोदयन्ति
हनूमन्तं
सीतावृत्तान्तकोविदम् ।
प्रणम्य
शिरसा
देव्यै
सीतायै
तां
दिशं
प्रति ॥ ६ ॥
उवाच
वाक्यं
वाक्यज्ञः
सीताया
दर्शनं
यथा ।
समुद्रं
लङ्घयित्वाऽहं
शतयोजनमायतम् ॥ ७ ॥
अगच्छं
जानकीं
सीतां
मार्गमाणो
दिदृक्षया ।
तत्र
लङ्केति
नगरी
रावणस्य
दुरात्मनः ॥ ८ ॥
दक्षिणस्य
समुद्रस्य
तीरे
वसति
दक्षिणे ।
तत्र
दृष्टा
मया
सीता
रावणान्तःपुरे
सती ॥ ९ ॥
सन्न्यस्य
त्वयि
जीवन्ती
रामा
राम
मनोरथम् ।
दृष्टा
मे
राक्षसीमध्ये
तर्ज्यमाना
मुहुर्मुहुः ॥ १० ॥
राक्षसीभिर्विरूपाभी
रक्षिता
प्रमदावने ।
दुःखमासाद्यते
देवी
तथाऽदुःखोचिता
सती ॥ ११ ॥
रावणान्तःपुरे
रुद्धा
राक्षसीभिः
सुरक्षिता ।
एकवेणीधरा
दीना
त्वयि
चिन्तापरायणा ॥ १२ ॥
रावणाद्विनिवृत्तार्था
मर्तव्यकृतनिश्चया ।
देवी
कथञ्चित्
काकुत्स्थ
त्वन्मना
मार्गिता
मया ॥ १३ ॥
इक्ष्वकुवंशविख्यातिं
शनैः
कीर्तयताऽनघ ।
सा
मया
नरशार्दूल
विश्वासमुपपादिता ॥ १४ ॥
ततः
सम्भाषिता
देवी
सर्वमर्थं
च
दर्शिता ।
रामसुग्रीवसख्यं
च
श्रुत्वा
प्रीतिमुपागता ॥ १५ ॥
नियतः
समुदाचारो
भक्तिश्चास्यास्तथा
त्वयि ।
एवं
मया
महाभागा
दृष्टा
जनकनन्दिनी ॥ १६ ॥
उग्रेण
तपसा
युक्ता
त्वद्भक्त्या
पुरुषर्षभ ।
अभिज्ञानं
च
मे
दत्तं
यथा
वृत्तं
तवान्तिके ॥ १७ ॥
चित्रकूटे
महाप्राज्ञ
वायसं
प्रति
राघव ।
विज्ञाप्यश्च
नरव्याघ्रो
रामो
वायुसुत
त्वया ॥ १८ ॥
अखिलेनेह
यद्
दृष्टमिति
मामाह
जानकी ।
अयं
चास्मै
प्रदातव्यो
यत्नात्
सुपरिरक्षितः ॥ १९ ॥
ब्रुवता
वचनान्येवं
सुग्रीवस्योपशृण्वतः ।
एष
चूडामणिः
श्रीमान्
मया
सुपरिरक्षितः ॥ २० ॥
मनःशिलायास्तिलको
गण्डपार्श्वे
निवेशितः ।
त्वया
प्रनष्टे
तिलके
तं
किल
स्मर्तुमर्हसि ॥ २१ ॥
एष
निर्यातितः
श्रीमान्
मया
ते
वारिसम्भवः ।
जीवितं
धारयिष्यामि
मासं
दशरथात्मज ॥ २२ ॥
ऊर्ध्वं
मासान्न
जीवयं
रक्षसां
वशमागता ।
इति
मामब्रवीत्सीता
कृशाङ्गी
धर्मचारिणी ॥ २३ ॥
रावणान्तःपुरे
रुद्धा
मृगीवोत्फुल्ललोचना ।
एतदेव
मयाऽऽख्यातं
सर्वं
राघव
यद्यथा ॥ २४ ॥
सर्वथा
सागरजले
सन्तारः
प्रविधीयताम् ।
तौ
जाताश्वासौ
राजपुत्रौ
विदित्वा
तच्चाभिज्ञानं
राघवाय
प्रदाय ॥ २५ ॥
देव्या
चाख्यातं
सर्वमेवानुपूर्व्याद्वाचा
सम्पूर्णं
वायुपुत्रः
शशंस ॥ २६ ॥